Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay
Catalog link: https://jainqq.org/explore/600201/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Aslesleshastastestaskoskastasiasesaslesiasleshablastaslesheshadka श्रीराजेन्द्रप्रवचनकार्यालय-सिरीज १२ श्रीसौधर्मबृहत्तपोगच्छस्वच्छाम्बरविहारि-सुविहितमूरिकुलतिलक-सर्वतन्त्रस्वतन्त्र-शासनसम्राट्-परमयोगिराजजङ्गमयुगप्रधान-जगत्पूज्य गुरुदेव श्री श्री १००८ श्रीमद्विजयराजेन्द्रसूरीश्वर-चरणारविन्द सेवाहेवाक व्याख्यानवाचस्पत्युपाध्याय-श्रीमद्यतीन्द्रविजय-निर्मितम् । गद्यपद्यसंस्कृताऽऽत्मकं श्रीचम्पकमालाचरित्रम्। प्रकाशकश्चास्यमरुधरदेशान्तर्गत-खुडालानगरस्थ-श्रीराजेन्द्रप्रवचनकार्यालयः । श्रीवीरनिर्वाणसं. २४५९ । मुद्रक:-शा. गुलाबचंद लल्लुभाई, श्री मदोदय प्रिंन्टींग प्रेस-भावनगर. विक्रमादे १९९० श्रीराजेन्द्रसूरिसं. २७ मूल्यमर्धरूप्यकम् । । खिस्ताब्दे १९३३ For Persons & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ व्याख्यानवाचस्पत्युपाध्याय-श्रीमद्यतीन्द्रविजयमुनिप्रवराणां प्रशस्तिपत्रम् । जिनमतजनतातिजातमानः, यमनियमादिगुणैर्विराजमानः। मुनिजनमनसि सुधासमानः, जयतु यतीन्द्र-'यतीन्द्र' वन्द्यमानः ॥ १॥ गुणिगणगणनाप्रगण्यमानः, शिवपदवीपदवीं प्रवर्तमानः । भविभवभवभीतिभज्यमानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ २॥ अविरतसुतपस्तपस्यमानः, शमदमशीलगुणैश्च शोभमानः । जगति जडजनान् विबोध्यमानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ३ ॥ अनुपमतनुदीप्तिदीप्यमानः, जिनततिशासितशासने सुमानः । कविरिव कविसङ्घसेव्यमानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ४ ॥ जनजननमृतिविदार्यमाणः, सततसुदुर्धरवीर्यधार्यमाणः । मतिमदतिनतो गताभिमानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ५ ॥ जगति जलधिजीवतार्यमाणः, सकलसदागम मर्मपार्यमाणः । मदगदरहितः प्रधीप्रधानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ६ ॥ तपन इव विभा वितप्यमानः जनकमलौघमुदा विकास्यमानः। अखिलखलखलत्वहापयानः । जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ७ ॥ कलिमलिनमलं बलादलं यः, दलतितरां मुनिमण्डलायमानः । अपरपरनरे सदा समानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ८ ॥ स्तुतिरिहर चिता सुपुष्पिताग्रा, पदरुचिरा च यतीन्द्रवाचकानाम् । भवतु सुफलदा सदा तदेषा, द्युतरुलतेव फला सुपुष्पिताग्रा ॥ ९ ॥ श्लोकानां नवकं रम्यं, शब्दार्थालङ्कतिश्रितम् । व्याख्यानवाक्पतिश्रीमद्यतीन्द्रविजयस्य वै ॥ १० ॥ रचितं वाचकप्रीत्यै शिवशङ्करशास्त्रिणा। शाब्दे शास्त्रे च साहित्ये, आचार्यपदधारिणा ॥ ११ ॥ Jain Education Themational For Personal & Private Use Only s Page #3 -------------------------------------------------------------------------- ________________ गद्यपद्यसंस्कृताऽऽत्मकं श्रीचम्पकमालाचरित्रम् । यस्योदारगुणावलीमनुपमां लोकत्रयीव्यापिकां, गायङ्गायमकल्मषाः शिवपदं प्रापुः कियन्तः परे । तेजःपुञ्जमयं प्रणम्य तदहं भास्वत्प्रभाजित्वरं कुर्वे चम्पकमालिकासुचरितं सद्धीमतां प्रीतये ॥ १ ॥ अथादौ शिष्टाचारपरिपालनाय विघ्नविघाताय च निजगुरुगौरवपदनमस्कारात्मकं मङ्गलमातन्वानः सूचीकटाहन्यायेन प्रारीप्सितकथायाः प्रधानाङ्गत्वेन च प्रथमं शीलमाहात्म्यं वर्णयति— यद्यपि प्राक्तना विद्वत्तमाः शिष्टाचतुर्विधेषु धर्मेषु सर्वजीवोपकारित्वाद् दानस्य प्राधान्यमाचचक्षिरे । तथापि सकलनास्त्रपारदृश्वानो महान्त आप्ततमास्ततोऽपि दुष्करं शीलमेवोचिरे, ध्रुवममुष्य गरीयसः शीलस्याऽवनायैव नवधा गुप्तीर्निर्ममिरे च ते । वरीवृत्त्यते च येषामखण्डितमाबाल्याच्छीलमदः समुज्ज्वलम् । बोभूयन्ते च त एव जीवा धन्यवादार्हाः परत्र चामुत्र च । किञ्चादः शीलमेव चारित्र्यवपुषः प्रेयः प्राणमस्ति । प्राणं विना शरीरं यथा न शोभते, तथा शीलं विना सदपि चारित्र्यमकिञ्चित्करमेव जायते । अपि चान्येषां तादीनां भग्नत्वेऽपि पुनः सन्धानं जातुचिजायतेतमाम् एतच्च भग्नतामुपगतश्चेत् For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ बीचम्पक माला ॥२॥ परिपक्कता नीतं मृण्मयभाण्डमिव पुनः सन्धातुं केनापि नैव शक्यते । किञ्चामुष्य शीलस्य सम्यगाराधितस्य लोकोत्तरोऽत्यद्भुतः प्रभावो जगत्रये समेषां भव्यानां सुप्रतीत एव जागर्ति दिवानिशम् । इत्थममुष्य सच्छीलस्यापि प्राधान्यं जगत्यामाततमानां मुखादालोकमानोऽप्यहमपि यथामति संक्षिप्तमुपवर्ण्य सम्प्रति प्रस्तुतां कथां वर्णयामि । तथाहि अस्मिन् भरतखण्डे जम्बूद्वीपे लक्ष्मीदेव्या मनोहरागारमिव सकलदेशललामभृतो मालवो नाम जनपदो वरीवति । यस्याऽनुपमविभूतिलवलेशोऽपि दिवा नाऽऽलम्भि । भृशमेष स्वीययाऽतुलया धियाऽमरपुरं हेपयमाणो विचकास्ति । अतः स्वर्गादपि गरीयानेष मालवो जनपदः सदैव चाचकीतितमाम् , स्वर्गे यथा विमानानि शोभन्ते, तद्वद् यत्र नगराणि महत्तराणि निलिम्पानामपि चेतोहराणि शोशुभ्यन्ते । किश्च यत्र नगराणि विशालतराणि सकमलानि शश्वदमलजलपरिपूर्णानि सरांस्यसंख्यानि दरीदृश्यन्ते । लसन्ति च तेषु नगरेषु सकलशास्त्रपारङ्गता विद्याचणाः कर्मठाः सुरा इव भूयांसो भूसुराः। विभ्राजन्ते च तेषु गगनचुम्बीनि सप्ताष्टभौमानि सौधानि । मदयन्ति च येषु नगरेषु वैमानिका अप्सरस इव सौन्दर्यगर्विताः सच्छीलमण्डिताः सुस्थिरयौवनाः सकलाश्च कान्ताः। ध्रुवमत्र देशे ग्रामटिका अपि देशान्तरीयनगराद् दीर्घतरा एव समुल्लसन्ति विषयग्रामा इव । विषयग्रामे यथा विविधविषयाः सुखार्हा अतिसुन्दराः सन्ति, तथैव यत्र मालवीयपुर्या कियत्यः कान्ता बालाः सुकोमलाः, कियत्यस्तडिद्गौरवर्णाः सुतारुण्यपरिपूर्णा यूनां मनोहराः सुसजिताः सदैव विराजन्ते । किञ्च नानाविधकमनीयाराम-वापीकूप-तटाकानेकमणिमयजिनेश्वरीयगगनलिहचैत्यैः सुमण्डिता लघुग्रामा अपि विदुषां चेतःसु द्रुततरमाह्लादं जनयितुं पटीयांसः सन्ति, चेत्तत्र महानगराणि सुरनगरतोऽप्यधिकानि स्युस्तत्र किञ्चित्रम् । किंबहुना, यत्र याताः कवयो मोमुद्यमाना द्यामपि विषयग्रामे यथा विविधाविषण्ण परिपूर्णा यूनां मनोहराः सानामा अपि विदुषां चेतः शान्तरीयनगर सुन्दराः सन्ति नकमणिमयायपरिपूर्णा ॥२॥ क 25 Jain Education For Personal & Private Use Only प्र jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ नैव कामयन्ते । तन्मन्ये सुरासुरगणैर्मामध्यमानो रत्नाकरस्तद्भीत्यैवाऽन्तर्गतानि सारतराणि रत्नानि पीयूषञ्च तत्रैव स्थापयाश्चक्रिवान् । तद्देशीयाः पुमांसोऽल्पविद्याभ्यासेनापि प्रकटितकुशाग्रधियस्ते झटित्येव परेङ्गितज्ञाः सन्नीतियुक्तिसूक्तिनिपुणा विद्यन्ते । यत्रोद्भूता लोकाः परस्परमैत्रीभावमेव समाश्रयन्तः सर्वप्राणिषु साधव इव कारुण्यमेव दर्शयन्तितमाम् । उपेक्षन्ते च दुर्जनसङ्गतिम् । सेवन्ते च महीयसां सद्गुरूणां वचांसि । चेक्रियन्ते च सर्वदा निजदेवगुरुभक्तिम् । समुद्धरन्ति चातिदीनजनान् दुःखसन्ततेः । पालयन्ति च शश्वदार्हतं धर्मम् । त्यजन्ति च नितरां सावद्यकर्माणि । आकर्णयन्ति च प्रत्यहं गुरुमुखात्सवाक्यानि । तत्र मालवे भूदेव्याः शिरश्छत्रमिव निःशेषभूजाततापमपाहरन्ती सुरपुरीमपि जयन्ती खलूजयिनी नाम महीयसी राजनगरी शोशुभ्यतेतमाम् । यामभितः सुरसरिदिव विविधजन्मजातदुरितक्षयकरी सकलसुखकरी विमुक्तिनगरी सहचरीव मनोहरा शिप्रानाममहानदी समुल्लसतितमाम् । तां परित आनन्दकन्दजनकानि नन्दनवनानि बहून्युपवनानि चेतोहराणि सन्ति । मन्ये स्वस्मादधिकानि तान्यालोक्यैव व्रीडां भूयसीं विदधत्तन्नन्दनं वनं मेरुमशिश्रियदिति । कयाचित्प्रीतिमत्या युवत्या जुष्टः प्रीतिमान् पुमानिव यस्यां प्रमत्तालिकुलसुजुष्टकमल कुलविलसितशीतलाऽगाधजलसंभृताभिः परिखाभिर्दुर्द्धर्षाभिः परेषामभिश्रितः प्राकारो नितरां शोभामाधत्ते । यत्र पुर्यां स्वर्णकलशलक्षितशिखरशोभमानमुच्चैस्तममाकाशलेहिनैकजिनमन्दिरं नवोदितजगच्चक्षुः संस्पृष्टकनकाचलानुकारि भातितमाम् । यस्यां नगर्यां महेभ्यानां प्रासादशिखरोपरिसंस्थापिता कोटीश्वरत्वमनुमापयन्ती समुल्लसन्ती वैजयन्ती परिस्फुरतितमामसंख्याता । दातारोऽपि तत्र नगरे भूयांसो महीयांसच याचकगणाय प्रार्थितादप्यधिकं For Personal & Private Use Only *%%% Page #6 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥३॥ तथा वितरन्तितमा यथा कल्पतरुश्चिन्तामणिर्वा नो दद्यात् । तस्यां नगर्यां निजौजसा महीयसा सहसा वित्रासिताशेषविपक्षपक्षः समस्तजगतीतलप्रसारिनैदाघभानुकल्पाऽनल्पतेजा रणविक्रमी 'विक्रमादित्यो नाम क्षितिपतिरन्वर्थनामा धरामेतामशेषां शास्ति । - असौ किल धीरतया बलबुद्धियोगेन चाऽग्निवेतालनामानं व्यन्तरदेवं वशंवदं व्यधादुपासनया महत्या, सर्वदैव स देवस्तदादेशं सम्पादयति, तत्प्रभावादगम्यदेशेऽप्येष सुखेन गच्छति, अजय्यमपि विद्विषां कुलमनायासेन जयति, दिव्यमपि सुखं मयेऽस्मिन् भुङ्क्ते । स किलाजन्मनिर्मलमखण्डितं शीलं परिपालयन् , रिपुकुलं परिभवन् , दीनानुद्धरन् , सेवकान् कुटुम्बांश्च सुखयन् , गुणिजनान् सत्कुर्वन् , कलिकालेऽप्यमुष्मिन् परस्त्रियं भगिनी जानन् भुवं नयेन शास्ति । इत्थं विशिष्टस्यास्य भूजानेरान्तरं मिथ्यात्वतमस्तोमं निराकृत्य महाद्भुतप्रभावशाली श्रीमानसिद्धसेनदिवाकराचार्यः सम्यक्त्वरूपभानूदयं तदन्तष्करणभवने भावितवान् । अयं हि निजविरचिताऽपूर्वपवित्रस्तोत्रमहिम्ना शिवलिङ्गमध्याच्छीपार्श्वनाथप्रभोर्मनोहरं बिम्बं प्रकटयामास । तच्च बिम्ब प्रत्यहं विक्रमार्को राजा समर्चयन् भृयसी चमत्कृति लेभेऽस्याञ्जगत्याम् । स हि खलु सुवर्णमयपुरुषादुत्पन्नं कृत्स्नं स्वर्ण लोकेभ्यो विततार । तथा जगजीवसदनामिमां पृथ्वीमनृणां विधाय स्वनाम्ना सम्वत्सरं सर्वत्र स्थापयाश्चकार । किञ्चायं स्वयं नानाविधां क्लेशपरम्परां सहमानः परेषां दुःखानि साकल्येन दूरीकुर्वञ्जीमूतवाहनादिकथा सत्यापयामास । कलाचार्यः इवाऽशेषकलापारदृश्वा भवन्नपि स्वल्पकलाज्ञानवतोऽपि जनानधिकमादरयन्नासीत् । इत्यादिबहुविधसद्गुणगणगरीयान् श्रीमान् विक्रमादित्यभूजानिः सकलशास्त्रवित्तविद्यावज्जनमण्डितायां समग्रगुणगणविभूषितायां सभायां सुखासीनः सुधर्मसभासीनः सुरेश्वर इव विराजतेतमाम् । तस्यां सभायां कियन्तः पण्डिताः ॥३॥ Educa For Persona & Private Use Only w.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ माविषयिणीमतिदुर्गमा चचा एवं शनाऽखादिविषयिणाम दृशीं नृपोक्तिमाकण्य मुलका शस्त्रजाः शास्त्रजास्तथा कलाविषयिणीमतिदुर्गमां चर्चा कुर्वन्तः क्षितिपति सभ्याञ्जनांश्च मोदयन्ति स्म । अपरे विद्वद्वरास्तर्ककर्कसतत्त्वविचारणया समग्रसभ्यान् रञ्जयन्तः शुशुभिरे । एवं शस्त्रास्त्रादिविषयिणीमतिविषमां विचारणां शृण्वन् राजोचिवान्-'भो भोः पण्डिताः! यूयं कथयत, यदहं कां विषमां कलां नो विजानामीति ? ।' ईदृशीं नृपोक्तिमाकर्ण्य मुख्याः सभ्या ऊचिरे । स्वामिन् ! | याः कलाः सुरगुरुदैत्याचार्यो वा नो वेत्ति, ता अपि विषमाः कला भवान् वेद, किश्चात्र लोके शस्त्रजाः शास्त्रजास्तथा बुद्धि-ल l कल्पिताः सकला अपि कला भवदन्तष्करणे सुखेन निवसन्तितमाम् । इत्याकलय्य कश्चित्पटीयान् सुविद्वान् शिशिरे काले | | शिरस्यभिषिक्तो नर इव शिरः कम्पयन्नवसरोचितां गिरं जजल्प-राजन् ! अमी सकला अपि पण्डिताः सत्यं नैव निगदन्ति, केवलं मधुरालापसंलापेन ड्रमतं मन एव रञ्जयन्ति । यतःअवास्तवैर्वास्तवैर्वा, संस्तवैः संस्तवैषिणः। ये प्रियोक्तिप्रियान् नाथान् , रञ्जयन्ति जयन्ति ते॥१॥ व्याख्या सम्यक्स्तोतुमिच्छन्ति स्वामिनमिति यावत , ईदृशाः स्वामिस्तुतिकर्तारो जनाः, प्रियोक्तिप्रियान्मधुरालापमात्रतुष्टान् नाथान-स्वामिनः वास्तवैर्यथाथैः, अवास्तवैरयथाथैः, संस्तवैः स्तोत्रः-प्रशंसनैर्ये रज्जयन्ति मोदयन्ति ते जना एव जयन्ति । अतः जलार्थी चातको नीरदमिवैते धनार्थिनो विद्वांसो मधुरोक्त्या भवन्तं रञ्जयन्ति, तत्त्वं किमपि न विमृशन्ति । देव ! सत्यं पृच्छसि चेदहं वाचालतया तदुत्तरं समुचितं ददामि । यतः-'वाचालं विहाय कोऽप्यन्यः क्षितिपतेरुत्तरं है दातुं नैव शक्नुयात् ।' प्रभो ! सकला अपि कला भवान् वेत्ति, तत्र नास्ति सन्देहस्तथापि स्त्रीणां चारित्र्यकलायामनभिज्ञता Jain Education For Persona & Private Use Only I ntrary.org Page #8 -------------------------------------------------------------------------- ________________ लाचरित्र श्रीचम्पक माला ॥४॥ मेव विभर्षि. यः खलु सर्वेषां तर्कालङ्कारप्रभृतिशास्त्राणामतिगूढार्थमवगच्छति. व्यवहारेषु चाऽसीमं चातुर्यं धत्ते, तेनापि स्त्रीणां मानसीवृत्तिर्जात्वपि नैव ज्ञायते । योऽपि विद्वान् पुमान् निजबुद्धिचातुर्या देवानपि वश्चयति, सोऽपि मनोनुकूलं विविधं रममाणया युवत्या लीलयैवाऽवश्यत ।' इदमत्र तात्पर्यम्-विषयक्रीडया महान्तमपि कियन्तं धीरं नरं सादरं वञ्चितवती युवतिः, ताश्च निजविविधविलासचातुरीकलाकलापेनैन्द्रजालिकवन्महतामपि मनांसि संमोहयन्ति, धीरानपि किङ्करीभृतान् कुर्वन्ति, तर्हि ये खलु स्वरूपतो मूढाः सन्ति नरास्तेषां कियती शक्तिस्तच्चरित्रमवगन्तुमिति ?, 'स्त्रियो हि क्षणादेव पीता सती मदिरेव जनानुन्मादयन्ति ।' यदुक्तम् संमोहयन्ति मदयन्ति विडम्बयन्ति, निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां, किं नाम वामनयना न समाचरन्ति ॥ २॥ तथासति यथा मरुभूमौ जलपूर्णा नदी दुर्लभा विद्यते, तथा तयोन्मत्तीकृतानां पुंसामन्तष्करणे तत्त्वविचारणायाः श्रादुर्भावोऽपि दुराप एव संभाव्यते । तस्माद् हे नाथ ! गगने समुत्पततां खगानां चरणौ यथा केनापि ज्ञातुं न शक्येते, जलेषु च सञ्चलतां मीनानां चरणपंक्ति तुमशक्यास्ति, तथा स्त्रीचरित्रमपि धीमतापि पुंसा ज्ञातुमशक्यमेव । अतो मया जलप्यतेहै यद् भवान् कलान्तरेषु विज्ञतमोऽपि स्त्रीचरित्रेऽनभिज्ञतामेव बिभर्तितमाम् । अतोऽमी सभ्या भवदने प्रियं रुचिरं वच आलप न्तस्तत्र भवतां मनो रञ्जयन्ति । इत्येतन्निशम्य तद्वचसि श्रद्धालू राजा मनस्येवमचिन्तयत्-यदसौ पुमानखिलनीतिवाक्यवि Jain Education For Personal & Private Use Only A urjainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ 58ॐREERS दामग्रेसरो वर्तते, अयं खलु सर्व तथ्यमाचष्टे, नीतिशास्त्रे यथा भणितं तादृशमेव कथयत्यसावपि । 'अपारस्यापि पारावार स्य मतिमन्तः पारङ्गन्तुमुपायेन शक्नुवन्ति, किन्तु कुलटायाः पारं केऽपि नापुरिति सकला अपि नीतिज्ञा आहुः ।' यदीदं | तथ्यमस्ति तर्हि मयाऽवश्यमेवैतत्परीक्षणीयम् । यतः लोके खलूत्तमस्य स्वर्णस्यापि परीक्षणं किं नो कुर्वन्ति ? परीक्षितान्येव तानि सन्तो गृहन्ति । तथा चोक्तम् ___ यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषं परीक्ष्येच्छुतेन शीलेन कुलेन कर्मणा ॥ ३ ॥ व्याख्या-यथा स्खलु लोकैः कनकं स्वर्ण चतुर्भिः प्रकारैः परीक्ष्यते-सदसज्ज्ञायते, निघर्षण-कषोपरिविलेखन, छेदनं वेधनं, तापोऽग्निसन्तापनम् , ताडनं-कुट्टनम् , एतैश्चतुर्भिः परीक्ष्य यथा सदसदिति लोका विदन्ति, तथा श्रुतेन शास्त्रेण, ज्ञानेन वा, शीलेन ब्रह्मचर्येण स्वभावेन वा, कुलेन-विशुद्धवंशेन, कर्मणाऽऽचारेण च पुरुषं-पुमांसं स्त्रियं वा परीक्ष्येत्= तत्परीक्षां कुर्वीत । तथाऽहमपि परीक्षयिष्याम्येवैतदित्यवधार्य स पृथ्वीपतिः विक्रमार्कः समागतां भोजनवेलामालोक्य सभां विसृज्य मनोहरे स्नानागारे स्नातुमगमत् । तत्र विधिवत्स्नातानुलिप्तो नृपो मन्दिरमागत्य जिनेश्वरमभ्यर्च्य भोजनालये यथारुचि बुभुजे । पुनः सभामागत्य विद्वद्वन्देन सत्रा समालपन दिवसं व्यत्यैत् । इत्थं दिनेऽतीते पत्या चन्द्रमसा सङ्गतुमौन्सुक्यवतीं Jain Education a l For Personal & Private Use Only Iw.jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ ४ माला श्रीचम्पकला रजनीमभिलक्ष्य गगनलक्ष्मीरपि सन्ध्यारागच्छलेनाङ्गरागमिव नितरामशोभत । यस्यैकदा खलूदयो जायते तस्यान्यदाऽव- लाचरित्रम. श्यमस्तमपि जायत एवेति सूचयन्निव तत्र समये दिवसमणिरपि शनैःशनैरस्ताचलशिर आरुरोह । अस्तमितं दिवानायकमालोक्य तद्वियोगदुःखमसहमाना विहगा अपि परितचुक्रुशुः । जगदाहादकारिणि भानावस्तङ्गते चौरवल्लोकापकारीगाढान्धकारः सर्वासु दिक्षु नितरां प्रससार । तदा तत्कालमेव प्रेयांसं सहस्रांशुमस्तमुपेयिवांसमालोक्य तदीयविरहखिन्नाः कमलिन्यः सुषमोज्झिताः सत्य इव मम्लुः। अथ सायन्तनी क्रियामशेषां विधिवद्विधाय विक्रमादित्यो महीजानिरन्तःपुरमागत्य शय्यामलङ्कृतवान् । तत्र वारविलासिनीगणैरुपचरितोऽपि मनसि सदसि पण्डितोक्तस्त्रीचरित्रगोचरोपायं विमृशन् मनागपि निद्रामलभमानः सोचिन्तयत्-यदुक्तं सभायां तेन विपश्चिता स्त्रीचरित्रं ज्ञातुं महतामपि दुष्करमस्तीति तत्कतिविधमस्ति, कथं वा तदहं ज्ञास्यामि ? अथवा मादृशां पुंसां तदवलोकनादि नो युज्यते । यतः ‘खला एव परेषां छिद्राणि द्रष्टुमीहन्ते, शिष्टास्तु ततो विमुखा एव भवन्ति । तदुक्तम्गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा श्लाघते पूर्वं, परं कण्ठे नियच्छति ॥ ४ ॥ व्याख्या-यथा खलु ईश्वरो महेश्वरः समुद्रमन्थनादत्थितं चन्द्रमसं शिरस्यधत्त, सकललोकपराभवदायिनं | गरलं विषन्तु कण्ठमध्य एवातिष्ठिपत् । बुधः सज्जनो जनः परेषां गुणदोषौ गृह्णन् पश्यन् गुणं शिरसा श्लाघते-स्तौति, दोषन्तु कण्ठ एव स्थापयते, कदाचिदपि नैवोदघाटयते । ॥५॥ Jain Education a l For Personal & Private Use Only jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ तथापि तस्य विद्वत्तमस्य तथोक्त परीक्षायै मयैतदवश्यं परीक्षणीयम् । यद्यपि तादृशां विशिष्टपुंसां वचस्यलीकता कदापि नो भवितुमर्हति तथाप्यहमेतत्परीक्षिष्ये ' यस्माच्छ्रतस्य साक्षात्कारे कृते सति प्रामाण्यं खल्वधिकमुत्पद्यते महतामपि । ' इत्यवधार्य देव इव शक्तिमान् नीलाम्बरं दधान एकाकी तीक्ष्णासिपाणिः स राजा शय्यां विहाय तत्परीक्षायै गुप्त्या नगरे सर्वत्रेतस्ततः पर्यटन क्वचिदेकत्र क्रीडन्त्यौ, रूपलावण्यादिगुणोत्करे, चतुरतरे, द्वे कन्येऽपश्यत् । तत्रावसरे तयोमिथः सम्भाषणादिशुश्रूषया यावद्राजा स्थैर्येणाऽतिष्ठत, तावत्तयोरेका प्रकृत्या सरला कन्यका प्रोवाच-सखि ! यदाहं परिणीता सती श्वशुरालयं गमिष्यामि, तदा सोत्साहेन प्रेयांसमनवरतमसीमया प्रीत्या वाढं सेविष्ये । यतः 'स्त्रीणां पतिसेवनं महाफलं सुखावहं स्वर्गापवर्गजनकमित्युवाच नीतिः।' किञ्च गृहकृत्यादि यद्यदादेक्ष्यति पतिस्तदशेषं शिरसोपनीय सुखेन करिष्ये, अत्युच्चैर्वृत्तिमतिस्वान्ते च स्थापयिष्यामि सर्वदा । यस्मात्पतिव्रतायाः स्त्रियाः पतिरेव देवो न्यगादि, अतः स्वामिन आज्ञा प्रतिपालनमेव स्त्रीणां साधीयान् धर्मः प्रत्यपादि नीतिशास्त्रे ।' उक्तञ्चन दानैः शुद्धयते नारी, नोपवासशतैरपि । अव्रतापि भवेच्छुद्धा, भर्तृहृद्गतमानसा ॥ ५ ॥ अन्धं वा कुब्जकं वाथ, कुष्ठं वा व्याधिपीडितम् । जीवितावधि भर्तारं, पूजयेत्सा महासती ॥६॥ त्यजेत्पुत्रश्च मित्रञ्च, पितरावपि शोभनौ । जीवितावधि भर्तारं, न त्यजेत् सा महासती ॥७॥ इत्थं नैतिकवचनमन्त्राक्षरश्रवणप्रणष्टधाष्ट्रवर्याऽहं स्वप्राणनाथमाजन्म भजिये खलु । इत्याकर्ण्य शाठ्यप्रकृतिका द्वितीया * Jain Education For Personal & Private Use Only Kinjainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ चरित्रम् श्रीचम्पकमाला कन्या न्यगादीदेवम्-सखि ! नूनमहमेतत्कथनेन त्वां मुग्धां जानामि, यदेवममिधत्से, ध्रुवमेषा ते समुक्तिस्त्वयि जाड्यमालस्यश्च व्यनक्ति । याः खलु विवेकादिविकलाः सालसा भवन्ति योषितस्ता एव त्वमिव सतीत्वमुशन्ति । मादृशी दक्षतरा कामीनी तु मनोनुकूलमेव कृत्यं संसाधयति । यदाहं विवाहिता पत्युः सदने वत्स्यामि, तदा सकलयुवजनमनोमोहननानाविधहावभावादिविविधचेष्टया भरिमेकान्तमासक्तं विदधती स्वीयचातुर्ययोगादतिरमणीयतरुणतमपुरुषान्तरः सत्रापि स्वैरं रंस्ये खलु । यतः-' विविधरसास्वादनमीहमाना भ्रमरी खल्वेकमेव तरुं न जुषते, किन्त्वनेकांस्तरूनेव भजमाना निजेच्छां पिपर्ति । तद्वदहमपि विविधविषयरसास्वादचिकीर्षया भूयांसो गुणवतो युवजनान् सेवमाना निजयौवनं साफल्यं नयिष्ये । यतः 'स्त्रियो ोकस्मिन्नेव प्रीतिकरणाचातुर्य नो लभन्ते, किन्त्वनेकदक्षानुरागितरुणजनैः साकं मैत्रीकरणादेव स्त्रीचारित्र्यवैचित्र्यमाप्नुवन्ति ' युवतीनामिहोद्भुतप्रभूतकामाग्निः कथङ्कारमेकेन पुंसा शाम्येत, नैव शान्तिमेतीति रहस्यम् । वने किल प्रवर्धमानो दावानलो घटमात्रवारिसेकादिव कश्चित्कामशास्त्रपूर्णो बलीयान् पुमानप्येकया कामिन्या नो तृप्यति तर्हि सखि ! त्वमेव कथय ? यत्पुंसोऽपेक्षयाऽष्टगुणाधिकमारसारवती युवतिः सर्वाङ्गसञ्जातकामा सत्येकेन पुंसा कथमात्मन इच्छां पिपूर्यात् । यदुक्तम्नाग्निस्तृप्यति काष्ठानां, नापगानां महोदधिः । नान्तकः सर्वभूतानां, न पुंसां वामलोचनाः॥८॥ __ व्याख्या-यथाऽग्निः काष्ठानामिन्धनानां राशिना न तृप्यति-तृप्तिमुपैति, यथा वा महोदधिः-सरित्पतिः, आपगानां संयोगेन न तृप्यति, अन्तको यमो वा सर्वभूतान् सर्वेषां प्राणिनां नाशनानो तृप्यति-सन्तुष्यति तथा बामलोचनाः स्त्रियः Jain Educa t ional For Personal & Private Use Only INTww.jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ खलु पुंसां बहूनां पुरुषाणां भोगान्न तृप्यन्ति–सन्तुष्टा नो जायन्ते । या दक्षा कामिनी तारुण्यपरिपूर्णा सतीत्वं विभर्ति सा खलु गुणवतां यूनां पुंसामलामादेव, नान्यथा जावपि सा तद्विभृयात् । यथा नद्यो हि तदाश्रयलाभवशात्तूर्णमेव सागरेण मिलन्ति, तथैव नार्योऽपि प्रार्थयितुः सद्भावात्तेन साधं मिलन्त्येव । अतः सखि ! तानवमालिन्यहारिणां कामिनां यूनां मनांसि वशीकर्तुं तारुण्यपुण्यमयं सिद्धमंत्रमधिगता सत्यहं त्रिचतुरश्चतुरांस्तरुणान् पुंसः कामं सेवित्वा स्वीयमदस्तारुण्यमबन्ध्यं विधास्यामि । इत्थं तयोरालापमाकर्ण्य नरनायको दध्यौ अहो ! अत्याश्चर्यमेतत , अनयोः परस्परालापो विरुद्धाभासः प्रतिभाति । अहो ! महदद्भुतमेतत् , यदनयोरेका साध्वीयसी लक्ष्यते, द्वितीया च शाठ्यवती प्रतीयते । कथमेतयोः शैशवेऽपि प्रकृतिपरिणतिर्भिद्यते ?, किम्वा द्राक्षायां नैसर्गिकं माधुयमिव तुम्ब्याश्च स्वाभाविकीङ्कटुतेवैतयोः कुमार्योः शैशवादेव प्रकृतिवैचित्र्यमजायते स्खलु ?, यद्यपि ज्यायसीयं सतीत्वात्प्रकृष्टतमास्ति, तथापि मामकीनचिकीर्षितकार्योपयोगिनीयं द्वितीयैव मया वरणीया । यतः कस्यापि पदार्थस्य निर्णय विधिसूनां लोकानामेष सरल एवास्त्युपायः यस्माल्लोके हि स्वर्णपरीक्षा निकषोपल एव कर्तुं शक्नोति मौक्तिकेनैव । तेन हेतुना किलैनां कन्यामुद्वाह्य शनैः शनैः स्वचिकीर्षितं साधयिष्यामि । यतस्त्वरया क्रियमाणं कार्यमायतावापत्तेरेव निदानं भवति । अपरश्न मया खलु युक्त्या परितोऽवरुद्धेयं स्वैरं किमप्याचरितमपि नो शक्ष्यति । तदावश्यं खल्वस्याः खलतापि चातुर्याभिमानेन सहैव गमिष्यति । इत्थं मानसे निश्चित्य गृहभित्तौ चर्वितताम्बूलं निष्ठीव्य स्वं कृतकृत्यं मन्यमानो राजा सानन्दमात्मनः सदनमागात् । निसर्गादेवात्यल्पं निद्रालू राजा गुणस्थानभूतां दिव्यां शय्यां क्षणमात्रं निषेव्य किश्चित्सुप्त्वा निसदिवानाचत्य गृहभित्तानाप नो शक्ष्यति । कार्यमायतावापानी Jain Educati For Persons & Private Use Only ainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला निशावसाने पुनरजागरीत् । तत्रावसरे निजारातिदिनेशागमनं सम्भाव्य पलायमानमात्मतनयमन्धकारमनुगन्तुं निशापि लीचरित्रम् समुत्सुका जाता । तदानीं रजन्याः स्ववल्लभाया भविष्यता वियोगेनाधिकं खिद्यमानश्चन्द्रमा अपि सत्वरं क्लेशमापत्, नो चेत्कथं तत्कालमेव विच्छायतामायिष्ट सः। किञ्च निजभर्तुर्दुर्दशामालोकितुं वा निरासयितुमप्रभवन्तो ग्रहगणा अपि ब्रीडिता | इव क्षीणतेजसोचिरादेवाऽदृश्यतामापेदिरे । तदातिरक्ताऽरुणोदयावलोकनेन पूर्वपरिचयात्प्रमुदिता खलु प्राची दिक् सुप्रकाशच्छलाद्धसन्ती सन्ध्यामिषेण व्यक्ततरं रागं वहमाना नितरामचकात् । समुदितनिजकिरणपटलैः प्रणाशिताऽशेषतमस्तोमः सकलतेजस्विनां खेटानाश्च प्रभाभिमानं हासयन् सहस्रकिरणस्तदोदयगिरिशिखरे माणिक्यमिवाऽशोशुभ्यत । यथा प्रीतिमान् पतिः प्रीत्या निजप्रेयसी कुङ्कुमादिलेपेन मण्डयते, तथा दिवापतिरपि मृदुकरनिकरैर्यावापृथिव्यौ व्यभूषयत । तत्रावसरे प्रेयसः सूर्यस्य करस्पर्शात्प्रमुदिताः कमलिन्यो विचकाशिरे । खगा अपि सकला मधुरवाण्या दिवाकरस्य स्वागतं कृतवन्तः, उदयमधि-10 ६ गतमेतमादरेण कुशलादिसमाचारमप्राक्षुः खलु । इतश्च सुप्रभाते जाते महीयसा तेजसा जाज्वल्यमानं सागरादिव प्रासादाद्-४ बहिरायान्तं विक्रमं राजानं भास्करमिव सर्वे लोकाः स्तोतुं लग्नाः।। ___अथ प्राभातिकं कृत्यं सर्व विधिवद्विधाय महामहिमशाली राजा दिवापति?ममण्डलमिव सभामलङ्कृतवान् । तदनु कञ्चन सेवकमाकार्य तमेवमादिष्टवान्नरेन्द्रः-भोः! त्वमधुनैव तत्र याहि, यस्य भित्तौ चर्वितताम्बूलस्य ष्ठीवनं पश्येस्तस्य गेहस्याधिपतिमानय ?, अथ नृपादिष्टः सोऽनुचरस्तदैव तत्रागत्य नृपादेशं तस्मै निगद्य सहैव तं श्रेष्ठिनं सदसि नृपान्तिकमानयत् । तदा समायान्तं तमालोक्य राजाऽभ्युत्थानादिना तं भृशं समर्मस्त । योग्यासने तमुपावेश्य सप्रश्रयं मधुरवचसा राजैवं निग Jain Educatio n al For Personal & Private Use Only D r.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ दितुमारभत-श्रेष्ठिन् ! या ते पुत्री स्त्रीजनोचितचातुर्यपटीयसी श्रूयते, तस्याः पाणिपीडनं मया साधं विधेहि । वर्तन्ते च मे बयः पत्न्यस्तथापि ते पुत्रीं परिणिनीषामि । यतः-'सतीष्वपि मौक्तिकमालासु किमिति गुणवान् पुमान् पुष्पमालां नो परिधरे?' इति नृपोक्तमाकर्ण्य श्रेष्ठी जगाद-स्वामिन् ! सहर्षमहं ते पुत्रीं ददामि । यतस्त्वमस्माकं स्वामी न्यायी विनयी वर्त्तसे, एष सम्बन्धस्तु विद्यत एव, पुत्री प्रदानेनाऽन्योऽपि घनिष्ट आवयोः संसर्गो जनिष्यते च, अत एवैतन्महानन्ददायि लाभकारि च मन्ये । प्रभो ! यां कुमारीमभिलषसि, तामपि सकलासु ललनासु गरीयसीं मन्ये, शिवेनेष्टां गौरीमिव भविष्यति चैषा समस्तासु राज्ञीषु ते मान्या, यतस्त्वमेनां स्वयमेव कामयसे खलु । इति व्याहृत्य स्वसदनमागत्य तां कन्यां महार्हविभूषणवसनादिना सर्वाङ्गभूषितां विधाय विक्रमाकार्य तदैवानीय तथा समार्पयत्, यथा पुरा क्षीरोदधिः स्वसुतां लक्ष्मी विष्णवे समार्पिपत् । तदा नैमित्तिकनिगदिते सुलग्ने तां सालङ्कारां कन्यामुदवोढ विक्रमार्कः क्षितिपतिः । रम्येष्टकनिर्मितैकस्तम्भके सौधे तामतिष्ठिपच्च । एकस्तम्भाधारे सुधालेपनादतिकोमले तत्र भवने कीटादयोऽप्युपरि चटितुं प्रवेष्टुं वा नो शक्नुयुस्तर्हि मनुष्यः कथम्प्रवेष्टमीष्टाम् ?, अत्यन्तानुरागं विभ्राणो राजाऽग्निवेतालबलेन तत्र भवने नटराज इव स्वयं यातुमलगत् । समस्तसज्जनशिरोमणिः क्षितीशस्तस्यै नवोढायै कल्पवृक्षवद् दिव्यानीच्छितानि नानाविधभोजनाच्छादनादीनि तद्योग्यमहाईकौशेयवसनानि दिव्यानि विभूषणानि च दातुं लग्नः, किंबहुना यां यां सामग्री कामयामास तामशेषां सामग्री नरपालस्तस्यै विततार। ___ अथ तत्रातिकमनीये सौधे सा नवोढा मनस्येवं विवेचयितुमलग-अहो ! अहो ! ! अकारणमेवैष क्षोणीशः शत्रुरिव का सारिकामिव पिञ्जरे मामत्र सौधे कारागार इव न्यवीवसत्खलु । अथवा बलादपि मामीदृशे जनान्तरैः प्रवेष्टुमशक्ये भवने Jain Education For Personal & Private Use Only P ainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला चरित्रम्. ॥८॥ निरुध्य सतीत्वं चिकीर्षत्यसौ पृथ्वीपतिः, यस्मादस्यान्तःपुरे सन्ति खल्वन्या अपि स्त्रियस्तास्त्वेवमीहरभवने जात्वपि नैव स्थापयति । हो ! मया ज्ञातमेतन्निदानम् ? ' यस्यां रजन्यां सख्या सत्रा चिरं सर्व हृद्यमहमालपम् , तदशेषमेष नष्टचर्यायै पर्यटन्नूनमशृणोत् । अत एव तत्प्रतीकर्तुमना असौ राजा विचारवतामग्रेसरो भवन् दाक्षिण्यशिरोमणिं मामाश्रित्य कामिनीजनचारित्र्यबुभुत्सयैव मत्पाणिमग्रहीत् ।' तेनैव हेतुनाऽहमनुमिनोमि-यदेषराजेन्द्रस्तीवभावामतिकामुकीं चातुर्यचणां मां परिणीय कोशे कृपाणमिवेशावरुद्धागारे मां रक्षितुमेव किल न्यवासयत् ।' आस्तामेतत् , यद्येवमेष विजानाति, तर्हि जानातु, परन्तु वस्तुस्वभावमजाननेष महीभर्त्ता यद्येतदिच्छया वा किलैवमुद्यममकृत, तथापि कदाचिदपि मामेष रक्षितुं नैव प्रभवेत् । यदधुनापि किमपि नो गतम् , अलमिदानीममुना विचारणाऽसारेण, सम्प्रतिकाले यन्मे श्रेयस्कारि तदेव मया चिन्तनीयमहमवश्यमेव वा विचारितं कृत्यमग्रे करिष्यामीत्थं मनसि निश्चित्य निजकार्य सिषाधयिषया कालमपेक्षमाणा यतमाना कपटवारिपूर्णा वापिका सा नवोढा निजाऽसीमचातुर्यकलया राजनि बहिः प्रीतिमाविष्कुर्वती, अन्तश्च कपटं विदधती, चतुरतरनरेश्वरस्य मनोरञ्जनाय मनोहराणि वचनानि नर्तयन्ती सरसवचनवारिधारां वर्षितुं लग्ना । इत्थं स्वस्वभाव प्रकटयन्तीमेनां दक्षोऽपि राजा तस्याः कपटप्रेम्णा मुग्धीभूय सरलप्रकृतिकामेव विवेद । पूर्वपरिचितां तदीयदक्षतां सर्वथा विससारैव । स्त्रीणां भर्तुरानुकूल्यधारणमेव महीयान् रसोऽस्तीति निश्चयं स्वान्ते विभ्रती सा नृपेणाप्रेरितापि नरपतिचित्तानुकूलाचरणेन तन्मनः प्रीणयितुं लग्ना । तस्या निःसीमानुकूलवृत्त्या रञ्जितो राजा तदनुकूलीभूयैव तामसेवत । यस्माद्धेतोः 'सकलं लोकं वशीकतुं मंत्रं विनैवानुकूलाचरणङ्कार्मणं बिभर्ति युवतिजनः।' Jain Educati onal For Personal & Private Use Only Www.jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ ___ अथैकदा सा नवोढा कामिनी राजानमित्युक्तवती-स्वामिन् ! अहमत्र भवने परिवारहीनाः शरीरमात्रसहाया कथमेकाकिनी दिवसान् गमयानीति । भवानपि त्रिचतुर्दिवसानन्तरं मत्समिधावायाति, तदेव दिनं गणयामि, तामपि रजनी क्षणमात्रमहं जानामि । त्वदङ्गसङ्ग यस्यां रजन्यां नो लभे, सा रजनी तु वत्सरदेश्यैव प्रतिभाति । अतो भवता प्राणकल्पेन वियुक्ताऽहं यथा सुखेन दिनानि यापयामि, तथा मयि कृपामाधाय विधीयताम् । लेखनसामग्री लेखिनी मसीपात्रादिकश्च मह्यं देहि, येन त्वद्विरहखिन्नाऽप्यहं तत्कर्मविदधती कालं क्षपयेयम् । अत आह कश्चित्कविः . गणयति दिनमाप कल्पं, विरहपीडिता निरुद्यमा नारी। __ मनुते सैव हि वर्ष, भर्तुरङ्कगता किल घस्रम् ॥ ९॥ व्याख्या-विरहेण-पतिवियोगेन पीडिता-दुखिता, निरुद्यमा-लेखनपठनादिसदुद्योगरहिता दिनमेकमपि कल्पं सृष्टिप्रलयवत् गणयति-जानाति, सैव नारी भर्तुः प्रियस्याङ्के गता तस्थुषी सती हि निश्चयेन वर्षमपि घस्र-दिनं मनुते । इत्थं तयाऽचिरपरिणीतया कामिन्या प्रार्थितो राजा तस्यै लेखनावशेषसामग्रीमदात् । साप्यन्तरं रागं विनैव बाह्यरागेण राजानमालादयन्ती नितराममोदत । इत्थं क्षोणीपतिस्तां विदग्धवनितां सर्वेच्छितप्रदानेन सन्तर्पितवान् सापि तदिङ्गितज्ञानदक्षा बाह्योपचारैस्तमानन्दयितुं लग्ना । श्रीसौधर्मबृहत्तपाख्यभुवनख्याताच्छगच्छाधिप-श्रीराजेन्द्रजगज्जयिष्णुचरणाम्भोजद्वयान्तेसदा। एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे मुदा, जज्ञे चम्पकमालिकीयचरिते प्रस्ताव आयो ह्ययम् ॥१॥ Jain Educati o nal For Personal & Private Use Only X w .jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ अथ द्वितीयः प्रस्तावः प्रारभ्यते। श्रीचम्पक माला ॥९॥ . अथैकदा प्रस्तावे तत्र नगरे रूपेण मारोपमः श्रीविनिर्जितकुबेरः कश्चिद् गगनधूलि नामा सार्थवाह आगात् । स च प्रशस्तानि महार्हाणि वस्तूनि राशीकृत्य राज्ञ उपायनं ददिवान् । अमुनोपहारेण बभूवांश्च राजा तस्मिन् कमलाकोशाधीशकल्पे प्रसेदिवान् , कृतवांश्च व्यापर्जुमानीतवस्तुजातशुल्कमोचनम् । दत्ताश्चाऽस्मै निवासाय प्रासादमेकमुत्तमम्प्रजेश्वरः । तत्र सौधे सार्थवाहः सुखेन न्यवात्सीत् । तमेकदा निजसदननैकटिकेन पथा राजसभायां याप्ययाने निषद्य यान्तं गवाक्षस्था सा नवपरिणीता राज्ञी प्रेक्षाञ्चक्रे । तमुवीक्ष्य सा निजस्वान्ते विचिन्तितुं लग्नाऽहो ! असौ राजसम्मानमुपेतोऽस्ति पुमान् , मामके लोचने चकोरे पूर्णपीयूषांशुरिव तर्पयति, मनोऽपि मे कैरबमिव नितरामुल्लासयति । वर्णोऽप्यस्य मानिनीमाननिरासदक्षिणोऽतीवकमनीयो वर्णनीयो दरीदृश्यते । सौभाग्यमप्येतस्य लोकोत्तरं विज्ञायते । अद्वितीयं रूपममुष्य पुंसश्चेतोहरमालोकयामि । तर्खेष पुमान् सर्वासां सीमन्तिनीनां मनसि कथङ्कारमद्भुतश्चमत्कारं नोत्पादयेत ? अहमुमे लोचने सफले मन्ये, यदद्य परेषामतिदुरापं मारोपमं सौन्दर्यसागरमेनमपश्यताम् । किमधिकेन, या युवतिः सुभगशिरोमणि महापुरुषममुं नाऽऽलुलोचे, तस्या जनिर्मुधैव गतेति मन्तव्यम् । विलोक्यापि या वधूटी गाढमेनं नालिलिङ्ग, तस्यास्तु जन्मैव वैफल्यमायिष्ट । अत एव, विधे ! सत्वरं मां पक्षवतीं विधेहि । यस्मात्क्षिप्रमुड्डीय पुंसोऽस्याङ्के कमलोपमे किलोपविशानि । रे चित्त ! प्रसीद, धैर्यमाधेहि, भुजयुगलप्रसारिणी विद्यामर्पय, यया बाहुद्वयम्प्रसार्य शीघ्रं निजमनोरथीकृतमे Jain Educati o nal For Personal & Private Use Only O w .jainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ नमालिङ्गय सुखिनी भवानि । यथाऽमुष्य दर्शनादुमे नयने साफल्यमयाश्चक्राते । तथैतदङ्गस्पर्शादङ्गमपि मामकं कदा सफलीभविष्यति ?, इत्थं विचियन्ती तमेव पुमांसमेकाग्रमनसा पश्यन्ती सा राज्ञी तस्मिन्नलक्ष्यतामुपगतेऽपि यन्मार्गेण गतवान् , तमेव पन्थानं विलक्षभावेन विलोकितुं लग्ना । पुनः क्षणान्तरादेव सावधानहृदया सा मनस्येवं चिन्तितुं लग्ना-यदहमेतत्पुंसायोगमन्तरा क्षणमपि जीवितुं नैव शक्नोमि, अतएव मदीयजीवितधारकीभूतस्यामुष्य पुंसो गाढाश्लेषं यथाऽऽप्नुयां तथा मया यतितव्यम् । यतः 'स्वप्राणधारणाय यः खल्वालस्यं विधत्ते, विलम्बयति वा स प्रान्ते महाकष्टमामोति ।' अतो ममैतदर्थसाधने विलम्बकरणमनर्थकार्येव स्यात् । इत्यवधार्य सा तरुणी तस्मै धनवते सार्थवाहाय स्वाभिप्रायं बोधयितुं निस्त्रपाऽकुतोभया तदैवैकस्मिन् पत्रे श्लोकयुगलमिदमलेखीत्" नाथ ! प्रदोषसंरुद्धसञ्चारा पद्मसद्मगा। भृङ्गी समीहते चिन्ता व्याप्ता मित्र ! तवागमम्” ॥१॥ व्याख्या हे नाथ ! प्रदोषे सायङ्काले संरुद्धः सञ्चारो गमनं यस्याः सा निशावरुद्धगमना, पुनः पद्मानां कमलानां सदने गता प्राप्ता, अतएव चिन्ताव्याप्ता=चिन्ताकुला भृङ्गी मित्र :-सूर्य ! तवागमनं समीहते-कामयते, पक्षे काचिन्नायिका पुरुषान्तरं निगदति-नाथ ! यथा निषिद्धनैशिकगमना, कमलभवनगता, चिन्ताकुला, भृङ्गी स्वश्रेयसे सूर्य वाञ्छति, तथाहं सदने निरुद्धाऽतिमदनदहनदग्धीकृताशेषगात्रा, त्वामेव किलैच्छामि । | " तदुपेक्षां भवान् भास्वन् ! ,कर्ता चेत्तदभाग्यतः।हताशाऽन्तसंयोगं तदा सा लप्स्यते ध्रुवम् ॥२॥ Jain Education Meena For Personal & Private Use Only mjainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ चरित्रम् श्रीचम्पकमाला __व्याख्या-भास्वन् ! हे सूर्य ! चेद्यदि तदभाग्यतः तस्या अभाग्यतः-कर्मदोषात, भवान् तदुपेक्षाम्-तस्या उपेक्षाम् कर्ता-करिष्यति, अर्थान्नागमिष्यति, तदा तर्हि, अवश्यमेव हताशा-विफलेच्छा सती सा भृङ्गी, अन्तसंयोगम् कृतान्तसंपकम् लप्स्यते, अर्थान्मरिष्यत्येव तत्र मनागपि संशयं मा कृथाः। पक्षे-मदीयाऽभाग्ययोगान्मदुपेक्षां विधाय नागमिष्यसि चेत्तर्हि नष्टाशाऽवश्यमेव मरिष्यामीति विदित्वा मयि कृपां नीत्वाऽवश्यमत्र त्वमायाहि ।। पश्चादेतद्दलं पर्णवीटिकान्तरितं विधाय गवाक्षस्था तदागमनकाइक्षिणी सा राज्ञी पश्चात्तत्रागतस्य सार्थवाहस्याङ्के - न्तय॑स्तदलां तां पर्णवीटिकां क्षिप्तवती । तदा गगनात्पतितां तामालोक्य किमेनां काचिद्देवताऽपातयदिति धिया सार्थवाहो निजां दृशमुपर्यकरोत् । तत्रावसरेऽधः पश्यन्तीं गवाक्षस्थां तामुवीक्ष्य तस्या रूपलावण्यतारुण्यावलोकनेन प्रमत्तो महाछाग इव गतब्रीडःस निमेषशून्यया दृशा तामवलोकितुं लग्ना, यस्मादीदृशां कामिना लोकलज्जा राजनीतिर्वा कथमुत्पद्येत ? तामेवाबलोकमानः स मनस्येवं ध्यातुमलगत् , नूनमेपा राज्ञी स्निग्धया दृशा मां पश्यन्ती मानसं रागं दर्शयति, यस्मादान्तररागमन्तरा काचिदप्यबला कमप्येवं नैवाऽवलोकते । जाने साक्षान्मूर्तिमती प्रीतिमेवैषा पर्णवीटिकामिमां मामार्पिपन्नु?, अत एवैतदन्तः किमस्तीति विटिकामुद्घाव्य मया सम्यगवलोकनीयम् । यतः 'रागिजनार्पित साधारणमपि बहुमानाहं जायते।' इत्यवगत्य तामुन्मुच्य तदन्तमूर्तिमतों मदनस्याऽऽदेशमिव मनोरमै पत्रे करकमलाङ्कितं श्लोकद्वयमद्राक्षीत्सार्थवाहः । तस्या मानसिकरागनिधेजिकल्पं श्लोकद्वयं वाचयित्वा तदीयमनोगतमाशयं जानानः सार्थवाहस्तया सत्रा सङ्गतुमत्यौत्सुक्यं बिभरामास । एवं ध्यातवांश्च मानसे अही! अत्याश्चर्यजनक रतेरपि रूपाऽखर्वगर्वापहारि किलैतस्या रूपमस्ति । लावण्यमप्यस्या लोकोत्तरं ॥१०॥ Jain Educati onal For Persona & Private Use Only ainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ %AARAKARE पश्यामि । तथैवाऽस्याद्भुतं दाक्षिण्यमसाधारणमेव विभाति । मय्यनुरागमप्येषा कमप्यगदनीयमेव धत्ते । एवमन्योक्तिलेखनकथनकौशल्यमप्यलौकिकमेवाऽस्त्यस्याः। इत्थं तां राज्ञीमालिङ्गितुं यथेष्टमालोकितुं समुत्सुकस्तस्यामत्यन्तानुरागी सार्थवाहश्चिन्तयति-नूनमेषा मय्यनुरागिणी प्रतिभाति, अतो ह्यस्या उपेक्षणं ममोचितं नो प्रतिभाति । सत्युपेक्षणे मदनशरजालपरिपीडिताङ्गी, हताशा सतीयं राज्ञी चेदमरिष्यत्तर्हि तद्धत्या ममैवालगिष्यदतो मया येन केनोपायेन तत्सन्निधौ गन्तव्यम् । तत्र गत्वा यदुचितं द्रक्ष्यामि तथा करिष्यामि । इति विचिन्तयन्निजसदनमागात् । तत्र कश्चिदेकं मतिमन्तं प्रेमपात्रं सखायं सर्वमेतदवोचत-मित्र ! एतत्कार्यमतीवदुःसाध्यमस्ति । यस्मादेकस्तम्भे सदने स्थितायास्तस्याः संयोगः सुकरो नास्ति, किन्त्वतीव दुष्करः। यद्यहं तत्र नो गच्छेयम् । तर्हि साऽवश्यमेव पञ्चबाणपारवश्यमिता राज्ञी मृति लप्स्यते, अतो मया किङ्करणीयमधुना, एकत्र विषमा नदी परत्र वा व्याघ्रोऽस्तीति न्यायो मे समुपस्थितः । अथवा भवतः साहाय्येन दुष्करमपि कृत्यं सौलभ्येनाशु सेत्स्यतीति मन्ये । यस्मादवरोधरक्षितकञ्चुकिनः प्रभावेण कौलिकोऽपि राजकन्यामसेवत खलु, किश्च धूलिकणिकापि वायोः संयोगात्पर्वतस्यापि शिखरमारोहति । परेषां साहाय्यतः खल्वसाध्यमपि सुकरतामभ्युपैति, मणिर्यथै| कपदमपि गन्तुं नेष्टे, अथापि परकीयसाहाय्येनागम्यमपि समुपैति । तथैतन्मत्कार्यमसाध्यमपि मतिमतामग्रेसरस्य ते साहाय्येन झटित्येव सेत्स्यति । इति सार्थवाहोक्तमाकलय्य तदीयदुःखेन खिद्यमानः स सखा तमेवमगदत्-सखे ! अवज्ञातः कश्चिजनो यथा जल्पेत्तथा त्वमेतत्सखेदं जजल्पिथ । एतच्च वृद्वान् सेवमानस्य ममासाध्यङ्कष्टसाध्यं वा नैवाऽस्ति । मयैकदा पुरा वृद्धमुखादश्रावि-यत्खलु महाबलीयान् भवति चन्दनगोधा, असावगम्यारोहणसदनेऽप्यनायासेन झटित्येवाऽऽरोहति Jain Educatio n al For Personal & Private Use Only I Mw .jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥ ११ ॥ Jain Education खलु । अत आशु कुतश्चित्स आनीयताम् । यदसौ जलेन वियुक्तं मीनमित्र तया कामिन्या वियुक्तं त्वामतिदुखिनं तस्या अन्तिकमचिरेणैव नेष्यति । अतएव वातप्रणुन्नो दहनो यथाऽऽशु काननं दहति, तथा हेमित्र ! त्वत्प्रेमप्रेरितोऽहं सर्वमेतदनायासेन करिष्यामि । यस्मादधुनैष तावकीमेनां चिन्तामपाहरामि । यतः - ' बलवन्तं मतिमन्तमपि पुमांसं समुत्पन्ना चिन्ता चितेव निर्दहतितमाम् ।' यदाह चिता चिन्ता समायोगे, चिन्तैवास्ति गरीयसी । चिता दहति निर्जीवं, सजीवं स्फुटमेव सा ॥ १० ॥ व्याख्या - चिताचिन्तयोरुभयोर्योगे चिन्तैव गरीयसी - क्लेशाधिक्यप्रदानादतिगुर्वी विद्यते । यतः - चिता निर्जीवम् - मृतं दहति चिन्ता तु जीवन्तमेव प्राणिनं हठाद्दहतीति । इत्थं तं सार्थवाहमाश्वा॒स्य स्वयं तदैव कमपि ग्रामं गत्वा पूर्वपरिचितचौरपार्श्वात्सुशिक्षितं चन्दनगोधामादाय क्वचित्कलशे निधाय सार्थवाहेन सार्ध मे कैकहस्तोपरिदत्तग्रन्थिकां डोरिकां महीयसीं द्रढीयसीं च गृहीत्वा तस्यामेव रजन्यामेकस्तम्भभवनसमीपमायातः । तत्रागत्य घटाच्चन्दनगोधां निष्काश्य तत्कट्यां तां डोरिकां बध्वा वंशदण्डोपर्यारोप्य तामूर्ध्वमुदक्षिपत् । सापि तत्क्षणमेव चटन्ती सती तत्सौधीयवातायने गाढमाश्लिष्य तस्थौ । तदनु स सार्थवाहस्तेन सख्या प्रेरित उभाभ्याङ्कराभ्यां डोरिकां गृहीत्वा पदाङ्गुष्ठमङ्गुलीश्च डोरिकामध्यभागकृतग्रन्थिषु संस्थाप्य वंशाग्रे महानट इव दुरारोहमपि तदेकस्तम्भीitsar गवाक्षे निर्भयं तस्थिवान् । तत्पश्चात्तदीयसखा फूत्कारसङ्केतेन तां चन्दनगोधामध आनीय घटे संस्थाप्य तत्रैव क्वचिद्गुप्तस्थानेऽतिष्टत् । ortal For Personal & Private Use Only चरित्रम्, ॥ ११ ॥ jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ तत्रावसरे महता दीपकेन प्रद्योतमाने भवने तामेकाकिनीमालोक्य तस्या मनसि प्रविशन्निवान्तः प्राविशत् । पुरादृष्टत्वात्सापि राज्ञी मनसि महाहर्ष दधाना पुलकितगात्रा सती तत्कालमुत्थाय तदग्रमागत्य कमलदलैस्तमर्चयन्तीव भृशङ्कटाक्षं पातयन्ती स्मेरानना तमेवमपृच्छत्-प्राणप्रिय ! स्वागतं भवतामभूत् ?, अहन्तु तावकागमनमेव कासन्ती किलास्मि । एहि, निद्रातुमस्यां शय्यायां तिष्ठ, मनसि सङ्कल्पविकल्पो जहीहि । सत्वरमिदं शयनीयं पुनीहि, चिरकालिकं प्रेमतरुमेनं सफलीकुरुष्व । तदनु तत्र शयनीये समुपविष्टं सार्थवाहं सुधाधिकमधुरया गिरा सा निगदितुं लग्ना-प्राणेश्वर ! यद्दिने यान्तमनेन पथा त्वामहमपश्यं तत्क्षणादनङ्गो मां नितरां बाधते, तां बाधामगदनीयामेवाऽवेहि । मदनशरजालविद्धाऽशेषाऽवयवा त्वामेव कामयमाना न स्वपिमि, नो खादामि, न वा पिबामि, केवलं तावकसमागमाऽमृतपिपासैव वरीवृधीति । एतस्मादेव मनसि मां संस्मृत्य त्वमधुनाऽत्रागतोऽसि, तत्साध्वकारि । यदेतद्भवनं राजभीत्यास्पदं दुरापमप्यस्ति तथापि तत्सर्वं विहाय यत्कृपां विधाय समागतोऽस्त्यत्र तदतीव श्रेयस्करमजायत । यथा त्वमत्रागत्य मामकी प्रार्थनां फलवतीमकथास्तथा त्वमMI धुना द्रुततरङ्गाढं मामाश्लिष्य योवनश्च मे सफलं नय ? तदनु सार्थवाहस्तानेवमवोचत्-सुन्दरि ! तद्दिने नागवल्लीबीटिकायां न्यस्तश्लोकद्वयाऽभिप्रायं विदित्वा त्वच्चिन्तापहाराय समायातोऽस्मि तवान्तिके, परन्तु त्वयका सत्रा विषयक्रीडनं कर्तुमधुनात्र नागतोऽस्मि । यतः–'धर्मशास्त्रीयनैतिकवचनानि स्मरता पुंसा परकामिनी नोपभुज्यते जात्वपि ।' त्वन्तु राजदाराः स्थ, तर्हि कथं मयोपभुज्येथाः?, यदि परलोकविरुद्ध विषये शिष्टा न प्रवर्त्तन्ते तर्हि लोकद्वयविरुद्ध भवत्प्रार्थिते कृत्ये कथमहं प्रवर्तेय? यद्यपि भवत्याः कथनेनानु Jain Education For Personal & Private Use Only Emainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ GC श्रीचम्पकमाला ॥१२॥ रागेण च परलोकभीतिमदृश्यत्वान गणये, परन्तु यदेतल्लौकिकं दरीदृश्यते प्रत्यक्षं राजभयं तत्कथं तिरस्कुर्याम् ?, येन राज्ञा- चरित्रम्. न्यायकर्त्तारो महान्तोऽपि जना बध्यन्ते, स न्यायनिष्ठो राजा स्वदाराभोक्तारं पुमांसं कथङ्कारं नो हन्यात् ?, हिंस्यादेव । महान्तः पुरुषा मित्रादेरपीदृशं दोषं जात्वपि फणीन्द्रा इव न सहन्ते, कदाचित्सजना मैत्रिकमपराधं क्षमन्तेऽपि राजानः सोच कस्याप्यपराधं नैव क्षमन्ते, सद्य एव तदुचितं दण्डं विदधत्येव । अतः-अकालमृत्युनिदानं त्वत्सम्भोगं मामकं मनः कथमिच्छेत् ?, किमज्ञा अपि स्तनन्धयास्तदशनपरिपाकफलमजानन्तः किम्पाकफलमश्नन्ति ?, नैवाऽश्नन्ति । अतोऽहं सादरं त्वां प्रार्थयेसुन्दर ! मां परावर्तितुमनुजानीहि । यतोऽहमेतस्मात्त्वत्प्रेमपाशान्मुक्तोभवन् सुखेन जीवितुं शक्नुयाम् । यदुक्तम्तावदेव सुखं यावन्न कोऽपि क्रियते प्रियः, प्रिये तु विहिते सद्यो, दुःखेष्वात्मा नियोज्यते ॥११॥ || व्याख्या-यावत्कालं केनापि पुंसा कोऽपि प्रियो मित्रं न क्रियते विधीयते, तावदेव-तावन्तङ्कालमेव तस्य पुंसः सुखं श्रेयो विद्यते । तु पुनः प्रिये विहिते कृते सति सद्यस्तत्कालमेवाऽऽत्मा दुःखेषु-कष्टेषु नियोज्यते-स्थाप्यते । अर्थादन्य स्मिन्प्रीतिं कुर्वता पुंसा दृढतररज्जुबद्धेन पशुनेव केवलं दुःखमेव भुज्यते । इति सार्थवाहेन निगदितं श्रुत्वा राज्ञी जगाद-प्रियतम! त्वं मदीयदुःखजिहासयात्रायातोऽसि, तर्हि तडिद्गौरवर्णा तारुण्यपूर्णां तडिल्लतामिव देदीप्यमानां पञ्चेषु वाणजालनितान्तपरिपीडितामतिविह्वलां दुःस्थितामेकाकिनी मां भजस्व, गाढमालिङ्गथ सुखीनी कुरुष्वाऽलं विलम्बं माकृथाः। यतः ' यावत्वं मया सत्रा नो रंस्यसे तावदहं स्वाथ्यं नैव लप्स्ये, ' इति | ॥१२॥ Jain Education For Personal & Private Use Only M a inelibrary.org Page #25 -------------------------------------------------------------------------- ________________ | सत्यमवेहि । यथा खलु तृषाकुलो जनो यथेष्टं वारि पीत्वैव तां शमयति, बुभुक्षितो जनः खादितैव स्वस्थी भवति नान्यथा । | तद्वदेव त्वदुपभुक्ता सत्येवाहं स्वस्था भवितुमर्हामि, इतरथा गतासुरेव भविष्यामि । स्वास्थ्ये सत्येव जनो नीतिवाक्यानि ४ चिन्तयति, पण्डितोक्तिं श्रद्दधाति । वैपरीत्ये तु निषिद्धमप्याचरति,अवाच्यमपि जल्पति, कर्त्तव्याऽकर्त्तव्ये नैव जानाति । यदुक्तम् निषिमेद्धप्याचरणीयमापदि, क्रियां सती नाऽवति यत्र सर्वथा।। घनाम्बुना राजपथेऽतिपिच्छले, क्वचिबुधैरप्यपथेन गम्यते ॥ १२॥ व्याख्या-यत्र-यस्यामापदि समागताऽऽपत्तिकाले जनः सर्वथा केनापि रूपेण सतीं विद्यमानामुचितां क्रियां स्थिति मर्यादां नावति-अवितुं-रक्षितुं न शक्नोति, तत्रापदि तेन जनेन निषिद्ध-लोकविरुद्धमप्याचरणीयमनुष्टेयमिति यावत् । तदेव | दृष्टान्तेन दृढयन्नाह-घनाम्बुना-वृष्ट्याधिक्येन राजपथे-राजमार्गेऽतिपिच्छले क्वचिबुधैरपि निरुपायत्वादपथेन गम्यते । | अतः-आवयोरपि निरुपायतया निषिद्धाचरणं नो दूषणं, किन्तु भूषणमेवेति तत्त्वम् । तथा चस्वस्थावस्थे शरीरे हि, निषिद्धं सद्भिरौषधम् । विपर्यये तु तैरेव, तदप्याद्रियते ध्रुवम् ॥ १३॥ व्याख्या-शरीरे देहे स्वस्थावस्थे-नीरोगे सत्येव सद्भिः पण्डितैरौषधं निषिद्धंन्यषेधि, विपर्यये व्यत्यासे रोग| सद्भावे तु तैरेव-पण्डितैरेव तदपि-औषधमपि आद्रियते-सेव्यते । अन्यदपि श्रूयताम्-शास्त्रे खलु सर्वत्रोत्सर्गाऽपवादौ दर्शितौ स्तः, इति हेतोरेतस्मिन् प्रस्तुतेऽर्थे सार्थेश ! त्वयाप्यपवादमार्ग एवाऽऽलम्ब्यताम् । तथा सति कापि क्षतिन स्यात् । Jain Education international For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ चरित्रमा बीचम्पकमाला ॥१३॥ किन, यः पुमान् कामुकी पश्चेषुपरिपीडितां प्रीत्या पौनःपुन्येन रन्तुमभ्यर्थयन्तीं स्वयमुपगतवती युवतिमुपेक्षते, तां नो रमयतीति, स पुमान् महापापीयान् भवति तन्मुखावलोकनादपि लोकानामघ उत्पद्यते, चाण्डालतामेवाधिगच्छति सः। इत्यादि नानेतिहासस्मृतिनीतिवाक्यानि जानता त्वया कथमहं वञ्चये, यत्परदारा गमनं नो कार्यमिति । सार्थेश ! यदूचिवान् भवान् प्रेयान् परलोकयातनाभयानेशमकार्यमनुतिष्ठाम्यहमित्यपि शोभनं नो पश्यामि, यदहं पारलौकिकक्लेशापेक्षया तावकवियोगजं दुःखमेवाऽसह्यं मन्ये । यतः पारलौकिकं तददृश्यं लघीयञ्च, इतोऽपि भवद्विरहजन्यमेव दुःखं गुरुतरं सोढुमशक्यशास्तीति सत्यमहं निगदामि । भवान्तरे यद्भविष्यति तत्तु सुखेन सहिष्ये, परमधुना त्वदीयविरहमहङ्कथमपि सोढुं नैव प्रभवामि । प्राणेश! प्रथमं परलोक एव सन्दिग्धो वर्त्तते, तर्हि तत्र जायमानं दुःखं को नाम मतिमान् श्रद्दधीत ?, इत्थं परलोकस्य सन्दिग्धत्वे सति तत्रत्या यातनापि सन्दिग्धैव मन्तव्या । अतएव संशयितपारलौकिकक्लेशभिया को मतिमान् पुमान् इहत्यं प्रत्यक्षमीदृशं सुखं जह्यात् ?, कोपि नेत्यर्थः । तदप्यगादीः प्रत्यक्षमिहत्यं राजकीय भयमिति, तत्तु द्वयोरपि समानमेवास्ति, यदावयोरीदृशमन्यायङ्कर्म राजा ज्ञास्यति चेदावामेव हनिष्यति, नोकं त्वामेव । अहाने-यत्ते मय्यनुरागः स्वल्पीयानेवाऽस्तीति मनसि राजनीतिं धत्से, अहन्तु त्वय्यनुरागिणी नितरामस्मि, अतस्तद्भयं मनागपि नैव गणयामि । किश्च यो हि भयादिना विह्वलतामुपैति सएव पुमानात्मरक्षणाय निकटवर्तिनोऽपि सज्जनस्य सुस्नेहं जहाति, यः पुनः शौर्यशाली विक्रमी वर्त्तते स तु सज्जनकृतस्नेहविवर्धनाय निजासूनपि तृणाय मनुते । उक्तश्च भवत्कृते खञ्जनमञ्जुलाक्षि !, शिरो मदीयं यदि याति यातु। ॥