________________
नयकर्णिका। ३ ते। विशेषभिन्नं सामान्यमसत्खरविषाणवत् ॥८॥ ___ व्यवहारश्च व्यवहारनामा नयः विशेषात्मकं पर्यायस्वरूपमेवार्थ पदार्थ मन्यते कक्षीकुरुते कुतः जिनोपदेशे विशेषभिन्नं विशेषात्पृथक्भूतं सामान्यमसत् नास्ति खरविषाणवत् रासभशृङ्गवत् तर्हि विशेषमात्र एव पदार्थः ॥ ८॥ __ वनस्पतिं गृहाणेति प्रोक्ते गृह्णाति कोऽपि किम्। विना विशेषान्नानादीस्तन्निरर्थकमेव तत् ॥ ६ ॥
एनमेवादाहरति यदा केनचिद्वको कश्चिदादिष्टः भो त्वं वनस्पतिं गृहाण इति प्रोक्ते कथिते सति किं कोऽपि निम्बाम्रादीन् विशेषान् विना गृह्णाति न कोऽपि गृह्णाति तत्तस्मात्कारणाद्हणाभावात्तत्सामान्यं निरर्थकं निष्फलमेवेति ॥ ९॥
व्रणपिण्डीपादलेपादिके लोकप्रयो