१३॥ Jain Education a l For Personal & Private Use Only ainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ दशाननेनापि दशाननानि, नीतानि नाशं जनकात्मजार्थम् ॥ १४ ॥ व्याख्या-खञ्जनस्य-खजरीटस्येव मज्जुलेऽक्षिणी यस्यास्तत्संबोधने हेखजनमञ्जुलाक्षि ! भवत्कृते तव हेतोर्यदि | मदीय मामकं शिरो मस्तकं याति-नश्यति तर्हि यातु-नश्यतु, नाहं ततो लेशतोऽपि खिद्ये । यतः दशाननेन-रावणेनापि | जनकात्मजार्थ-सीतायाः कृते दशाऽऽननानि-दशापि शिरांसि नाशं नीतानि तर्हि तव हेतोरेकस्य मे शिरसो नाशे किमाश्चर्यमिति भावः । यद्यपि प्राणिनां लोकान्तरेऽपि प्राणा दुरापाः कीर्तिताः, परन्तु तेभ्योऽपि सता सत्रा मैत्री सर्वथैव दुर्लभास्ति, अतएव निजप्राणरक्षणकृते सज्जनस्य प्रेम को नाम धीमान् पुमान् उज्झेत्, कोऽपि नेत्यर्थः । राजा तु जात्वप्यावयोरेतत्कृत्यं नैव ज्ञातुं शक्नुयात् । जानीयाच्चेदथापि कदाचित्क्षमेत, परन्तु भक्षितुमुद्यतोऽसौ पुष्पधन्वा हताशा मामिदानीमेव वक्ष्येदर्थान्मृतिम्प्रापयेत्तर्हि किमहं कुर्याम् । अतः सुकृतिन् ! वणिग्जातीयस्वाभाविकी मीतिं जहीहि, अरं मां मदनातुरां बाढं मर्दय, मामकं दुःखमपाकुरुष्व, मय्वनुकम्पामानय । तस्या इत्थमुक्तिमाकर्ण्य सार्थवाहोऽवदत्-सुन्दरि ! लोके हि कामिनीजनकृतं प्रेम पर्वताग्रान्निर्गच्छतो जलप्रवाहादपि चपलं भवति । यतस्ताः क्षणमनुरागिण्यो भवन्त्योऽपि क्षणादेव विमुख्यो भवन्त्यो महान्तमेवानर्थमापादयन्ति । अपि च रक्तास्ता द्रव्यमात्रमपहरन्ति, विरक्तास्तु प्राणानपि घातयन्ति । एवं सति तस्कृते प्राणापहारि किलेदृशमकृत्यं को नाम मतिमान् कुर्वति, कोऽपि नेत्यर्थः । किञ्च कामिनीचरित्रं न केनापि ज्ञातुं शक्यते, लोकोक्तिरियं सत्या । तथा चोक्तम् For Persons & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ चरित्रम् श्रीचम्पकानो भवन्ति, सर्वे पुरुषा अपि गाढस्नेहा नैव जायन्ते । यस्मादेकजातीयेष्वपि सांसर्गिकमन्तरं प्रत्यक्षमेव लक्ष्यते । यतःमाला ___ आलिङ्गत्यन्यमन्यं रमयति वचसा वीक्षते चान्यमन्यं, ॥१४॥ रोदित्यन्यस्य हेतोः कलयति शपथैरन्यमन्यं वृणीते । शेते चान्येन सार्द्ध शयनमुपगता चिन्तयत्यन्यमन्यं, स्त्री वामेयं प्रसिद्धा जगति बहुमता केन धृष्टेन सृष्टा ॥ १५॥ व्याख्या-या स्त्री अन्यं पुरुषमालिङ्गति । श्लिष्यति, पुनरन्यमपरं वचसा-मधुरालापेन रमयति-क्रीडयति, च पुनरन्यमन्यं वीक्षते-विलोकते, अन्यस्य हेतोरन्येनैव हेतुना रोदिति-क्रन्दति, शपथैस्तत्करणेनाऽन्यं कलयति-ब्रूते, अन्यश्च वृणीते-स्वीकुरुते, अन्येन च साधू शेते-स्वपिति, शयनमुपगता-शय्यां प्राप्ता सती याऽन्यमन्यमेव चिन्तयति-ध्यायति, सेयं वामा स्त्री प्रतिकूला जगति लोके प्रसिद्धा वहुमता-सर्वैरादृता केन धृष्टेन-विवेकविकलेन पुंसा सृष्टा-निरमायीति नो विद्म।। एतच्छ्रुत्त्वा राज्ञी जगौ-सजन ! भवदुक्तिर्यद्यपि साधीयसी विद्यते, तथापि सर्वाः स्त्रिय एकाकारा नैव सन्ति, न वा पुरुषा एव सर्वे समाना जायन्ते, कियन्तश्च पुरुषा वज्रसोदरकठोरतरहृदया दृश्यन्ते, अमी खलु मन्तुमन्तरैव स्वीयप्राणप्रिया प्राणापहर्त्तारो भवन्ति । कियत्यः स्त्रियोऽपि स्वप्राणप्रियस्य वियोगं सोढुमसोढाः सत्यो भवन्ति । यतश्च जाज्वल्यमानमहाज्बालायां चितायां पतित्वा कृतभस्मसादात्मनः कियत्यः स्त्रियो जगति दरीदृश्यन्ते । अतः सर्वाः स्त्रियस्तादृश्यः प्रेमयुक्ता ॥१४॥ Jain Education a l For Personal & Private Use Only M ainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ पुमानत्राऽऽयाति सम्भोक्तुमेनां, सोऽप्यहमिव सिद्धाञ्जनादिविद्यो भविष्यति ?, नो चेत्कथमत्र प्राणापहारिस्थले समागत्येदृशमकृत्यमाचरेत्कोऽपि । तेन जारेणापीदानीमत्रैव क्वचिद्दूर एव भाव्यम्, यस्मादेषा तत्कालकृतसम्भोगलक्षणा समीक्ष्यते । इत्थं वितर्कयन् विक्रमार्को राजा तज्जारपुरुषावलोकनाय तत्र सर्वत्र दृशं प्रसारयामास, परन्तु काष्ठमध्ये कीटो यथा केनापि नो लक्ष्यते, तथैव स्तम्भाग्रे स्थितं तं जारं नैवाऽद्राक्षीत् । तदनु निद्राभङ्गान्निमीलिताक्ष्या राज्ञाऽविदिताशय एव राजा निजस्त्रीप्रेमपथः पायिनं जारमार्जारं बुभुत्सुः स्वसदनमायातः । पुना रात्रौ वेषं परावर्च्य नानाविधासम्पन्न छन्नतया पर्यटन, एकं योगिनमालोकत । जीर्णतरकन्थाछन्नसाक्षात्कपटमूर्तिमिव भासमानं जीर्णकन्थाऽऽवृतगात्रं करधृतमनोहरानेकविधमिष्टान्नफलपुष्पादिकं योगिनमुदीक्ष्य मनसि जातशङ्को राजा विक्रमार्को गुप्तरीत्या तदनुपृष्टमचालीत् । तत्र मठे गत्वा कमठ इवावृताशेषगात्रोऽतिष्टदलक्षितः कापि राजा । तस्य योगिनश्चरित्रं जिज्ञासू राजा किलैकाग्रचित्तो यावदतिष्ठत्तावत्स योगी सर्वत्र प्रस्रुते तमःस्तोमे निजजटाकलापत एकां षोडशवर्षीयामतिसुन्दरीं युवतिमाविरकरोत् । तदनु प्रथमं लघुकरणविद्यया लघीयसी कृतां तां विद्यान्तरेण तरुणीं विधाय मिष्टान्नादिकं भोजयित्वा ताम्बूलादिकं समर्प्य ततो रन्तुमारेभे । तया योगिन्या सह चिरं स्वैरं रमित्वा सुरतश्रमात्स योगी सुष्वाप । अतिगाढनिद्रामुपगते तस्मिन् योगिनि सा योगिन्यपि निजातिलम्बवेणीत एकामतिलघु डिब्बिकां निष्काश्य तन्मध्यतः सूर्यप्रभा पद्मिनी कोशमध्यादलिमिवातिलघुं पुरुषं प्रकटीकृत्य विद्यया तं तरुणमतिसुन्दराकारं विधाय तेन सत्रा कामं रन्तुं प्रावर्त्तत । यथा कश्चिद् व्यालग्राही भोगिनं रमयित्वा कृतकुण्डलाकारमेनं करण्डके क्षिपति । तथा सा योगिनी चिरयभनात्कृतकृत्यतां नीता सती विद्यया तमुपपतिं लघुं कृत्वा Jain Educatio Intional For Personal & Private Use Only %% ww.jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ चरित्रम्. बीचम्पकमाला ॥१७॥ तस्यामेव डिम्बिकायां स्थापयित्वा तां वेण्यां धृतवती, तदनु भर्तुर्योगिनः पार्श्वङ्गत्वा शिष्ये । आर्थवहङ्कौतुकमेतद्विलोकमानो राजा विस्मयमानश्चिन्तयामास-अहो! यामेष योगी पुरुषान्तरमैथुनभिया विद्यायोगापान्तरविधानेन शिरसि गुप्त्या रक्षति, सापि जारेण साकमेवं स्वैरं क्रीडति, तीतरासां कामिनीनां सतीत्वं को मतिमान् पुमान् श्रद्दधीत ?, यतः सततं निजशरीरे विद्याप्रभावेण रूपान्तरं विधाय संरक्षिता कामिनी यदि जारं भजमाना प्रत्यक्षमैक्षि, अन्यासां तर्हि का वार्ता ?, स्वपतिसन्निधावहर्निशं या तिष्ठति सापि कामिनीयं भीतिमपहाय जारं भजते तर्हि कथमेनां निसर्गतो भीरुमिति जल्पन्ति ? अथवा, त्रिभुवनविजित्वरकुसुमधन्वनः साहाय्येन निसर्गादेव युवतयो भयमुज्झन्ति । किमथवा ' सुप्तो जनो मृतकल्पो जायते' इति किं वदन्त्या सुप्तं स्वपतिं मृतं जानाना निर्भीका सतीयं पुरुषान्तरं सेवते ?, किये 'कमपि पुरुषान्तरं मासेवेत' इति वियैवासौ योगी जागृतः सन्नेतां विद्यामहिम्ना वशीकृत्य ततो लघीयसी विधाय सदाऽऽत्मपार्श्व एव रक्षति । __अस्याः खिया ईदृशादाचरणादितरे महान्तः सन्तोऽपि लघुतां प्रपद्यन्ते, ईशाऽन्यायतत्परयोरनयोर्विद्याऽप्यविद्येव शोभा नो धत्ते । किश्वेयं 'कामिनी पुरुषकमले सङ्कोचविकाशौ जनयति,' तेन ज्ञायते यथा भानोर्भानुः समानो नो जायते, तथा विद्याप्येषा समाना नो भवितुमर्हति, किञ्च यथाऽस्या विद्याप्रभावतः सदपि कुलटात्वं दुर्जेयमस्ति, तथैवाहमप्यात्मस्त्रिया दुश्चरित्रं ज्ञातुं न शक्नुयां जात्वपि । तस्मादद्यावधि लोकैरत्रातमस्या दौःशील्यमतिगुप्तं महारोगं भिषगिव प्रकाश्य स्वीयराज्या अपि चिरकालिकं कौशल्यं यथा तथावश्यमहं प्रकटयिष्याम्येव, नो चेदने शोभनं न स्यात् । यद्यपि मादृशां परदो ॥१७॥ Jain Education For Persons & Private Use Only Alainelorary.org Page #31 -------------------------------------------------------------------------- ________________ पोद्घाटनं नो घटते, पापजनकत्वात्तथापि महाधूर्तानां धौर्योद्घाटने कथमपि दोषो नैव लगति, प्रत्युत धर्म एवोदेति, इत्यवधार्य निजसदनं समागत्य राजा शिश्ये । पुनर्गतायां क्षणदायां प्रभात उत्थाय, तत्र मठे समेत्य तं योगिनमत्याग्रहेण निमन्त्र्य तेन सत्रा तत्रैकस्तम्भभवने समागाद्राजा । तत्रागत्य षण्णां दिव्यां रसवती भोजनसामग्री पक्तुमादिशद्राज्ञी क्षितीश्वरः । तेषां भोजनाय रम्यप्रदेशे पृथप्रथक पञ्चासनानि तावन्ति जलभृतनीरपात्राणि, तावतीः स्थालीश्च स्थापयाश्चक्रे । ततः क्षितीन्द्रस्तत्र भवने निश्रेणिका प्रयोगेणाऽऽरूढं योगिनं सुपयसा स्नपयित्वा प्रथमासने समुपावेश्यत्तदनु योगिनं राजाऽऽख्यदेवम्-योगिन् ! या ते ब्रेयसी वर्त्तते सापि क्षुधापरिपीडिताऽऽसीदिति तामभोजयित्वा कथं भोक्ष्यसे?, अपि च तस्यां क्षुदाधितायां । सत्यां त्वां भोजयतो ममापि पतिभेदजो दोषो लगिष्यति । अतः स्वजटातस्तां स्त्रियं प्रकाश्य द्वितीयेऽस्मिन्नासने स्थापय ?, यतः सा मया निज दृशै वाऽऽलोकि, अतो मामेतद्विषये मा वञ्चय?, झटिति तां प्रकट्य भोजय, एतदेवाऽधुना युक्तं मन्यस्व । अत्याग्रहारिक्षतिपतेरेतद्वचनमाकर्ण्य योग्येवं मानसे दध्यौ-हंहो? यां सूर्योऽपि द्रष्टुं नो शक्नोति तामेष कथङ्कारमपश्यत् । नूनमसौ भूजानिर्निशि गुप्तचर्यायामितस्ततः पर्यटन् कदाचित्तामदर्शन, अतएव साम्प्रतं गुप्तभेदमेनं राज्ञा ज्ञातं वश्चयेयचेद्वरं न स्यादिति विचिन्त्य मंक्षु जटाकलापतस्तामाविष्कृत्य विद्यया च प्रौढां विधाय द्वितीयासने समुपावेशयत् । तत्रावसरे तामप्यवक् राजाभद्रे ! त्वमपि निजवेणीस्थिताया लघुडिम्बिकायाः प्रेयांसं जारं प्रकटय ?, यतः स्ववल्लभं क्षुधातुरं हित्वोत्तमानां जनानां भोजनकरणमनुचितं भवति । त्वां भजमानो योग्यसौ यथा योगाभ्यासस्य जलाञ्जलिमदात्तथैव जारं सेवमाना त्वमपि Jain Education M aconal For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ श्रीचम्पक चरित्रम्. माला ॥१८॥ पातिव्रत्याय जलाञ्जलिमदिथाः। अतएव जारप्रकटने भर्तुः कापि भीतिस्त्वया नैव कार्या । यो दोषो द्वयोस्तुल्योऽस्ति तत्रैको द्वितीयं नो दूषयतीति न्यायमतम् । तथाच नैयायिकःयत्रोभयोः समो दोषः, परिहारोऽपि तत्समः। नैकस्तत्र नियोक्तव्यस्तागर्थविचारणे ॥ २०॥ व्याख्या-यत्रोभयोः समः-समानो दोषस्तत्र परिहारोऽपि तद्दोषावारणमपि तयोरुभयोः समान एव भवति, तत्रद्वयोर्मध्ये तादृगर्थविचारणे-तदोषपरिहारायैको नैव नियोक्तव्यः, उभयोः समत्वात् । किञ्चातिकामुको योग्यसौ षड्भिलोचनैस्त्वामहर्निशं गोपायति, तथाप्यहं तदीयमेतद्वृत्तं यथाऽज्ञासिषम् , तथैव तावकीनमपि चरित्रमतिगुह्यमहं वेमि, अत-एव भयं व्रीडां वा विहाय मद्वचनमादृत्य वेणीन्यस्तडिम्बिकास्थं जारं बहिष्कुरु । इत्थं | नृपाग्रहेण भीतिभुज्झित्वा प्रथमं डिब्बिकातोऽतिहस्वं पुरुषं प्रकट्य ? पश्चाद्विद्यायोगेन यथोचितं तं कृत्वा तृतीय आसने | समुपावेशयत् । तदनन्तरं राजा राज्ञीमित्याचख्यौ-सुन्दरि ! त्वमपि योगिनीव मद्वचनं मत्वा सत्वरं स्वकीयं जारं प्रकाशय ?, इति | राज्ञ आदेशमाकर्ण्य मनसि साहसमानीय सकोपं निगदितुं लग्ना-'स्वामिन् ! किमहं कुलटास्मि, यजाम् सेवेय ?, ईदृशमपोग्यं किमात्थ ?, अहं सत्यमालपामि-यन्मे प्राणाधारः प्राणप्रियस्त्वमेवासि कोऽप्यन्यो नैवास्ति । अपि च मम रक्षणे विपदि वा शरणभूतस्त्वमेवासि, किञ्च, मन्मनोऽभीष्टफलप्रदानात्त्वं चिन्तामणिकल्पोऽसि, मत्पोषणाच जीवितव्यमपि त्वमेवासि । किमन्यबिगदामि-कल्पतरुमिव सकलमनोरथपूरयितारं त्वां विमुच्य करीरमुष्ट्रीय पुरुषान्तरं कथङ्कारमहं स्वमेऽपि ॥१८॥ Jain Education MIWILI For Personal & Private Use Only SONainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ सेवेय, जात्वेवं नैव सम्भवतीति तत्त्वम् । किश्चान्यापि कुलाङ्गना जारं मनसापि नैव भजते, तर्हि सत्कुलजाता महीयसस्ते कुलवधूभूत्वाऽहं पुरुषान्तरं सेवेयेति कदाचिदपि नैव घटते । तस्माद्विद्वच्छिरोमणे! तव मुखादीगनृताऽसभ्यवचनोद्गारः कथं निःसरीसरीति । तस्या ईदृशं वच आकर्ण्य राजा मनसि दध्यौ-अहो ! महाद्भुतमेतत्कीदृशीयं साहसभूमिः, मामेवाऽनृतभाषिणं प्रथयन्ती विलसन्तमपि दोषमपलपति । हं हो ! स्त्रीचरित्रवेदिनां महतां वचनमियं स्वीयदुश्चरित्रं जानानापि सत्यापयति । अर्थात् स्त्रीचरित्रताया दुर्जेयतामेव सर्वथा व्यनक्तीयं तथा तद्वेदिनां विदुषां बन्धनमपि स्पष्टमेव सत्यापयति । कीदृगस्या वैदग्ध्यं साहसश्च वर्तते । महदाश्चर्यमेतत्तथाप्यहं केनोपायेनैनां प्रतिबोध्य जारं प्रकटयिष्याम्येव, इति मनसि निर्धार्य तामित्याख्यद्राजा-अयि कामिनि ! कदाचिदप्यहमनृतमेतन्नो जल्पामि, न वाऽसभ्यं कमपि भाषे । यतोऽहङ्गन्तेऽहनि प्रभातकालेऽत्रागतोऽहं तात्कालिकसुरतचिह्नलक्षितां त्वामद्राक्षम् । यमनश्च पुरुषमन्तरा नैव सम्भाव्यते । तस्मात्प्रत्यक्षीकृतमर्थं मुधा किमपलपसि ?, अहं सत्यमेव वदामि । तस्मादात्मोपपतिं दर्शय?, वृथा मां मा प्रतारय ?, मत्तश्च तद्दर्शने मनागपि भयं माकृथाः। यतस्त्वां जारं वा नाहं हनिष्यामि । स्वयमेव चेत्तं दर्शयिष्यस्यधुना तर्हि युवयोर्लेशतोऽपि मत्तो भीतिर्नो भविष्यति । अन्यथा विद्ययाहं प्रकटीकरिष्यामि चेद् युवामसंशयं निहनिष्याम्येवेति सत्यं विदाङ्करोतु भवती।। इति नृपोक्तिमाकर्ण्य भयपवनविध्वस्तगाढकौटिल्यमेघमालाराज्ञी गगनवत्सुप्रसन्नासती वचनलक्षणतारागणमुद्द्योतयितुमलगत्-सर्वसह ! स्वामिन् ! आवयोरुग्रतरमसहनीयमपि मन्तुं क्षमस्व, क्रियतां च निगदिता वाक् सत्या, अर्थात्-'यत्प्र P Jan Educa For Persons & Private Use Only ww.jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥१९॥ तिज्ञातवान् महीयान् भवान् युवां नैव हनिष्यामीति' तदवश्यमस्तु सत्यमेवेति निगद्य तत्कालमेव सङ्केतं तस्मै सार्थवाहायला दत्तवती । सोपि झटित्येव तत्र प्रकटीभूय राजानं विलोक्य सागरोऽगस्तिमुनिमिव वितत्रास । तत्रावसरे व्याहिकशीतज्वरजाताऽतिवेपथुमिव सर्वाङ्गे कम्प्रं दधानं तमालोक्य राजा न्यगादीत्-अरे ! माभैषीः, तवापराधं पुराऽहमक्षमिपि । तदा सार्थवाहो मनसि धैर्यमापद्य प्रथमं राजानं नमश्चक्रे । तदनु हर्षाम्बुधौ निमग्नतामुपनीतः सगद्गगिरा क्षोणीशं निगदितुमारेभे-प्रभो ! मया दुराचारिशिरोमणिना यदीदृशमकार्यमकारि तर्हि सज्जनशिरोमणिना त्वया प्रभुणा तत्क्षन्तव्यमेव, यतः-'प्रतिकर्तुमशक्तस्य लोके क्षमणं भवत्येव तत्र किश्चित्रम् ?, यो हि तत्प्रतिक्रियाङ्कर्तुमर्हति, स यदि कस्यचिदज्ञस्य महान्तमपि मन्तुं सहेत, तर्हि तत्समो क्षमी नान्यः कोऽपि । अन्यः क्षितिपतिस्तु मन्तुमन्तरापि क्रव्याद इव लोकान् कृतान्ताऽतिथीन् विधत्ते । भवांस्तु-असहनीयेऽप्यपराधे क्षमासागर इव मां लेशतोऽपि नाऽपीडयत् । तस्माद्यस्याऽल्पीयसी शक्तिर्भवति सएव वृश्चिक इवाऽन्यं पीडयति । ईदृशा दुर्जना यमुनासोदराकाराः पृथिव्यां भूयांसः सन्ति, परन्तु फणिराज इवाऽतुलसकलशक्तिमान् कृतागस्यपि जने क्रोधलेशमप्यकुर्वन् भवादृशस्तु विरल एव सम्भवति । अयमभिप्राय:-शेषो यथा बहुशक्तिमान भूत्वा क्षमां-पृथ्वीं धरते, तत्रस्था लोका असहनीयानप्यपराधान् कुर्वते, तानपि सहते, कदापि धृतां पृथ्वीं नैव जहाति । तथैव ये राजानः क्षमा शान्ति दधते, प्रजाश्च पालयन्ति, ते तु कृतागसामज्ञानामुपरि क्रोधमपहाय प्रसादमेव दर्शयन्ति । किञ्च, सर्वविदां शक्तिमतां क्षमैव सर्वस्वं भवति, अतस्ते महात्मानः क्षमाकाले तेषां दोषानशेषान् विस्मरन्त्येव । यद्यपि जगति शक्तिमतां क्षमा कुत्रापि न दृश्यते, तथापि त्वयि शक्तिशालिन्यपि यदनुपमा सहनशीलता विद्यते आ॥१९॥ JainEducatio n al For Persona & Private Use Only lainerary.org Page #35 -------------------------------------------------------------------------- ________________ तत्प्रशंसनीयमेवाऽस्ति । इयं जगती त्वादृशे क्षमाकारिणि पुरुषरत्ने सत्येव 'रत्नगर्भा' इत्युच्यते । तामन्वर्था त्वमेव कुरुषे, नाऽन्यः कोऽपीति सत्यं मन्यामहे । इत्थं चातुर्येण जल्पन्तं सार्थवाहं राजा तुर्यासने समुपावेशयत् , ततः कापट्यपरिपुष्टतां नीतां तां स्वकीयां राज्ञी पञ्चमासने समुपावेशितवान् । तदनु राजा स्वयमेव तान् पञ्चापि सरसं भोज्यं भोजयित्वा स्वयमभुत । ततस्तं योगिनं सत्कारपूर्वकं विससर्ज, सार्थवाहश्चान्तिके समस्थापयत हार्दिकप्रेमाऽमृतरसनिर्भरेण । श्रीसौधर्मबृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिप-श्रीराजेन्द्रजगज्जयिष्णुचरणाम्भोजद्वयान्तेसदा। एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे द्वितीयः श्रीचम्पकमालिकीयचरिते प्रस्ताव एषोऽनघः॥१॥ अथ तृतीयः प्रस्तावः प्रारभ्यते अथोत्तमोत्तमच्छवी राजा सर्वाङ्गकमनीयस्य तस्य सार्थवाहस्य प्रत्यङ्गोपाङ्गं स्निग्धया दृशा परिपश्यन् सौवर्णिकाचम्पकमालामिव सार्थवाहमूनिस्थिताञ्चम्पकमालामम्लानामपूर्वामद्राक्षीत् । तामालोक्य मनस्युद्भूत महाश्चर्यो राजा तमप्राक्षीत्सार्थेश ! मदङ्गसङ्गात्कुसुमस्रगचिरादेव म्लायति, भवन्मूर्धन्येयं कुसुममाला कथङ्कारमम्लाना लक्ष्यते, किमियं देवार्पिता यन्नो म्लायतीति सत्यं निगद । इत्याश्चर्यवहं क्षितिपतेर्वचः श्रुत्वा सार्थवाहो राजानमवोचत-प्रभो! यदहं तत्कारणं निगदामि, Jan Educa For Persons & Private Use Only Tainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ श्रीचम्पक माला ॥ २०॥ REASACARRASSACREAK तदवितथमेव ज्ञातव्यमलीकं मा वेदीः। मम मूर्धनि स्थितेयं माला मत्पत्न्या अखण्डशीलप्रभावादेव न जात्वपि म्लानिमावहते । पुनराह राजा-श्रेष्ठिन् ! सम्प्रतिकाले स्त्रीणामखण्डं शीलं शशविषाणवदेव प्रतिभाति, मया तु काचिदप्यखण्डितशीला कामिनी नैवाऽऽलोकि, तर्हि कथमेतत्सत्यं मन्यामहे ? । ' सार्थवाह उवाच-स्वामिन् ! श्रूयतामेतदामूलतः अङ्गदेशे साक्षाच्छीसदनमिव सर्वर्द्धिशालिनी चम्पा नाम्नी नगरी महीयसी चाचकीति । तत्र कुबेरोपमो धन्नाभिधानः श्रेष्ठयभूत् । तस्य धनकेलि नामा पुत्रोऽस्म्यहम् । सोऽहं बालचन्द्रमाः प्रतिघस्रं वर्द्धमानो भवन् कलया परिपूर्णीभवंश्च यथा सागरमाहादयते तथा क्रमशः प्रत्यहं नवनवाः कला गृह्णन् , शैशवं त्यजन्, सल्लावण्यपीयूषैः पूर्णीभवन् , तारुण्येनोल्लसंश्च निजकुलोदधिं प्रैधयितुमलगम् । इतश्च कौशाम्ब्यां पुयाँ विमलवाहमहेभ्यस्य साक्षाल्लक्ष्मीरिव रुक्मिणी नाम्नी तनयाऽऽसीत् । पित्रा च महतामहेन तस्याः पाणिपीडनं मयाऽकारि । ततस्तां प्राणतोऽप्यधिकप्रियां स्वसदनमनैषमहम् । ततोऽहं तया साकं निर्भाग्यप्राणिदुरापमनुपमं भोग भोक्तुमलगम् । अथैकदा प्रस्ताव पण्डितोक्तं नीतिवाक्यमहमश्रौषम् । तथाहि-यः खलु | पितुर्लक्ष्मी भुंक्ते स पुमान्महापापीयान् देवदारुतरुरिख पितुः सुखाय नैवार्हति । यदुक्तम् जनकार्जिता विभूतिर्भगनीति सुनीतिवेदिभिः सद्भिः। सत्पात्र एव योज्या, नतु भोग्या यौवनाभिमुखैः ॥ २१ ॥ व्याख्या-जनकेन पित्रार्जितोपार्जिता विभूतिरैश्वर्यं भगिनी स्वसेति सुनीतिवेदिभिः सन्न्यायज्ञैः सद्भिर्महाजनैर्निग ॥२०॥ For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ RECALCCARRORSCIRCRA दितास्ति, अत एवेयं भगिनीरूपा विभूतिः सत्पात्रे योग्यतमे पुंस्येव योज्या प्रदेया, यौवनाभिमुखैस्तरुणैः पुंभिः खयं, नतु-नैव स्वयं भोग्या जात्वपीति भावः । अन्यच्चस्तन्यं मन्मनवचनं, चापलमपहेतुहास्यमत्रपताम्।शिशुरेवाहति पांशुक्रीडां भुक्तिञ्च पितृलक्ष्म्याः ।२२। ___व्याख्या-लोके हि स्तन्यं-स्तन्यदुग्धपानं, मन्मनवचनं यादृशतादृशजल्पनम् , चापलम्-चपलताम् , अपहेतुहास्यम्= अकारणहसनम् , अपत्रपताम्-लज्जाराहित्यम् , पांशुक्रीडां-धूलीरमणम् , पितुर्या लक्ष्मीभगिनी तस्या भुक्ति-भोगश्च शिशुरज्ञ एवार्हति कर्तुमिति शेषः, नैवेतरः कोऽपीति । इति नीतिवाक्यमाकर्ण्य जलमार्गेण द्रव्योपार्जनाय यियासुं मां कदाचिजलादुपद्रवः सूनोर्मे स्यादिति शङ्कया पिता न्यषेधीत् । ततोऽहं विविधविक्रेयवस्तूनि वृषभोपरि कृत्वा स्थलेनैव व्यापर्तुं देशान्तरमगाम् । तत्र गत्वा तानि विक्रीयाऽचिन्तितं लाभमलप्सि, तदनु तद्देशीयनानाजातीयक्रीतवस्तुजातभृतलक्षवृषभान् निजगृहमानीय निजपितरं समतूतुषम् । इत्थं देशे विदेशे च पौनः पुन्येन व्यापतु गमागमौ कुर्वन्नहमपरिमितां लक्ष्मीमुपार्जितवान् । तदा मदीयवृषभयूथखुरक्षुण्णा धूलीपटलोत्क्षेपार्षर्तुभिन्नकाले गगनमन्धीकृतं विलोकमाना दिनेऽपि सूर्यमपश्यन्तः खमनवरतं मेघाऽऽच्छादितमिव जानानाः सर्वे लोका मां गगनधूलिरिति वक्त्तुं लग्नास्ततः प्रभृति सर्वत्राहं गगनधूलि नाम्नैव प्रख्यातिमगमम् । तत्रावसरे चम्पानगर्या काचिदेका सकलकामिनीजनमूर्धन्या रूपलावण्याऽवर्ण्यसौन्दर्यसदनं कामपताका नाम्नीरूपाजीवा न्यवात्सीत् । अथैकदा गवाक्षे सुखासीना सा वेश्या तेनैव पथा गच्छतो मे मनः सहसैवाऽपहृतवती । या खलु मुनीनामपि सुस्थिरं Jain Educatio onal For Personal & Private Use Only Maharjainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ चरित्रम. भीचम्पक माला ॥२१॥ मनचालयितुमुवंशीव लोके प्रथितास्ति, मामकञ्चेतः कुटिलकटाक्षादिपातेन क्षणाजहे तत्र किमाश्चर्यम् , ततोऽहं शरीरसदने स्थितं मनोवित्तममूल्यमपि तया चोरितमालोक्य निन्दनीयमेतदिति जानन्नपि तदनुरागाधिक्यात्तां प्रेयसीमकरवम् । तदनु यथा बलीवर्दो गामनुगच्छति तथाहं तत्प्रेमरज्जुसमाकृष्टस्तस्या अन्तिकमयासिपम् । तत्रावसरे पङ्कजाऽऽसीना लक्ष्मीर्यथा निजाऽसीमतनुश्रिया दशदिशो विद्योतयते, तथा सापि कामपताका मनोरमस्वीयसौधान्तःसिंहासनोपरिसुखासीना निजनिरवद्याऽशेषगात्रच्छविश्रिया दशदिशः प्रकाशयन्ती, सर्वाङ्गे रत्नाभरणानि मनो-10 हराणि धारयन्ती, त्रिभुवनयुवजनमनोविजेतुं रतिपतेः साक्षादस्वमिव भासमाना, मेनका-रम्भादिनिलिम्पाङ्गना अपि तनुत्विषा हेपयन्ती, शिरीषपुष्पादधिकतरपेशलाङ्गी, तडिद्गौरवर्णा, सुतारुण्यपूर्णा, निजागण्यपुण्यलावण्ययोगादासीकृतनृपेन्द्रादिश्रीमज्जना, मदिरावदुन्मादकारिविम्बाधरोष्ठी, दलदरविन्ददलायताक्षी, मयाऽऽलोकि । अथाऽशेषवेश्याश्रेयसी सापि सरसयुवश्रीमञ्जनेन सह प्रीतिं कामयमाना तादृशमनुरागिणं मामवलोक्य स्मरमुखी कटाक्षयन्ती निजासनादुत्थाय कुड्मलीकृतपाणिपल्लवा जल्पितुमारभत-सुन्दर ! अत्राऽऽगच्छ, मयि दास्यां कृपादृष्टिवृष्टिङ्करु, निजवाञ्छितं कथय ?, यचिकीपसि तद्विधेहि, मामकं यौवनं तवाधीनमेवेति सत्यं जानीहि । राजन् ! तस्या इत्थं वचनरचना आकर्ण्य तदीयगुणगणागण्यतारुण्यरूपलावण्यमोहितोऽहमपि तस्याः सदने न्यवात्सम् । रम्भादिवेश्यया सत्रा देवतेव तया साकमनारतं क्रीडितुं लग्नश्च । प्रतिदिनञ्च यावन्ति धनानि साऽचीकमत, तावन्ति पित्रार्पितानि धनानि तस्यै दातुमलगम् , इत्थं द्वादशवर्षाणि मम तत्र व्यतीतानि । अथैकदा धनजिघृक्षया ॥२१॥ Jain Education 7 1 For Personal & Private Use Only Awainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ स्वदासी मत्पितुः पार्श्वमप्रेषीत्परन्तु कृपणालयाद् भिक्षुकमिव धनं विना प्रत्यागतां दासीमुदीक्ष्य मतिविकलार्थमात्रलोलुपा I सा वेश्या मामित्यवोचत-अये पामर ! त्वमधुना निर्धनतां यातोऽसि, अतएवाऽतःपरं मदीयभोगाशां जहीहि, मम वासं त्यज, निजालयं ब्रज । यतः मादृशां सदने निर्धना नैव स्थातुमर्हन्ति क्षणमपि । याः खलु रूपाजीवाः सन्ति ताः समस्ताः सधनानामौदार्यशीलानां पुंसामेव वश्यास्तिष्ठन्ति जात्वपि त्वादृशान् रङ्कान् नैव कामयन्ते, इति सर्वे जानन्ति । निर्धनतागतवति त्वयि मम प्रेम कथङ्कारमतःपरं जायेत ?, निर्धनपुरुषं तु सखाऽपि वैरीव पश्यति । तत्र हेतुः-जलहीनं कमलवनं पद्मबन्धुर्भूत्वापि सहस्रांशुः किं न शोषयति ?, अपितु शोषयत्येव । किञ्च कलावन्तमपि श्रियोज्झितं पुमांसं मतिमन्तो जनाः कदापि नोररीकुर्वते, किन्तु क्षीणचन्द्रं दैवज्ञा इव त्यजन्त्येव । अतः इतो याहि, मयि चिराद्यथाऽऽसीदनुरागस्तथाग्रे चिकीर्षसि चेद्धनान्युपायं सत्वरं पुनरत्राऽऽयाहि, नान्यथा। इत्थं धनमात्रलोलुपायास्तस्याः कद्वचः संश्रुत्याऽहमित्यशोचम्हंहो ! नूनमेषा धनमात्रं कामयते, दाक्षिण्यतो मनागपि नैव त्रपते, यस्मादियं चिरेण कृतानुरागिणं दत्तभूरिधनमपि मामेवं जल्पन्ती समुज्झति । या खलु धनलोभात्कुष्ठिनमपि मदनमिव मन्यमाना परिषेवते, तस्यामर्थमात्रसारायां तथ्यनु- रागः कुतः सम्भवेत् ?, न कदाचिदपि । तथा चोक्तम्जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च, ग्रामीणाय च दुष्कुलायच गलत्कुष्ठाभिभूताय च।। यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया, पण्यस्त्रीषु विवेककल्पलतिका शस्त्रीषु रज्येत कः ? ॥२३॥ मामायरामाय Jain Education Triternational For Personal & Private Use Only wwwjainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥२२॥ व्याख्या-जात्यन्धाय-जन्मान्धाय, दुर्मुखाय-कुरूपाय, जरया वार्धक्येन जीर्णानि शिथिलीभूतान्यखिलाङ्गानि यस्य तस्मै बलरहिताय, ग्रामीणाय-चातुर्यादिगुणविहीनग्राम्यजनाय, दुष्कुलाय-नीचैस्तमकुलजाय, गलता क्षरता कुष्ठरोगेणाभिभूताय परिपीडिताय, इत्थंभूताय पुंसेऽपि लक्ष्मीलवस्य स्तोकधनस्य श्रद्धया-लिप्सया मनोहरं निजवपुः स्वशरीरं यच्छन्तीषु-ददानासु विवेक एव कल्पलतिका कल्पवल्ली तस्याः शस्त्रीषु-कर्तरीषु पण्यस्त्रीषु वेश्यासु कः पुमान् रज्येत रागं विभृयात् , न कोऽपीति भावः। । इति मनसि विमृश्य स्वीयवसनाऽऽभरणानि सहसैवाऽऽदाय किञ्चिद्दीनमनाभवंस्तदालयादहं निरगच्छम् । बहुधा खिद्यमानः प्रस्वेदविन्दुविभूषितगात्रः पथिव्रजन प्रतिपदं स्खलञ्छीघ्रमहं स्वसदनमागाम् । तत्र चारण्यमिव शून्यं नष्टाऽशेषभवनं स्थलमात्रमवशिष्टमालोक्य लोचनाभ्यामश्रुधारां मोक्तुं लग्नः । तदानीं वेश्यापमानदुःखाग्निदग्धोपरि निजसदनधनपरिजनाI दिक्षयोद्भूताऽसहनीयं दुःखं व्रणोपरि स्फोटकमिव ममाध्यजायत । तदानीं मे यदभू दुःखमवाच्यं तत् खलु परमात्मैव जानाति । तदनु कथमपि स्वास्थ्यमवाप्य पार्श्ववर्तिलोकानपृच्छम्-यन्मे मातापितरौ व गतौ ?, गृहाश्च ममात्राऽऽसन् , ते कथमत्र WI नो दृश्यन्ते ?, तथा मामिका पत्नी काऽगात् १. लोका अवोचन्-भो आर्य ! त्वां वेश्यासक्तं विदित्वा पुत्रधनवियोगेनात्यन्तं दुःखमनुभूय च तव मातापितरौ मृतौ । यतो हि 'लोके पुत्रविरह एव दुःसहं दुःखमर्पयति तर्हि धनपुत्रयोरुभयोर्वियोगे तादृशी दशा जायेत, तत्र किमाश्चर्यम् ?, का तदनु त्वत्पत्नी ' यन्मे भर्ता वेश्यासक्तस्तद्गृहे निवसति, गृहकृत्यदक्षामपि मां गृहान् लक्ष्मीञ्चोपेक्षते, कदापि सदने ॥२२॥ Jain Education intona For Personal & Private Use Only aniaw.jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ नायाति, श्वश्रूश्वशुरौ च मे मृत्युमधिजग्मतुः, अतएव भर्तरि सत्यपि तेन विना ममैकाकिन्या अत्र वासो न युज्यते ?, सम्प्रति पित्रालय एव दुःखिन्या मम निवासः श्रेयानिति' निश्चित्याऽवशिष्टाऽऽभरणवसनादिकमादाय क्रन्दन्ती, नष्टप्रायमालयमिदं जलाञ्जलिमर्पयन्तीव, यूयमस्मदेतत्सदनं निपतितं रक्षतेति निजसम्बन्धिवर्ग सादरं मुहुर्मुहुर्बोधयन्ती कञ्चनैकं भृत्य सार्धं नीत्वा कौशाम्ब्या निजतातसदनमगादिति तव पित्रोः पत्न्याश्च वार्ता जानीहि । वयस्य ! भवितव्यं बलवदस्ति, ये खल्वत्र महीयांसो नरोत्तमा नलरामादयो जज्ञिरे तेऽपि तदरीकर्तुमलं नैव बभूवांसः। तथा चोक्तम्| नेता यस्य बृहस्पतिः प्रहरणं वजं सुराः सैनिकाः, स्वर्गो दुर्गमनिग्रहः किल हरेरैरावतो वारणः। । इत्यैश्वर्यबलान्वितोऽपि बलिभिर्भग्नः परैः सगरे, तद्व्यक्तं वरमेव देवशरणं धिधिग्वृथा पौरुषम् ॥२४॥ ___व्याख्या–यस्य हरेरिन्द्रस्य बृहस्पतिर्वागीशो नेता-नायको मन्त्रयिता, वज्र प्रहरणमस्त्रम् , सुराः सैनिकाः सेनाः, अनिग्रहः परैरप्यधिगन्तुमशक्यः, स्वर्गो दुर्गम् , ऐरावतस्तन्नामा वारणो वाहनम्, इतीदृशैश्वर्यबलान्वितोऽपि स हरिरिन्द्रो बलिभिर्बलवद्भिः परैः शत्रुभिः सङ्गरे-संग्रामे भग्नः पराजितः, तस्मादेवशरणं-भाग्य-भवितव्यमेव शरणं वरं श्रेष्ठमिति व्यक्तं स्फुटम् , वृथा क्रियमाणं पौरुषमुद्यम धिर धिगस्तु । तथा चमज्जत्वम्भसि यातु मेरुशिखरं शत्रु जयत्वाहवे, वाणिज्यं कृषिसेवनादिसकलाः पुण्याः कलाः शिक्षतु। आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं, नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः॥२५॥ Jain Education For Personal & Private Use Only Mainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥२३॥ व्याख्या-इह संसारे कश्चिदम्भसिजले मजतु, मेरोः शिखरमुपरिष्टाद् यातु तत्र गत्वा तिष्ठतु वा, आवे=रणे शत्रु जयतु, वाणिज्य व्यापार वा पुण्याः पवित्राः कृषिसेवनादिकाः सकलाः कलाः शिक्षतु समभ्यस्यतु, अथवा परमन्यं श्रेष्ठं वा प्रयत्नमुद्योगं कृत्वा खगवत्=पक्षीव विपुलमतिविस्तीर्णमाकाशं प्रयातु, किन्तु कर्मवशत: कर्मयोगाद् यदभाव्यं तन्नैव भवति, यच्च भाव्यं तदन्यथा नोभवति भवत्येव, यतो भाव्यस्य भवितव्यतायाः नाशः कुतः कथमपि नैव जायते, इति तत्त्वम् । | स्वामिन् ! इत्थं गृहासन्नवर्तिलोकानामास्वतः पित्रोत्तिा निशम्याऽगदनीयमननुभूतमेव दुःखमभूत् , तदाऽहमशोचम्हन्त ! मातापित्रोरीदृग्दुःखदातारं, व्यसनाऽऽसक्त्या समुद्भुतप्रभूतदुःखसदनं, चन्द्रावदातमपि निजकुलं मालिन्यं नयन्तं मां धिगस्तु । हहो ! महति सत्कुले समुत्पद्याहमीदृशं नीचैस्तमं व्यसनमसेविषि, अतो मां धिर धिगस्तु, यतो मया कुलकलकिना पूर्वार्जितमपि वित्तं महत्त्वञ्च व्यनाशि । यथा व्योम्नि नवोदितो नभोमणिस्तमःस्तोमं निरस्य सुषमां दधाति, तथा कियन्तः सन्तः पुत्रा दुःखलक्षणं ध्वान्तनिचयमवधूय निजवंशाऽऽकाशं भृशमुद्द्योतयन्ते, यावजीवं निर्मलीभूय शोभन्ते च । निसर्गतो देदीप्यमाने कुले समुद्भुतोऽहमिवाऽपरः कोऽपि कुलाङ्गारकल्पः पितुर्नामधामरक्षणाऽसक्तो नैवास्ति । यदहं पित्रो| मरणमपि नाऽवेदिषं वेश्यासक्तचित्तत्वात् । अतो मे विवेकं गाढस्नेहं दाक्षिण्यं विनयश्च धिगस्तु धिगस्तु । हहो! व्यसनीभूय पूर्वसञ्चिताऽशेषधनविनाशी पित्रोरतिक्लशोत्पादी सुजनवर्गे कथङ्कारमात्ममुखं दर्शयिष्यामीति । अथवेदानीं यदभूत्तस्य शोकेनाऽलम् , यतः ' शोको हि मतिमतामपि मतिं विनाशयति तेन हि पश्चात्क्षयः समुत्पद्यते, तस्मिन्नुत्पन्ने क्रमशः क्षीणं भवदिदं ॥२३॥ Jain EducationMahebional For Personal & Private Use Only Mw.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ शरीरमेव नश्यति ।' अतएव बालिशेनेव मया तदर्थ नैव शोचनीयम् । किन्तु लक्ष्मीलाभनिदानं व्यापारः कोऽपि कर्त्तव्यः । यतो द्रव्यवतामितरे सकला अप्यनायासेन सिध्यन्ति मनोरथाः । सति च द्रव्ये पुनरपि महत्त्वादिकं स्वयमेव भविष्यति ।' उक्तञ्च नीतिशास्त्रे यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः. सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ २६ ॥ व्याख्या-इह संसारे यस्य पुसो वित्तं धनमस्ति विद्यते स नरः कुलहीनोऽपि कुलीनः सत्कुलवान् मन्यते, स धनवान् मूर्योऽपि पण्डितः विद्वान् कथ्यते, स श्रुतवान् शास्त्रज्ञः, मतिहीनोऽपि मतिमान् निगद्यते, स गुणज्ञः गुणानजाननपि गुणग्राहीत्युच्यते, सएव वक्ता, दर्शनीयः द्रष्टुं योग्यो जायते, किमधिकञ्जल्पामि सर्वे गुणाः काञ्चनं स्वर्णमाश्रयन्ते तमेवाश्रित्य वर्तन्ते ।। ___यथा खलु बीजमन्तराऽङ्करोत्पत्तिर्न सम्भवति, तथाऽर्थमन्तरा कश्चिद् व्यापारो मया कर्तुं नैव पार्यते । मूलं विना यद् व्याप्रियते परेषां सेवनादिकं तत्तु परतन्त्रत्वाद्दुःखनिदानमेवास्ति, नाऽहं तथा चिकीरस्मि, ममेदानीमन्यः कश्चिदपि धनं नो ददिष्यते, श्वशुरपार्थादेव मिलितुं सम्भाव्यते ?, नूनमेव निजपुत्रीस्नेहान्मामकीमिमां दुरवस्थामालोक्य समुद्भूताऽदभ्रदुःखप्रचयो दास्यत्येव व्यापर्तुं धनानि । यद्यपि मतिमन्तो लोका श्वशुरं जात्वपि धनं नैव याचन्ते, तद्याचनस्याऽवहेलनहेतु Jan Education intematon For Persona & Private Use Only Mirainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ चरित्रम् भीचम्पक माला ॥२४॥ त्वात् । तथापीदानीमुपायान्तराऽसत्वादनुचितमपि तद्विधातव्यमेव । तदाह अकार्यमप्याचरणीयमेव, धनैविहीनैरधिकं चिकीभिः । त्रैलोक्यनाथोऽपि बाल ययाचे, कृत्वा तनुं खर्वतरां हि विष्णुः ॥ २७॥ व्याख्या-अधिक महत्त्वं चिकीर्भिः कर्तुमिच्छभिः पुंभिर्धनैरथैविहीनैरकार्यमनुचितमप्याचरणीयमेव कर्त्तव्यमेव । यतः त्रैलोक्यनाथो विष्णुरपि त्रिभुवनाधिपत्येच्छया खर्वतरांनीचैस्तरां तनु-शरीरं कृत्वा बलिं ययाचे याचितवान् । अतएव निजस्वीमिलनव्याजेन तत्र गत्वा श्वशुराद्धनमधिगत्य स्त्रियमत्रानीय व्यापार करवाणि चेदरमित्यवधार्य प्रथम पत्नीमानीय गृहदुर्दशामपनीय पश्चालक्ष्म्युपार्जनेन दारिद्रथमपहार्यमिति निश्चित्य शरीरमात्रसहायश्चरणमात्रवाहनः, प्रयाणो द्भूतप्रभूतप्रस्वेदलमधूलिपटलविलिप्ताऽशेषगात्रस्तथाऽसंयताऽतिविकीर्णमूर्धजच्छत्रस्तरुपत्रभोजनपात्रोऽहमनुक्रमेण महता कष्टेन कौशाम्बीमासाद्य श्वशुरालयमागाम् , किन्तु रङ्कोचितवेषधारित्वात्तत्र केपि मां नैव लक्षितवन्तः। नयेतावदेव, किन्तु द्वारि-| गतं मामन्तः प्रवेशाय प्रतिहारी रङ्कमिव निषिषेध । राजन् ! किन्ते निगदामि ?, तत्रावसरे दुर्दैवः किङ्कर्त्तव्यतामूढोऽहं भिक्षुवेषधारीभृय तैः सहान्तः प्राविशम् । तदानीं सर्वेभ्यो भिक्षां ददाना मत्पत्नी मेऽपि भिक्षां दत्तवती, किन्तु भर्ताऽयमिति न जानाति स्म । चिरादर्शनाद्रकोचितवेषाच्च भिक्षुमध्यगतं मां नैव प्रत्यजानीत यदा मत्पत्नी, तदाऽहमात्मपरिचयमस्यै दद्यामिति यावदच्छं तावद् भृकुट्या विलक्षणमुख ॥२४॥ Jain Education For Personal & Private Use Only P lainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ शारदपूर्णचन्द्रा सा मामेवमवोचत - भिक्षो ! लब्धायां भिक्षायां त्वमत्र चिरं कथङ्कारं तिष्ठसि किं चिकीर्षसि १, किं विलोकसे वा ?, स्वस्थानं याहि १, इति तदुक्तिमाकर्ण्य तद्गृहान्निर्गत्य क्वचिदासन्न बाह्यप्रदेशे समुपविश्य मनसि खेदमधिगच्छन्नतिदुःखितमना व्यचिन्तयम् - हन्त ! कीदृशं मे प्रारब्धम्रदैत्, यदहं सर्वत्र तिरस्कृतो भवन्नत्रापि मत्पत्न्याऽपि ज्ञानादज्ञानाद्वा हतभाग्यतयाऽपमानितो बभूवान् । अहो ! कीदृशी कर्मणो गहनागतिः, यदा पुंसां भाग्यं जागृतं विलसति, तदा विपक्षोऽपि सम्मनुते सर्वत्रैव सुखमनुभवति । तद्व्यत्यये तु-हितोऽप्यहितायते, पदे पदे दुःखमेव भुङ्क्ते । यतः -- ' त्रिभुवनजिष्णो रावणस्य विलसति शुभावहे प्रारब्धे सर्वेऽपि देवाः सेवायामतिष्ठन्, तस्यैव यदा पुनरशुभा दशा समैत्, तदा निर्भाग्यं दशग्रीवं निजबन्धुरपि विभीषणः प्रतिपक्षीभूय तत्याजैव । ' अतएवाऽधुना मया किमाचरणीयम् १, अत्रैव कतिचिद्दिनानि स्थेयमथवा स्वसदने गन्तव्यम् १, अथवा स्त्रीलक्ष्म्यावुभे विना गृहङ्गत्वापि किङ्करिष्यामि ?, तस्माल्लक्ष्मीस्त्रियोरुभयोर्मध्यादेकस्यामपि मद्धस्तगतायां सत्यामेव मया स्वगृहम्प्रति गन्तव्यमन्यथा देशान्तर एव निवसनं श्रेयस्करम् । यतः - - ' औत्सुक्यात्कार्याणि न सिध्यन्ति, अपितु नश्यन्ति ।' यदाह यशोधिगन्तुं सुखलिप्सया वा, मनुष्यसंख्यामतिवर्त्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥ २८ ॥ व्याख्या – ये खलु महत्तरं यशः = कीर्त्तिमधिगन्तुमुशन्ति, सर्वाधिकं सुखं वा लिप्सन्ति - लब्धुं वाञ्छन्ति, मनुष्यसं For Personal & Private Use Only ainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ * श्रीचम्पकमाला * ॥२५॥ ख्यामतिवर्त्तितुं यत्केनापि नाऽकारि जन्मवता तत्कर्तुमिच्छन्ति, तेषां निरुत्सुकानां गृहपुत्राद्युत्सुकता हित्वा तदुद्योगिनां तत्सिद्धये प्रयतमानानां पुंसामत समुत्सुकेव-समौत्सुक्यादिव तत्सिद्धिरुपैति, अनायासेन सिध्यतीति भावः । इति हेतोरहमत्रैव तिष्ठानि, कदापि मामभिज्ञास्यति चेदभीष्टं सेत्स्यति । यतः सा मे पत्नी मां चिरान्नाऽपश्यदतः क्रमशश्चिरादेव लक्षितुं शक्नुयात् । चिराददृष्टमात्मीयमपि जनं झटिति प्रत्यभिज्ञातुं कोऽपि नैवार्हति । परिचितोऽपि जनश्चिरं विस्मृतश्चेदरं स्मृतिपथं नैवाऽऽरोहति । इत्थमनेकविधचिन्तासागरे निमग्नस्य विधिप्रातिकूल्ययोगाद्रकोचितदशामापन्नस्य मे दिनावसानमध्यजायत । तन्मन्ये जगच्चक्षुरपि मदीयं दुःखमालोकमानः प्रातरुदयमधिगच्छामि, सायम्पुनरस्तमुपैमीति हेतोः कर्मगतिं भुङ्क्षव, मनागपि माशोचीरिति मामाश्वासयन्निव चरमाचलमारूढवानिति । याते च सूर्यास्ते कान्ताविरहजन्याऽद-18 भ्रक्लेशभिया चक्रवाकोऽपि मया सत्रा प्रियतमावियोगादतिदुःखमनुभवन्नतितरां चुक्रोश । तत्रावसरे वेश्याराग इवाऽस्थिरः सन्ध्यारागः सर्वत्रा पुस्फुरत् । किन्त्वहमिव कमलाकरो विच्छायतामयासीत् । मम दुःखमिव तिमिरनिकरः सर्वत्र प्रससार । मामालोक्य मद्विपक्षा इव कैरवकुलं समुदिते निशाकरे नितरामहृष्यत् । किञ्च निवारिताऽशेषसारव्यापारलोकसञ्चारा त्रियामापि मामिका दुर्दशेव निःश्रीका तस्थौ । उदयमधिगच्छन्मामकमशुभकर्मेव पापीयसामाह्लादकर तमसः परिस्फुरणं जज्ञे। तदनु नैशिके प्रथमे प्रहरेऽपगते द्वारि कपाटं पिधायार्गलं दत्वा द्वारपालः स्वस्थमनाः सुष्वाप । कपाटतो बहिरेवाहमपि शयितवान् । किन्तु चिन्तातुरत्वान्मनागपि निद्रा मे नाऽऽगतवती । ततो मध्यरात्रे मामिका स्त्री तत्रागत्य द्वारपालमवक्-आर्य ! किमप्यावश्यक प्रयोजनं मेऽजनि, अतस्तत्राहं जिगमिषामि, सत्वरं द्वारमुद्घाटय, यावदहं ततः परावर्ते **%AERS RSS ॥२५॥ in Education For Persons & Private Use Only Ljainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ तावद् दत्तागलं माकृथाः। तावदप्रमत्तेन त्वया जागरितव्यमस्मिन् कार्ये शिरो मा धुनीहि, इति निगदन्त्यां तस्यां प्रचण्डतामुपनीतो द्वारपालस्तामेवमुवाच-इदानीमनवसरे रजन्यां व यियाससि ?, किञ्च ते कार्य वर्तते तद् हि ?, यतः-'एतर्हि तस्करप्रमुखा एव प्रचरन्ति, कुलीनास्तु सदनान्तरेव तिष्टन्ति ।' अत इदानीं यच्चिकीर्षसि तत्प्रभाते करणीयमिदानीं परावर्तस्व । यदहं निशीथसमयादशेषरात्रं जागरितुं नैव शक्नोमीति तदुक्तिम...र्ण्य निरस्तातिदुःखिता, क्रन्दन्ती मनसि समुद्भुतप्रभूतक्रोधाग्निज्वालाजटिला, विच्छायवदना स्वस्थानं प्रत्यावर्त्तत। तदानीं विनिद्रोऽहमुभयोरुक्तिप्रत्युक्ती समाकर्ण्य व्यचिन्तयम्-हंहो ! या कामिनी निरन्तरमर्धरात्रे क्वचिदन्यत्र बहिर्याति सा नूनं व्यभिचरत्येव, तस्मादेषा व याति किमा-गला चरतीति मया येन केनोपायेन वेदनीयमित्यवधार्य स्वस्थीभूय किञ्चिदस्वाप्सम् । अथ याते च प्रभाते कमलेन सहैव प्रफु-17 ल्लमना उत्थाय गगने कर्मसाक्षीव जगञ्चेष्टितविलोकनाय निजस्त्रियाश्चेष्टितविलोकनायाऽम्बरं ध्रियमाणस्तत्परोऽभवमहमपि । | स्वामिन् ! तत्रावसरे तत्र भवतामरातिगण इव तमःपटलो ननाश । भवद्राज्ये तस्करा इव तारा अपि तिरोदधिरे । त्वयि समुदिते त्वत्सेवका इव समुल्लसति दिवामणौ रथाङ्गनामानः पक्षिणोऽतितराम्प्रामोदन्त । तावका वैरिण इव घूकाः पलायिषत । नाथ ! तदानीं तावकीनं धैर्यमिव कनकगिरावुदयमधिगतं दिवाकरं पण्डिता उपस्थातुमारेभिरे । भवतः सेवका | इव कमलवनानि नितरां जहषुः । अस्मिन्नपि वासरे भिक्षायै तद्गृहमागामहम् । अथ भिक्षां ददाना सा मे पत्नी मामित्यपृच्छत्-भिक्षो ! कोऽसि ?, का च ते जातिः ?, तदाऽवोचमहम्-सुन्दरि ! वणिक्कुलजातिमवेहि । तदाकर्ण्य पुनरवोचत साभोभद्र ! त्वं मे गृहस्य द्वारपालो बुभूषसि ?, तद्वचनं क्षुधातुरस्य भोजनमिव पिपासाकुलस्य शीतलमतिमिष्ट पारीव भृश Jain Education international For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला मरोचत तच्चरित्रं बुभुत्सवे मह्यम् । तदनु तदुक्तिस्वीकारे पूर्वस्मिन् रक्षके नैशिकरोषात् किश्चिदूषणं पितुरने समारोप्य तदैव पित्रा तं द्वारपालं पृथक्कारयित्वा तत्स्थाने मां नियोजितवती । तद्दिने सा स्वसमीहितसिद्धये यथेष्टं सरसं मामाशिशत् । * 'यस्मात्स्वार्थसिपाधयिषया लोको हि गर्दभमपि पितरं जल्पति । अतो मामपि सरसभोजनमधुरवचनादिना वश्यमकरोत् । रात्रौ च सकले लोके सुप्ते सति सर्वाभरणवसनविमूषिता प्रमुदिता मदनातुरा मोदकादिसरसभोज्यपूर्णस्थालं करकमले दधाना सा मदन्तिकमागत्य समूचे-भद्र! त्वरया द्वारमुद्घाटय ?, अहमपि तूर्णमेव कपाटमुद्घाटितवान् । तदनु तद्वचसा तद्दत्तस्थालमादाय तया सत्राऽहमचलम् । अथ सा स्ववाञ्छितजारस्वर्णकारस्य हट्टे समागत्य मद्धस्तात्तत्स्थालं गृहीत्वा मामुक्तवती-भोः! याहि, द्वारं रक्ष, यावदहमागच्छामि तावजागृतेनैव त्वया स्थातव्यम् , तदा तस्या विश्वासोत्पादनाय गृहाभिमुखं ब्रजित्वा पुनर्गुप्तरीत्या तच्चरित्रावलोकनाय तत्रागत्य तस्थिवान् । नैशिकान्धकारबाहुल्यात्तत्रैव चौरवत्स्थितमपि मां सा नैव विदाश्चकार । तत्रावसरे तस्याः सङ्केतेन तदागमनमवगत्य स जारस्तत्रागात्तूर्णमेव कपाटमुन्मुच्य कोपातिशयेन कम्पितगात्रस्तामित्थं निगदितुमारेभे-अरे ! कृतसङ्केतापि त्वं गतायां रजन्यां कथमत्र नाऽऽयासीः १, किन्ते कोऽप्यन्यो बलीयांस्तरुणः कामुकः पुमानमिलत् ? , अहन्तु तव कृते शङ्करोऽतिदुर्धरं कालकूटमिव जागरणं सेवे, त्वन्तु 8! केनचिबलीयसा सरसेन यूना कामुकेन सह सुखेन रमसे चिरं निद्रासि च । तस्मात्-रे पापिष्ठे! याहि, याहि, सत्वरमितोऽप सर १, पृष्ठं दर्शय ?, अहो ! येन तावकस्नेहदहनेन समेधमानेन मदङ्गसदनं भस्मसान्चक्रे तेनाऽलमिदानीम् , इत्युदीर्य तस्याः शिरसो वसनमाकृष्य क्रुधा प्रज्वलितेन तेन स्वर्णकारजारेणाऽन्तःप्रविष्टव्यन्तरेणेव भासमानेन चपेटाऽदायि, तत्प्रहारेणाति RSAXSASSACAMARAGAR कामुकः पुमानमिलत चिर निद्रासि च ! तस्मात्-नालमिदानीम् , इत्युदीये तस्या ॥२६॥ Jain Education a l For Personal & Private Use Only C ainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ जीर्णतरसूत्रग्रथितं बधूकालिकं चूडामणिरत्नं त्रुटित्वाऽधस्तान्यपतत् , सा नैव विवेद । परन्तूच्छलत्तद्रत्नं मामकचरणाऽध: समागातजाने मद्भाग्योदयादाकृष्टश्चिन्तामणिरेवाऽऽगादिति हेतोस्तच्छिरोरत्नमहं युक्त्या जग्राह । सा कुलटा च स्वर्णकारपादयोः पतित्वैवमभ्यर्थयितुमलगत्-नाथ ! कोपञ्जहाहि, मयि प्रसीद, यथास्थितं मद्वचः समाकर्णय ?, निरागसं त्वदेकमनसं मां मुधा हन्तुं कथङ्कार प्रवर्त्तसे ?, गतरजन्यामागन्तुं चलिता द्वारपालेन न्यवारि, बहुधा प्रार्थितोऽपि स दुर्धीः कपाटं नेवोदघाटयत, पुरा स मदनुकूल आसीत् , इदानीमेव दैवात्प्रातिकूल्यं निनाय । विधौ प्रतिकूले विधाविव सदैवानुकूलो भवनपि स पुमान् वैपक्ष्यमेव नीतवान् । तेनाऽहं तत्रावसरे जले क्षिप्ता हस्तिनीव वागुरायां पतिता मृगीवाऽवाच्यं दुखं यदन्वभूवं तद्विपक्षोऽपि जात्वपि माऽनुभूदिति । तस्मादेव दोषात् प्रातःकाले किमपि तदीयषणं पितरं निगद्य तं निष्काश्य तत्स्थाने कश्चिदपरं वैदेशिकमनुकूलं द्वारपालमकरवम् । तत एव त्वदर्शनविरहाकुलाऽत्यन्तदुःखिता महता कष्टेन दिवसं नयन्ती मदनातुरा त्वदन्तिकमहमागतवती । प्राणप्रिय ! अतएवाऽनपराधिनी मामुररीकुरु ?, तिरस्कारं मा कृथाः । यथा भक्त्यार्पितान्मोदकान् प्रसन्नमना गणेशो गृह्णाति, तथा प्रेम्णाऽऽनीतानेतान्मोदकान् सरसान् गृहाण । मयि मा संशयीथाः, यदहं त्वदन्यङ्कमपि खमेऽपि नैव कामये । तस्मात्सौम्यदृशा मां विलोक्य पुनीहि च, मदीयं दुःखं दर्भमिव छिन्धि, इत्थं तस्याः सस्नेहं वचो निशम्य स जारः स्वर्णकारस्तस्यां प्रससाद । तदानीतं मोदकैभृतं स्थालं सहर्षमङ्गीकृत्य तामवोचतसुन्दरि ! अज्ञानान्मया त्वयि यदकारि तिरस्कारादि तत्क्षमस्व । राजन् ! स्वस्त्रिया एतदाचरणमालोक्य मनसि जातवैराग्यः सखेदमहं स्वस्थानम्प्रत्यचालिषम् । चिन्तितुं लग्नश्चैवम् Jain Education in a For Personal & Private Use Only H Mainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ चरित्रम् चम्पकमाला ॥२७॥ रे जीव ! यामीहमानस्त्वमत्रायातोऽसि, सा तु दासमकरोत् , जारश्च निषेवते । अहो ! स्वप्रेयसी भुञ्जानं जारं निहन्तु शक्तिं किमिति न बिभर्षि ?, तथा विधातुं क्लीबायमानमात्मानं किमिति नो हिंससि ?, रे दैव ! मम पित्रादिपरिवारधनगृहादिकं विनाश्य तज्जन्यमसह्यं कष्टं दर्शयित्वा किं नाऽतुष्यः ? यदधुना निजस्त्रीपराभवजं दुःखमदो दर्शयसि ?, अहो ! सद्वंशजाऽपीयं मे स्त्री कुलटा कथङ्कारमजायत ?, अथवा या खलु विष्णुनोर्वशी निरमायि सापि सुरनगरे देवानां वेश्या किं नो जज्ञे ?, तहीयं मे पत्नी कुलटाजनि तत्र किमाश्चर्यम् । हहो मामकेनैव दोषेण कुलजाया अपि स्त्रियाः कुलटात्वं लक्ष्म्या विनाशश्चाऽभूत् । यतोऽहमुभावप्युपेक्ष्य द्वादशवर्षाणि गणिकामसेवे, सर्वोऽप्ययं ममैव दोषः। अथवा मद्वियुक्ताया अपि स्त्रिया एतदाचरणं नो युज्यते । यतः 'सूर्यविकाशिनी कमलिनी सूर्येऽस्तङ्गतवत्यपि चन्द्रमसं जात्वपि नैव कामयते । ' इयन्तु मयि जीवत्येव गतत्रपा सती निरन्तरं जारेण सह रमते । एषाऽमुना जारेणैकेनैव नोपभुज्यते, किन्त्वनेकेन पुंसा साकं क्रीडतीत्यनुमीयते । यत, 'या कामिनी भरिमतिक्रम्य परेण रिंसां वहते, सा खल्वेकेन पुंसा नैव तृप्यति, किन्तु प्रत्यहं नवनवेन यूना कामुकेन साकमेव यभितुमीहते । ' अतएवाऽनाचारवारिकुल्या तुल्येयं स्त्री सद्वंशजा कथमुच्येत ?। यतः–' कुलवध्वो हि सदाचारशालिन्यः शीलपालिन्योऽवश्यमेव भवन्ति ।' उक्तश्च भाषाकविताशेन " खान रु पान विधान निधान, निमग्न सदा सुखकी तरनी में; यौवन जोर भयो तउ, कन्त मिल्यो नहिं चूक परी करनी में । ॥२७॥ Jain Education For Personal & Private Use Only काjainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ * ARROSIOSENSIUS रूप की राशि प्रकाशित देह, नहीं तिय ता सम निरजरनी में; तो पुनि धीरज धर्म तजी नहिं, धन्य प्रवीन सती धरनी में ॥ २९ ॥" अस्यान्त्वेकमपि कौलीन्यलक्षणं नास्ति । इति हेतोरनार्याया अस्या अतः परं सङ्गमो श्रेयान् नो भाति । येन हेतुना | दुराचारिणी कामिनी भुजङ्गीच मृत्युनिदानम्भवति । यद्यप्यधुना मामक एष वृत्तान्तस्तथाऽस्याश्चैष वृत्तान्तः कस्याप्यग्रे लघुत्वहेतुत्वान्नैव वाच्यः । तथा मम दुःखस्मृतिकारणभूता स्थितिरप्यत्र साधीयसी न भवितुमर्हति, तथा वनगरेऽप्यधुना गमनं मे नितान्तदुःखस्मारकत्वादुचितं न प्रतिभाति, किन्त्वयैव दैवाद्यचूडामणिः प्राप्तस्तमेव विक्रीय पाथेयं सम्पाद्य देशान्तरमेव गन्तव्यम् । इत्थं निश्चित्य तत्रैवाऽहमशयि । प्रगे च क्वचिदन्यत्र गत्वा तं चूडामणिं सम्यगवलोक्योपलक्ष्य चाहमित्यचिन्तयम् । अहो ! एप एव चूडामणिः पुरा मे मातुर्मूर्धन्यशोभत, सैवायं कुलपरम्परया सुरक्षितो मयाऽद्याऽलम्भि । भ्रमादप्येष पुत्र्यै नैवार्पणीयः, किन्तु बध्वा एव दातव्य इति पित्रोः शिक्षापि स्मृतिपथमायाति स्म । तस्माद् भिक्षयोद्विग्नचेता दुर्दशामधिगतोऽहमेनं चूडामणि भनजानीति निश्चित्याऽश्रुपूर्णलोचनो यदा तमभनजं तदैव तन्मध्यादुत्तमाक्षरमालैका पत्रिका निरगात् । विस्सयोपविष्टचेताः प्रफुल्लनयनोऽहं झटित्येव तां लात्वा वाचयित्वा चेत्यबोधि-'अहं हि गृहान्तरे लघ्व्यां गुप्तकोठय्यां वामभागे दीनाराणां चतस्रः कोटीरतिष्ठिपम् ' इति पठित्वा महासिद्धेः पाठसिद्धमहामन्त्रमिवाऽत्युग्रं वाङ्मनसोरगोचरमसीमं हर्षमलप्सि । यद्यपि तदानीं तत्र ममाऽऽगमनं मुख्यतया प्रथमं क्लेशाऽतिशयकार्यभूत् तपस्विन इव, परन्तूत्तरकाले निरतिशय Jain Education For Personal & Private Use Only K hinelibrary.org Page #52 -------------------------------------------------------------------------- ________________ चरित्रम्. भीचम्पक माला ॥२८॥ सुखदायकमेव बभूव । किश्च 'पुत्र्या एष चूडामणिः कदापि नो देयः, बध्वा एव दातव्य इति' या मातापित्रोः पौनःपुन्येन शिक्षाऽऽसीत्तस्या अपि तत्त्वं तदैवाबोधि । .. तदनु तचूडामणिविक्रयाजातशंबलोऽहं महतोत्साहेन चम्पानगरीम्प्रति चालितवान् । क्रमेणाऽचिरादेव तत्र पुर्यां स्वगृहमागाम् । तस्यामेव रजन्यां पत्रान्तर्लेखानुसारेण मनसि साहसं विधाय पृथ्वी खनितुं प्रावर्ते, निरालस्येन खनंश्च समृद्भुतं स्वीयं सुकृतपुञ्जमिव तनिधिमपपश्यम् । जिजीविषुम्रियमाणः प्राणमिव लोचनाभ्यां विहीनो नयनमिव तमासाद्य निरवधिमानन्दमध्यगच्छम् । अथ तन्निधानाऽऽकृष्टलक्ष्मीप्रभावादचिराद्विशिष्टानि सदनानि वसनान्याभरणानि च चक्रिरे । किमधिकं 13 जल्पामि-तदानीं देवालयमपि जयन्ति, शोशुभ्यमानानि च मे सदनानि बभूवुः । इत्थमनेकङ्गगनचुम्बिसप्तभौमपञ्चभौममनेकविचित्रचित्रचित्रितं सुरेशभवनोपमं सदनं नानादासदासीगणसुसेवितं परमर्द्धिकमत्युज्वलं विहितवान् । अनेकमदस्राविगजाली बहूनुत्तमान् सुलक्षणानश्वान् रथांश्च चक्रिवान् । अथैकदा महास्वरूपैर्लेखकगणैः परिवृतः सुरराज इव कियद्भिः सुल-13 क्षणतुरङ्गमारूढः परिवारैरनुनीयमानः श्वेतमहाजवशालितुङ्गतमाश्वोपविष्टः सेवकवर्गः शिरसि ध्रियमाणातिप्रौढमयूरबर्हच्छत्रो मदस्रावी गजराजो मदगन्धलोलुपैर्गुञ्जद्भिरलिकुलैरिव बन्दिगणैस्तोष्ट्रयमानो महाईसुरत्नजटितसौवर्णाभरणैर्दिव्याम्बरैश्च शोशुभ्यमानः, शतशः पत्तिभिरनुगम्यमानः, परश्रियः सुषमां दधानः, पथि च नानावाद्याडम्बरबधिरीकृताम्बरः, कौशाम्ब्यां पुर्या कमलायाः सदनं श्रियः पतिरिवाऽहं स्वशुरसदनमीयिवान् । मदागमनमाकर्ण्य मामक श्यालादयः सम्मुखमागताः कल्पतरुममरा इव मामधिकं मन्यमाना महतोत्सवेन पुरं प्रावेशयन् , एवमजल्पंश्च-आवृत्त ! त्वमात्मीयानप्यसानियन्ति दिनानि SAISOSAAMASAHISHOISIS ॥२८॥ * Jain Educationala For Personal & Private Use Only Kalyainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ ***ORRRREARS विसमर्थ ?, तावकमेतद् दर्शनं नो नयनानि कौमुदीव कथङ्कारमियद्भिवः शिशिरीचक्रे ?, जीमूतं कलापिन इव तत्र भवन्तं द्रष्टुमौत्सुक्यवन्तो वयमद्य श्रीमन्तं भवन्तमालोक्याऽमन्दानन्दसागरे निममा जज्ञिमहे । इति तदुक्तीः श्रुत्वाऽहं दध्यौअहो ! सर्वोऽप्ययं सत्कारादिर्मदीयो नो जायते, किन्तु लक्ष्म्या एव । यसात्पुरा रङ्करूपेणाऽत्रागतं माङ्केपि किमपि नैव पप्रच्छुः, न वा केपि परिचितवन्तः, किमधिकं प्रतीहारोऽप्यन्तःप्रविशन्तं मां न्यवारयदेव । सम्प्रत्येतादृशं सत्कारमेते | वितन्वन्ति । तदनु ते सर्वे महताऽऽदरेण नानाविधदिव्यसरसस्वादिष्टपक्वान्नादि मां भोजयामासुः। ततः श्यालवर्गः साकमनेकविधं सरसं सश्लेषमालपन क्रीडितुमारब्धवान् । यतो हि—'धीमन्तो जनाः शास्त्रचर्चया काव्यनाटकादिविनोदेन वा 8 कालङ्गमयतीति ।' तदुक्तम्| काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां, निद्रया कलहेन वा ॥३०॥13 दुराचारिणी मन्मनसो बहिष्कृतां तां मत्पत्नीं त्वहं दृशा नाऽपश्यम् , यस्माल्लोकानां मनोऽनुसारिण्येव दृष्टिः परिपतति। मनो हि यत्र रज्यति तत्रैव रुद्धापि दृग् यच्छति, यत्र मनो विरक्तं भवति, तस्मिंस्तु मुक्तापि सा नैव याति । विद्यमाने च रागे विशिष्टमपि रूपं चक्षुषोरमृताञ्जनसाम्यं जायते, अन्यथा तदेव लवणाञ्जनमिथोद्वेगकार्येव जायते । निशाया आद्ययामे गते सति सुसज्जितायां शय्यायां निद्रया निमीलितप्रायलोचनोऽहं यावत्सुषुप्सामि तावदन्तर्विरक्ता बहिरनुरक्तासुवसना परिहितसर्वाभरणा समागत्य सामर्षस्य मे चरणौ परिमर्दितुं लग्ना । तदाऽहं जागृत इव भवंस्तामपृच्छम् –' त्वङ्कासि ?, किमिदं कुरुषे ?' तयोक्तम्-'अहन्ते पत्नी, त्वदीयचरणकमलयोभक्तिकर्वे ।' पुनरहमवादिषम्-सुन्दरि ! त्वयेदं साधु नाऽकारि, यत्स्वप्नं Jain Educati o nal For Personal & Private Use Only A jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ पीचम्पकमाला ॥२९॥ विलोकमानं मामजागरीः ? ' तदा तयोक्तम्-प्राणनाथ ! त्वमधुना यं स्वप्नमपश्यस्तं मामपि हि ? यदहं ते प्राणप्रिया चरित्रम् ऽस्मि, मत्तस्तेऽवाच्यं किमपि नास्ति ।' तदाहं न्यगदम्-यद्येवमस्ति तर्हि सावधानतयाऽऽकर्णय ? - अहं हि तव सद्मनि द्वारपालोऽभूवम् , त्वश्च मोदकैः पूर्ण स्थालं मयोत्पाटयामासिथ, तदनु त्वत्पृष्ठेऽहमपि तत्स्थालमादाय चचाल, ततो यत्र ते जारस्तिष्ठति तस्य स्वर्णकारस्य हवे त्वमगाः, तत्र गत्वा त्वं मां न्यवीवृतः प्रोक्तवती च यावदागच्छामि तावजागरितेन त्वया स्थातव्यमिति, तदनु स स्वर्णकारो महता क्रुधा-अरे ! गतरात्रौ सङ्केतं कृत्वा पुनस्त्वमत्र कथङ्कारं नाऽऽगतवतीत्याख्याय ते चपेटामदात् , तदीयचपेटा ताडिता ते शिरसोऽधस्तात्पतितश्चूडामणिं यावदहमग्रहीषि तावदेव त्वं मामजागरीः, इति ।" - दृष्टार्धस्वप्न आयतौ महालाभकारीति प्रतिभाति । तस्मान्मध्ये यत्त्वं जागरयाञ्चकर्थ तदशोभनमजायत । महेालुरहं स्वमव्याजेन तत्सर्व सूचितवान् । साऽप्यबोधि यन्मदीयं दुश्चरित्रं सर्वमयं वेत्तीति मर्मवेधिमदीयवाक्याऽतितीक्ष्णबाणविदीहृदया लजाभीतिमापन्ना तत्कालमेव कदलीस्तम्भमिव भूमौ निपतिता व्यसुरजायत । येन कारणेन मर्मवाक्यं नूनं महाऽनर्थमापादयतीति कथयन्ति सुधीजनाः । ततोऽहमधःपतितामधोमुखीमचेष्टाऽवयवामुच्छ्वासरहितां तन्द्रितनयनां तां स्त्रियं प्रकाशमानीय विलोक्य मृतेयमिति निश्चिकाय । अहमपि तदैव कोपावेशादुल्लसिताऽतिवीर्य धैर्य एकाक्येव व्याघ्रो गामिव तां व्यसुमुत्पाटय गृहद्वारमागाम् । तत्र च ग्रामान्तराऽऽगतज्ञातीयजनताबाहुल्याद् द्वारमनर्गलं तद्रक्षकाऽभावञ्चाऽऽपश्यम् । तदा शनैः कपाटमुद्घाटच लौकेरलक्षितस्तजारस्वर्णकारहमागत्य हट्टस्य द्वारे तथा तामतिष्ठिपं यथाऽधो न पतेत , प्रागा-11॥२९॥ है Jain Educati a For Personal & Private Use Only Daw.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ महो! कीदृशं ते घास ?, कुपितेव विशेष उदपद्यत, मद, तथापि शवतात, गत्य यं सङ्केतं सा करोति स्म, तमेव सङ्केतं कृत्वा यथा कोऽपि न विद्यात्तथा कियद् दूरङ्गत्वाऽतिष्ठम् । सोऽपि जारस्तदैव सङ्केतेन पुरेव तदागमनमवगत्य झटित्येव कपाटमुद्घाटय हसन्नित्यवक्ताम्-अरे ! इदानीमर्धरात्रे मामकी निद्रा भक्तुं कथङ्कारमागाः, अहो ! कीदृशं ते धार्यम् ?, स्नेहे च गाढनिष्ठता कीदृशी वर्त्तते, एतद् द्वयमपि वचनाऽगोचरताङ्गतवदिति लक्ष्यते ?, त्वमन्तः किमिति नागच्छसि ?, कुपितेव चिराबहिः कथं तिष्ठसि ?, कपाटे समुद्घाटिते पुरा कदापि विलम्ब नो कृतवती?, अद्य किमभूत् येन नो भाषसे ?, किन्ते मनसि रोष उदपद्यत?, मदीयहास्यवचः सहस्व ?, मद्धट्टमध्ये समागत्य मत्पावें गृहान्तः कथं नाऽऽगच्छसि ?, इत्थं बहुधा तेन स्वर्णकारजारेण न्यगादि, तथापि शवताङ्गतवती सा यदा नाऽऽगतवती तदा स एहीत्युदीर्य तस्या वसनमक्राक्षीत् । तदा निष्प्राणा सा स्त्री काष्ठमूर्तिरिव भूमौ न्यपप्तत् , तामकस्मान्मृतामवगत्याऽत्यन्तं विस्मयं मनसि सोऽधरत् । किमियं मदनशरजालनिपीडनमसहमाना व्यपद्यत ?, किम्वा केनापि दुष्टहिंसकेन कदर्थिता सती पञ्चत्वमियाय ?, इति गद्गगिरा जल्पन् स हट्टान्तस्तं शवं नीत्वाऽतिगम्भीरङ्गत खनित्वा तत्र तच्छवं निक्षिप्य निधिमिव पुनर्मुदाऽऽपूर्य चिरकालिकमतिघनिष्ठं तत्प्रेमाणं स्मारं स्मारश्चिरं रुदच्छुशोच सः। तस्य जारस्वर्णकारस्य सकलमुदन्तमुद्वीक्ष्य पश्चानिजस्थानमागत्य सर्वमेतत्स्वमित्रमभ्याहरम् । सोऽप्येतत्सर्व तस्याः पितरमवादीत् , इत्थं सर्वत्रान्तःपुरे तद्वार्ता प्रससार, अतएव सर्वेषां तेषां मनसि महती चिन्ता प्रादुरभवत्, किन्तु महतामेतद्धानिकारीति विचार्यैतद्वत्तं समुद्रो वाडवाग्निमिव गोपायाञ्चकार तत्पिता । तेनाऽन्ये केऽपि न विदाश्चक्रिवांसः। दुःखहेतुभूतेयं वार्ता तस्य गृहे साल्लोकान् व्यापन् । यतो हि लशुनस्य गन्ध इव गुप्तीकृताप्यनाचारवार्ता गुप्ता नैव तिष्ठति, किन्तु प्राकाश्य KASHASHRAMERAL निधिमिव पुनर्मुदाऽऽपूर्ण वात गद्गगिरा जल्पन् स हटान्तहमाना व्यपद्यत ?, किम्बा Minelorary.org Jain Education For Persona & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥ ३० ॥ Jain Education tea मधिगच्छत्येव । ततश्चिन्तितानामेषां सदने मया न स्थातव्यमिति निश्चित्य खिन्नचेता यावदहं स्वनगरीम्प्रति यियासामि तावन्मां वरीतुकामा करकमलयोश्चम्पकस्रजं दधाना, चम्पकमालाऽभिधाना, मत्पत्न्याः कनीयसी स्वसा समागत्य ममाग्रे तस्थौ, महीयसा हर्षेण मय कटाक्षमालां मुञ्चमानातित्वरया मदधिग्रीवं तां वरमालां पर्यधापयत्सा । आख्यच्चैवम् - महाभाग ! त्वां भर्त्तारङ्कमहमागतास्मि । अतो मे भर्त्ता भव १, मत्प्रार्थनं विफलं मा कृथाः १, यतः - - ' महाजनाः खलु कस्यापि प्रार्थनां भ मनसि विभेत्येव । ' तदनन्तरं मयैवं भणिता --सुन्दरि ! या ते ज्यायसी भगिनी मामकी पत्न्यासीत्तस्याः स्वभावं जानन्नहं त्वां कथङ्कारमुररीकुर्याम् १, यतस्तस्या एव भवत्यपि लघीयसी भगिन्यस्ति तदनुरूपप्रकृतिकैव भविष्यतीति निश्चीयते तच्छ्रुत्वा तया पुनर्न्यगादि - - महाभाग ! इति कश्चिदेकान्तनियमो नास्ति, यत्सर्वा अपि स्वसारः प्रकृत्या गुणादिना वा तुल्या एव जायेरन् । भ्रातरो वा सर्वे समानप्रकृतिका एव न भवन्ति । तदुक्तम् एकोदरसमुत्पन्ना, एकनक्षत्रजा अपि । न भवन्ति समाचारा, यथा बदरिकण्टकाः ॥ ३१ ॥ व्याख्या—एकस्मादुदरात्समुत्पन्नाः, तथैकस्मिन्नेव नक्षत्रे जायन्त इत्येकनक्षत्रजा बदरिकण्टका यथा समाचारा=एकाकारा न जायन्ते, तथैकमातुर्जाता भ्रातरः स्वसारो वा समाचारा - तुल्याचारविचाराः सदृशस्वभावा नैव भवन्ति । अन्यदपि मतिमन् ! जगत्यामस्यां फल- पुष्प - पत्र - पुरुष - दन्ति - तुरगोपल - कमलप्रमुखा एकस्थानजाता अपि नानाप्रकृतिका जायन्ते, तदन्येऽपि बहुशः पदार्थाः प्रकृतिभिन्ना दरीदृश्यन्ते चेत्तर्हि स्त्रीजातौ सा प्रकृतिः कथं नो भिद्येत ?, ontal For Personal & Private Use Only चरित्रम् . ॥ ३० ॥ jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ भवत्येवेति निश्चयं विदाकर्वन्तु तत्र भवन्तः । गुणानां प्रवाससंवासाभ्यामर्थात्तदीयाऽवगुणसंसर्गाचिरपरिचयाद्वा यथा सा दुःशीलाऽऽसीत्तथैवेयमपि तदनुजा भविष्यतीति मा संशयीथाः। यतः-सज्जनो जनो दुर्जनानां गोष्ठ्यां तिष्ठन्नपि तत्परिचयङ्कर्वन्नपि लेशतोऽपि तदीयदुर्जनतां नैव भजते । यथाऽऽजन्ममहाभोगिभोगस्थितो मणिःस इव दुःखभावः परेषां पीडाकारी न जायते । यद्यप्यहं तस्या अनुजामि तथापि तत्तुल्यस्वभाववतीभृय सेवाऽकृत्यं नैवाऽऽचरिष्यामि स्वमेऽपि । अथवा यथा क्वचित्कूपे पतितमात्मीयमपि जनं विलोक्य तत्पृष्ठे मतिमान् नैव पतति तथैवाऽहमपि तदनुकारिणी नैव बुभूषामि । अतएव ज्यायसीं मे स्वसारं दुराचारिणीं विलोक्य तदनुजां मामपि मा जहाहि ?, 'क्षीराद्विरक्तः कश्चिद्दधि जहाति किम् ?' एतद्विपये निस्पेव बहु किं जल्पामि-" भवदधिग्रीवं या चम्पकमाला मया निहिता सैव मामकं. सतीत्वं बोधयिष्यति, यावन्मे शीलमखण्डितं स्थास्यति तावदियं सक तब कण्ठे सद्यो जातेव भवन्तमामोदयन्ती सुषमा धरिष्यति, मनागपि नैव म्लास्यति । यदैव मनसा वचसा कायेन वा निजशीलं मलिनीकरिष्यामि तदैव मदर्पिता भवत्कण्ठस्थिता स्रगियं म्लास्यति । यदेयं मालिका म्लायेत्तदैव मत्सतीत्वमपि खण्डितमवगन्तव्यमितरथा नैवेति तथ्यञ्जानीहि ।" इत्यादि तदुक्तिश्रवणेन समुद्भुतप्रभूताश्चर्यस्तत्प्रार्थनमङ्गीकृतवानहम् । ततः शुभे दिने महतामहेन तत्पिता तां चम्पकमालानाम्नी मया सत्रोदवाहयत । तदनु पित्राप्तिकौतुकोत्पादिदासदास्यादिगजतुरङ्गादिसमृद्धियुतां तामुदाहितां कन्यां सच्छीलामहं निजगृहमानिनाय । सैवैषा चम्पकमालिका तदखण्डितशीलसूचिका तदर्पिताऽद्यापि सद्यो गुम्फितेव दृश्यमाना मम कण्ठे विचकास्ति । गतेष्वपि द्वादशवत्सरेषु तस्याः सतीत्वमाहात्म्यादद्यपर्यन्तं देवतार्पितेव न. शुष्कतामध्यगच्छत् , Jain Educatio n For Persona & Private Use Only inbrary.org Page #58 -------------------------------------------------------------------------- ________________ चरित्रम्. श्रीचम्पकमाला ॥३१॥ किन्तु तात्कालिकीव शोशुभ्यते । राजन् ! एतदाश्चर्यमसम्भवं वा मा मंस्थाः। यतः--शीलानुभावादेव सीतायाः परीक्षाकाले दहनकर्माऽप्यग्निर्जलवच्छीतलो जज्ञे । कमलावत्या अपि छिन्नौ करौ शीलप्रभावात्पुनर्लोकसमक्षमेव जज्ञाते । सुदर्शनस्य श्रेष्ठिनस्तन्माहात्म्यादेव पश्यत्सु नृपादिलोकेषु शूलिका स्वर्णसिंहासनमजायत । महासती दमयन्ती खलु शुष्कताङ्गताया नद्या वारिप्रकटनमकरोत् । प्राफुल्लयच्च निजभर्पितङ्कमलं शीलमहिम्नः शीलवत्यपि । सुभद्राऽऽमतन्तुयोगाचालिन्या कूपाजलमकाक्षीच्च । तथा मम स्त्रियाः सच्छीलमाहात्म्यात्तावकीना विमलतरासत्कीतिरिव मत्कण्ठस्था मालेयं जातुचिदपि नैव शुष्यति । जगति शीलप्रभावो वचो- | गोचरतां नैव ब्रजति । यतः-'शीलशालिनां वचनमचेतनेयं स्रगपि नोल्लंधितुं प्रभवति, तर्हि चेतनानां का कथा?,' अत आहुः-- सीमा खानिषु वज्रमगदङ्कारेषु धन्वन्तरिः, कर्णस्त्यागिषु देवतासु कमला दीपोत्सवः पर्वसु। । ॐकारः सकलाक्षरेषु गुरुषु व्योम स्थिरेषु क्षितिः, श्रीरामो नयतत्परेषु परमं ब्रह्म व्रतेषु व्रतम् ॥३२॥ ___व्याख्या-खानिषु-आकरेषु यथा वज्रमशनिः सीमा, अगदङ्कारेषु वैयेषु धन्वन्तरिः, त्यागिषु दातृषु कर्णः, देवतासु यथा कमला-लक्ष्मीः , पर्वसु-पुण्यतिथिषु यथा दीपोत्सवो दीपमालिका, सकलाक्षरेषु-सकलवर्णेषु यथा ॐकारः, गुरुषु | महत्त्वेषु यथा व्योम-गगनम् , स्थिरेषु-निश्चलेषु यथा क्षितिः पृथ्वी, नयतत्परेपु-नीतिशालिषु यथा श्रीरामः, तथा व्रतेषु | परमं सर्वोत्कृष्टम् , ब्रह्मव्रतम् ब्रह्मचर्यमस्ति । अन्यच्च JainEducation For Persona & Private Use Only albaryong Page #59 -------------------------------------------------------------------------- ________________ * *** * * शीलं प्रधानं न कुलं प्रधानं, कुलेन किं शीलविवर्जितेन । नैके नरा नीचकुले प्रसूताः, स्वर्गङ्गताः शीलमुपेत्य धीराः ॥ ३३ ॥ व्याख्या-इह लोके शीलमेव प्रधान मुख्यमस्ति, कुलं न प्रधानमस्ति, शीलविवर्जितेन=शील विना कुलेन किम् = | अकिञ्चित्करं मुधैव । यतः-नीचकुले अधमकुले प्रसूता उत्पन्ना अप्यनेके नरा धीराः मतिमन्तः शीलमुपेत्य परिपाल्य स्वर्गङ्गताः स्वर्गमापेदिरे । अतः शीलस्यैव प्राधान्यं नाऽन्यस्येति तत्वं जानीहि । राजन् ! अमुष्या मालाया अम्लानतायां योऽयं हेतुस्तवाग्रे मया न्यगादि, तं तथ्यमेव विजानीहि । यतः--'स्वामिनोऽग्रेऽलीकभाषणमनर्थहेतुर्भवतीति सत्यमेव भाषितव्यमाश्रितैः पुरुषैः।' इत्थं सार्थवाहोत्तमाकर्ण्य विक्रमार्को राजा विहस्य तमेवमुवाच-सार्थेश ! त्वमेवं शीलप्रभावं जानासि चेत्स्वयमीदृशानाचारं कथं चकर्थ ?, अर्थादन्यस्त्रीगमनेन स्वीयशीलं कथङ्कारमभाक्षीः ?, ईदृशे ज्ञाने त्वयि विद्यमाने सति कथं महापापजनके चिरकालिकदुर्गतिप्रदे तादृशेऽकृत्ये प्रावर्त्तथाः ?, करकमले दीपके ध्रियमाणे किं दृष्टिमान् पुमान् गर्ने पतति ?, नैव निपततीति हार्दम् । दक्षिणानां पुंसामवश्यं तदेव ज्ञानं फलेग्रहि निगद्यते, यथा येन सृणिना मदमत्तमपि मातङ्गं हस्तिपको वशं नयते, तथा प्रमादिनमुन्मार्गगामिनमात्मानं यदिस्ववशं नयेततमाम् , तव खलुधीरपुंसामपि ज्ञानं फलवज्जायेत । अथवा मतिमानपि पुमान् रागान्धीभूय जानन्नपि चेदीदृशमकार्य कुर्यात्तर्हि तदपि घटते, यतः 'विवेकिनोऽपि जना नरकजनकज्ञानदशायामप्युत्कटेच्छयाऽन्याये प्रवर्त्तमानाः सदसद्वि * * * * For Personal & Private Use Only ww.jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ चरित्रम् श्रीचम्पक-16 वेचयितुं नैव प्रभवन्ति ।" माला यतः " एकदा कुत्रचिद्रम्यकानने समाधौ समासीद्धरः, तत्रैव कियत्यो मानुष्यो युवतयः क्रीडितुमाजग्मुः, ताः सुन्दरी रखलोकमानोऽसमाप्तसमाधिको हरः सञ्जातकामविकारस्ताश्च गगने नीत्वा ताभिः सह रेमे, प्रान्ते पार्वत्या ता अधः पातिताः ॥३२॥ शिवश्च समाधौ योजितः"। "विष्णुरपि कस्यचिद् बलीयसो जलन्धरासुरस्य तनयां छलयित्वा समुपाभुत, ततस्तं सा शशाप"। " इन्द्रोऽप्येकदा गौतमः पत्नीमहल्यां रूपान्तरव्याजेन बुभुजे । तद्विदित्वा गौतमो दत्तवांस्तस्मै शापं तेन महेन्द्रस्य करसहस्रं भगात्मतामियाय । " "कोप्येको यवीयांस्तपस्वी क्वचिन्मन्दिरे किलैकाकी न्यवसदसौ खलु जितेन्द्रियतया सर्वत्र प्रख्यातिमानाऽऽसीत् । दैवादेकदा काचिदेका कामिनी मनोहराऽऽभरणवसनविभूषिता तदग्रतश्चचाल, तदूपविमोहितस्तपस्वी पश्चेषुपरिपीडिताऽशेषगात्रस्तामन्वगच्छत् । यदा सा निजसदनमागतवती तदा स योगी तां रतिमयाचत, तस्य याचनं श्रुत्वा द्वारं पिधातुं यदैच्छत्तदा स बलान्निजशिरसा कपाटमनर्गलं विधातुमयतत । तत्रावसरे सा जवेन तथा कपाटं दत्तवती यथा तन्मध्यपातितपस्विशिरः कपाटसंघातात्तत्कालमेव विच्छिन्नमभवत्तदैव स ममार च ।” यदीदृशयोगिनां वशिनां मनांसि कामिनीमुखपङ्कजविलोकनेन मारकिङ्करतां नयेरंस्तर्हि पामराणां का वार्ता । अतएव तुभ्यमर्पितां त्वदनुरागिणीमिमां कामिनीमङ्गीकुरु । यथा त्वं भृतां स्वस्त्रीं तदिष्टपुंसेऽर्पयामासिथ, तथैवाऽहमपि त्वयि रागिणीमभीष्टाश्चिरमुपभुक्तामेनां कामिनी तेऽर्पयामि । तामशङ्कमना गृहाण, यतः उभयोमिथोऽनुरागिणोर्नवयौवनयोयुवयोः परस्परविरहजं दुःखं कथं दद्याम् ?, यदिष्टानां वियोगः समेषामसहनीय एव भवति । स्त्रीणां चरित्रं मति ॥३२॥ Jain Education For Personal & Private Use Only l inelibrary.org Page #61 -------------------------------------------------------------------------- ________________ मतापि पुंसा दुःखेनैव ज्ञातुं शक्यते, इति पण्डितगणैरभाणि । तदेव परीक्षितुमेनामहमुदवक्षि नतु रिम्सया । अहमेतत्पाणिपीडनकाल एव निश्चिकाय निजस्वान्ते चेदियं केनापि पुंसा व्यभिचरिष्यति, तर्हि तस्मा एव जारपुरुषाय दास्यामेनाम् । पुरुषान्तरेण कथमेषा चातुर्येण मिलतीति दिदृक्षयैवैकस्तम्भे तत्र सौधे परैरंगम्ये तामतिष्ठिपम् , यद्यत्कामितमनया तत्सर्वमपूरयश्च । तथापि तेन विदुषाऽधिसभं यदभाणि-राजेन्द्र ! अद्यावधिस्त्रीचरित्रबोधिनीकला त्वया नैवाऽवेदि ' इति तदुक्तिं सत्यापयितुमहं यथा रमाकान्तो लक्ष्मीङ्कमलमध्ये स्थापयामास, तथा तां स्त्रियमुपयुक्तभवनेऽस्थापयम् । उक्तश्च- . कल्लोलैः सह पांसुखेलनतया लोलेयमित्याशया-देकस्तम्भसरोजसौधकुहरे सिन्धोः सुता शौरिणा । यन्मुक्तापि पितामहप्रहरके छेकेयमिन्दोः कर्निर्यात्यंशुकरैरुपैति च नमो नारी चरित्राय तत् ॥३४॥ ___ व्याख्या-यदलात्कारणादियं लक्ष्मीः कल्लोलैर्जलतरङ्गैरिव, पांसुखेलनतया-बालकर्तृकधूलिक्रीडनमिव लोला-चञ्चले4 त्याशयादभिप्रायाच्छौरिणा-विष्णुना एकस्तम्भसरोजसौधकुहरे एक एव स्तम्भो नालो यस्मिन् सैकस्तम्भः सचाऽसौ सरोजः कमलं स एव सौधः प्रासादस्तस्य कुहरे मध्ये मुक्तापि-स्थापितापि सिन्धोः सागरस्य सुता-पुत्री-लक्ष्मीः पितामहप्रहरके पितामहस्य ब्रह्मणः प्रहरे ब्राह्म मुहुर्ने छेका-चतुरेयं कमला इन्दोश्चन्द्रमसः करैः किरणैः सह निर्याति-निर्गच्छति, पुनः सायङ्काले अंशुकरैः सूर्याशुभिः सहोपैति समायाति च । तसान्नारीचरित्राय स्त्रीचरित्राय ज्ञातुमशक्याय नमो नमस्कारोऽस्तु । यद्यपि पण्डितोक्तं जात्वपि मिथ्यात्वं नो व्रजति तथापि तदुक्तोपरि विश्वासमकुर्वन्नीदृक्चेष्टमानामपि काश्चिद्विदुषीं नारी Jain Education international For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ चरित्रम् बीचम्पकमाला ॥३३॥ मानीय परीक्षणीयं तदिति मनसि निर्धार्य यद्वेदितुमेनामग्रहीषं तत्तु सर्वमेतत्प्रसादादबोधम् । अतः कृतकृत्यो भवनहमिदानीमेनां निरागिणीं त्वय्येवानुरागिणीं कथं भजेयम् , अनुरज्यामि वा कथम् । यतः-'प्रतिकूलतामुपगता नारी वैरिणीव पुमांसं व्यथयत्येव । मदीयपुराकृतप्रतिज्ञायाः सत्यत्वात्तावकाङ्गानि मदीयक्रोधावेशो न भजते । अर्थात्तवाङ्गच्छेदनादिदण्डं दातुं नेहते, नवा त्वां देशादस्मानिष्काशयितुङ्कामयते, नवा ते सर्वस्वमपजिहीपति, सुतरां मत्तो भीतिस्ते काचिदपि नैवोदेति। तस्मादेनामुपभुक्तामनुरागिणी स्त्रीं गृहाण, स्वगृहं याहि, सम्प्रति युवां युवानौ पुनरीदृशमकार्य माकृषाताम् । येन मार्गेण पुरा त्वमत्राऽऽगास्तेनैव गुप्तेन यथाऽनया साकं व्रज । यथा कोऽपि तावकमेतदकृत्यं मामकी क्षमाश्च नो जानीयादित्थमिष्टभिपन्निगदितवाञ्छितपथ्यमिव नृपालोक्तमभीष्टं मत्वा स सार्थवाहः शिवो गङ्गामिव तामुररीकृत्य निजापराधं क्षमापयित्वा राजानं नमस्कृत्य सुरङ्गमार्गेण तया स्वैरिण्या स्त्रिया सह स्वसदनमायातः। तत्रावसरे क्षमया पृथ्वीसमः, कनकगिरिवि दृढतरः, विनष्टाऽखर्वगर्वः, परमकारुणिकः साहसिकशिरोमणिः पृथ्विजानिरपि निजभवनमागात् । सकलसहायसमापन्नः प्रजाः परिपालयन् सुजनानामोदयन् खलान्निष्कुलीकुर्वन् जगज्जनानानन्दयन् सुखेन राज्यमचीकरदिति । श्रीसौधर्मबृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिप-श्रीराजेन्द्रजगज्जयिष्णुचरणाम्भोजद्वयान्तेसदा । एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे तृतीयः श्रीचम्पकमालिकीयचरिते प्रस्ताव एषोऽनघः ॥१॥ ॐॐॐॐॐ |॥३३॥ Jain Educati o nal For Personal & Private Use Only ainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ अथ चतुर्थः प्रस्तावः प्रारभ्यतेसत्याश्चम्पकमालायाः, सतीत्वस्य परीक्षणम् । प्रस्तावेस्मिंश्चतुर्थे हि, वर्णयामि सुविस्तरात् ॥१॥ अथैकस्मिन्प्रस्तावे कमलभृरिवाधिसभं सिंहासने सुखाऽऽसीनः स्मेरायमाणशारदशर्वरीशसहोदरवदनः, अतएव दाडिमीबीजानुकारिदन्तांशुकाशिताऽशेषाशो हास्यक्रीडनतत्परो मन्त्रिचतुष्टयपरिवृतः विक्रमार्कक्षितिपतिः पुरा सार्थवाहमुखाद्यथाश्रुतश्चम्पकमालायाः शीलमाहात्यमखण्डितं महाश्चर्यकारि तत्तेषां मन्त्रिणामग्रे वदितुमारभत । नृपोक्तं तदाकर्ण्य महाद्भुतमेतदिति चकितास्ते राजानमेवमवोचन्त-स्वामिन् ! नह्येतत्तथ्यं प्रतिभाति, सर्वथाऽलीकमेवैतन्मन्यामहे । यद्यपि शास्त्रकारः शास्त्रे सर्वव्यापिनः सर्वसिद्धिमतो ब्रह्मणो ज्ञानमिव स्त्रीणां चरित्रमपि दुर्जेयमित्याहुः। यथा वातिचपलानां मत्स्यानामालयानि जलानि न शुद्ध्यन्ति तथा चपलतरप्रकृतिकानां स्त्रीणां मनः शुद्धतां स्थैर्य वा कथमापद्येत ?, सर्वथैतदाकाशकुसुममेव प्रतीयते । भवानिव विशुद्धमना अखण्डितशीलशाली पुमान् यद्यपि कश्चिदन्यः सम्भवति, किन्तु निसर्गचपलाः कौटिल्यप्रियाः कामिन्यस्त्वखण्डितशीलाः कदापि नैव सम्भवन्ति । यद्यपि काचिदबला स्थानस्य प्रार्थयितुर्वा विरहान्निजपरिजनभीत्या ब्रीडया वा कायिकं वाचनिकश्च शीलमवत्यपि, मनस्तु तस्या अपि शुद्धं नैव जात्वपि भवितुमर्हति, तासां मनसा शीलपालनं शशधृङ्गतुल्यमेव जानीहि । यतः-'कामिनीनां चित्तमनरवतं चञ्चलमेव वर्वति ।' अतः स्त्रीणां त्रिकरणविशुद्धं Jain Education Intematonai For Persons & Private Use Only ww.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ श्रीचम्पकन चरित्रम् माला ॥३४॥ 4%A4%%ARSA शीलमसम्भवमेव सम्प्रतिकाले प्रतिभाति । तदुक्तम्स्थानं नास्ति क्षणं नास्ति, नास्ति प्रार्थयिता नरः। तेन नारद ! नारीणां, सतीत्वमुपजायते॥३५॥ . व्याख्या हेनारद ! नारीणां, स्थानं तद्योग्यसङ्केतस्थलं नास्ति न मिलति, क्षणं-समयो वा नास्ति, कोऽपि प्रार्थयिता नरो वा न मिलति तासामेव नारीणां सतीत्वमुपजायते तिष्ठति, नान्यथेति भावः। राजन् ! यथा मन्दुरायां प्रतिबद्धोऽश्वो मनसो विषयासक्तत्वेऽप्यगत्या शीलमवति, तथा या ललना मनसि विषयरिरंसायाः सद्भावेऽपि लज्जा भीत्यादिना शीलं पालयति । मनोयोग विना तस्याः शीलपालनं वास्तविकं भवितुं नार्हति, नवा शास्त्रोक्तं माहात्म्यं साऽञ्चति । सह मनसा या विषयसुखमनीहते सैव सतीत्वमुपैति, तादृशी तु कापि न दृष्टिपथमारोहति । किश्च यदभाणि प्रभुणा सार्थवाहस्य स्त्रीशीलप्रभावादेव कण्ठस्था चम्पकमाला न म्लायति, तत्कालनिष्पन्नेव भातीति तदपि विचारसहं न मन्ये, न वा तत्र तत्पत्न्या अखण्डितं शीलं हेतुः, किन्तु कस्याश्चिद्देवताया अनुभावादेव तत्कण्ठस्था सा विकस्वरा वरीवृत्यतेऽनवरतम् । निश्चयमेतदवेहि-यत्सा चम्पकमाला मुधैव मायया तादृशङ्कपटं विधाय भर्तारं तं सार्थवाहमवश्चयत । नूनं केनापि यूना कामुकेन स्वैरं रमते सा, यस्मात्-'ऐन्द्रजालिक इव मायाविनी कामिनी विचित्रमेव मायां विरचय्य पुमांसमविद्वांसं छलयति, सतीत्वञ्च प्रथयति । राजा जगाद-मत्रिणः! एवं मा वदत ? यदीयं सागराम्बरा रत्नगर्भा निगद्यते, अतएवाऽस्यां बहुला ललना यथार्थशीलपालिनी भवेच्चेत्किमाश्चर्यम् ?, अधुनापि यथा पुंसु कश्चिद्यथार्थाऽखण्डितशीलवान् विद्यते तथा नारिष्वपि कयाचिदाजन्मा ॥३४॥ Jain Education For Personal & Private Use Only P ainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ ऽखण्डितशीलवत्या किमिति न भाव्यम् ?, सत्येवं यदि यूयं तस्यां सार्थवाहपत्न्यां सच्छीलविषये संशेध्वे चेत्तदाशु परीक्ष्यताम् , परीक्षया सदसदभिव्यक्तिरवश्यं भविष्यति । सर्वेषां परीक्षा खलु तत्त्वमभिव्यनक्त्येव । यतः- वर्णमपि परीक्षणादेव सर्वेषां मूर्धन्यतामकलङ्कताच धातुमर्हति ।' इत्थं क्षितिजानिना निगदिते दुर्बुद्धिनिधयस्ते चत्वारो मत्रिणः प्रभोरादेशः प्रमाणमित्युदीर्य स्वस्वसदनं निन्युः । तदनु त्यक्तन्यायमार्गा अन्यायमार्गाऽपिताजयस्तथा वकवृत्तयस्ते चत्वारो मत्रिण उज्जयिनीनगर्या निर्गत्य परैरकम्पितायाश्चम्पापुर्या पौर्वापर्येण निजनिजस्तोकपरिवारयुता आगत्य पृथक् पृथक् स्थानेऽतिष्ठन् । तेषाम्प्रथमः कपटनीराम्बुधिमूलदेव नामा मन्त्री तत् सार्थवाहगृहाऽभ्याश एव कस्यचिदेकस्य वृद्धस्य पुंसः सदने भाटकेनोदतरत् । तत एकामतिवृद्धां दौत्यकर्मठां नारी | दानादिना वशीकृत्य सर्व शिक्षयित्वा स्वार्थसिषाधयिषया चम्पकमालायाः पार्श्व प्रेषीत् । सा कुलटा तदन्तिकमागत्य तामि-15 स्थमभ्यधादेकान्ते-बाले! तव भर्ता चिरकालतः परदेशे तिष्ठति, भूयांश्च कालो यातः, परन्तु नायातः, त्वन्तु तडिद्गौरवर्णा सुतारुण्यपूर्णा रतिरिव सकलललनासौन्दर्याऽखर्वगर्वजित्वरी, दृश्यसे, हा हा !! कथमीग्रूपलावण्यतारूण्यमधिगता त्वमिदानीमेकाकिनी तद्विरहं सहसे?, या खलु साधारणी रमणी तामपि पतिविरहो दुर्वहं दुःखं नयते, तर्हि सुदक्षविदग्धकामिनीजनमूर्धन्यां नवयौवनां त्वां भर्तुर्वियोगः परितापयेदत्र किमाश्चर्यम् ?, सुन्दरि ! तव भर्त्तापि लोभिनामग्रेसर एव प्रतीयते । यतः श्रीमान् सन्नपि धनार्जनकृते त्वां सर्वथा विस्मृत्य पृथिव्यां यत्र तत्र पर्यटति । कमलायामकान्तमासक्तचेतास्ते भर्ता यत्र कुत्र बम्भ्रमीति चेदन्यामप्यासक्तो भवेदेव शठत्वादितिहेतोस्तत्र भर्तरि तवेदृशी गाढप्रीतिः प्रतिबन्धो वा घटते किम् ?, यश्चाऽन SAX55A5% Jain Education international For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ बीचम्पकमाला ॥३५॥ ङ्गपञ्चाननातिभूषणे यौवनमहाकानने त्वामेकाकिनीमबलामजहात् । गतवांश्चान्यत्र तर्हि तदन्यः शठश्च को नाम द्वितीयो निगद्येत । अत एव सुमुखि ! तदनुरागं विजहाहि ?, हितं मद्वचः शृणु ?-त्वन्मनोऽनुकूलेन केनचिदनुरागिणा यूना पुंसा सत्रा स्वैरं विहर, यौवनश्चादः सफलं कुरुष्व । भोगं विना निरुपममपीदं तव यौवनं नूनमाकाशकुसुममिव मुधैव याति । यथा 'पुंसां प्राधान्येन सुखसाधनं कामिनी वर्तते तथैव योषितामपि तदसाधारणं साधनं पुमानेव भवति ।' तदाह कश्चित्कविः प्रत्यागमिष्यति भविष्यति सङ्गमो नौ, संदृश्यते च भवतो हृदयेऽनुरागः।। एषा गता न पुनरेष्यात जीवितेश ?, विद्युद्विलासचपला नवयौवनश्रीः ॥ ३६ ॥ व्याव्या-हेजीवितेश ! भवान् प्रत्यागमिष्यति-देशान्तरात्परावर्त्यति, ततो नौ-आवयोः सङ्गमो मेलनमपि भविध्यति, तत्र मनागपि नैव संशये । यतो यस्माद् भवतस्तव हृदये मनसि ममाऽनुरागः संदृश्यते-विलोक्यते, किन्तु एषा इयं विद्युतस्तडितो विलास इव चपलाऽस्थिरा नवयौवनश्रीः गताऽतीता सती पुन वैष्यति, अतएव यौवनश्रियमुपभोगेन सफलीकृत्वैव विदेशं याहि ।। तादृशः श्रेयान् गुणवान् पुमान् दृशं न रोहतीति तु नैव वाच्यम् ?, यथा त्वं सुष्ठुश्रीः सृष्टौ गुणै रूपैस्तारुण्यैरेकासि तथा पुमानपि कश्चिदस्त्येव, इति तथ्यमवेहि । यः खलु गुणवानस्ति, सपुमानवश्यमेव गुणगणमण्डितसज्जनसङ्गत्यै स्वयमेव प्रवत्तते, नहि कस्यचिन्नोदनमपेक्षते, सब्जिगंसया कमलिनीम्प्रति केनाप्यप्रेर्यमाणो हंस इव । गुणवतां तादृशी प्रकृतिरेव Jan Education For Persons & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ वर्त्तते, यया गुणिना सन्ङ्गन्तुं स्वयमेव प्रवर्तते गुणवान् , अन्यदाऽऽस्तां तावत् । सुभगे ! गुणवता सङ्गत्यै बदुदूरतोऽपि गुणी समायाति । अतः गुणवत्या भवत्या सजिगंसां वहन् महीयानुजयिनीतः कश्चिदत्र महामत्री समायातः । तदाह गुणिनि गुणज्ञो रमते, नाऽगुणशीलस्य गुणिनि परितोषः। अलिरेति वनात्कमलं, नहि भेकस्तत्र संस्थोऽपि ॥ ३७ ॥ व्याख्या-गुणाञ्जानातीति गुणज्ञः-गुणग्राही जनो गुणिनि-गुणवति जने रमते दृष्यति, अगुणशीलस्य नास्ति गुणस्यशीलं यस्मिस्तस्य निर्गुणस्य गुणवति परितोष: प्रीति!देति, यथा अलिभ्रमरो बनाद्वनं विहाय कमल-सरोज प्रत्येति समायाति तत्र सौरभ्यगुणस्य सत्वात् , तत्र जले तत्रैव स्थाने संस्थोऽपि भेको मण्डूको नैति, कमलगुणानभिज्ञत्वात् । स च राजमंत्री कामुको युवा सकलकला विद्वान्महीयान् पुमान् काश्चिदद्भुतामेव सुषमा धत्ते । रूपेण साक्षान्मदन इव चकाशन महाचतुरशिरोमणिमधुरालापी, मांसलाऽवयवः, सचिह्नचिह्नितमुकुटमण्डितो मूलदेवाभिधानः सुराचार्य इव मतिमान्, विक्रमार्कनरनाथकुलपम्परागतवर्तमानमन्त्रिगणगरीयान् ,। विक्रमराजस्य प्राधान्येनाऽभिमतः, कदाचित्कस्यचिजनस्य मुखेन तावकीनलोकोत्तरस्फारजगत्प्रसारगुणावलीमाकर्ण्य भवत्या सङ्गन्तुमत्युत्सुक इहागतोऽस्ति । तेनैव मत्रिणा स्वाशयं त्वामभिधातुमहं तवान्तिके प्रेषितास्मि । यस्मादत्युग्ररागवान्महान्मतिवान् पुमान् निजाशयं कस्याप्यग्रे प्रकटयितुं नो शक्नोति । तदनुरूपं भाग्यस्य सौन्दर्यस्य च निधानं महता पुण्योदयेन प्राप्यं तमागतं मत्रिवरं सेवस्व, तत्संयोगेनाऽनघमिदं यौवनं स च राजमंत्री कामका धारालापी, मांसलाऽवयवः समान, विक्रमराजस्य प्राधान्यनाता तेनैव मन्त्रिणा Jain Education For Personal & Private Use Only Kajainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ वरित्रम् श्रीचम्पक माला ॥३६॥ साफल्यं नय?, किमधिकं निगदामि-सकलसीमन्तिनीजनमनोमोहनदक्षिणेन सततसौख्यकारिणा तेन साकं या कामिनी नास्त तस्या यौवनं वन्यङ्कसुममिव मुधैव जानीहि । यदभाणि| समुपागतवतिदैवादवहेलां कुटज! मधुकरे मागाः।मकरन्दतुन्दिलानामरविन्दानामयं मान्यः॥३८॥ . व्याख्या--हे कुटज ! दैवाद्-भाग्यात् समुपागतवति-निजसदनमायाते मधुकरे भ्रमरे अवहेलामनादरं मागाः मा कार्षीः, यदयं मकरन्दतुन्दिलानाम्-कुसुमरसैराढ्यानाम् , अरविन्दानाम्-कमलानां मान्य मानार्हः भवतीति भावः। | दूतीकथितमतिगर्दा वृत्तं निशम्य सा सती मनसि दध्यौ-यदेनं व्यसनासक्तमुन्मत्तमधर्म मत्रिणं धिग् धिगस्तु । हन्त ! कथमेनमनीतिपरायणं मत्रिपदे न्ययुक्त ?, यो हि पुमान् सदाचारी न्यायपथानुचारी भवति तादृश एव जने तादृशाधिकारः शोभां दधाति । तदनहपुरुषे सोऽधिकारः प्रदातरज्ञतामेव व्यञ्जयति । यद्यपि विक्रमो राजा सदाचारी परोपकारी न्यायविच्छुयते, परमीदृशमकृत्यकर्तारं यदकरोन्मत्रिणं तेन तस्मिन् सन्तमपि सदाचारित्वादिगुणगणं कथङ्कारं महीयाञ्जनो विश्वसितुतमाम् ?, तन्मन्ये कुलपारंपर्येण मोहादथवाऽमुष्य खलताऽज्ञानतादिदुर्गुणजिज्ञासयाऽथवा तीव्रमतिमत्वादेनं मन्त्रिपदे नियुक्तवान् । असौ बहुदूरदेशे निवसन्मयि स्वमेऽप्यदृष्टायां कथं रागवानजायत ?, अशृणोद्वा कथमदृष्टामतिदूरवर्तिनी मामयम् , अथवा व्यवसायस्य हेतोरुज्जयिनीमीयिवान् विशुद्धधीर्भर्त्ता निरन्तरं राजसभायां गमागमौ विदधदासीत् , तत्रैव मदखण्डितशीलज्ञापिकां मत्पत्युरधिग्रीवं स्थितामम्लानामनवरतविकखरां मालामालोकमानः क्षितिपतिस्तत्परीक्षायै कौतुकादमुमत्राधमं ॥३६॥ Jain Education a l For Personal & Private Use Only l ainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ प्राहिणोत् ?, यथा विधुन्तुदो विधोः पूर्णा कान्ति न सहते, पवनो वा मेघौन्नत्यं चिखण्डयिषति तथाऽऽयमपि प्रकृत्याऽनार्यधीरयं मन्त्री मामकं सतीत्वं भक्तुमिहाऽऽयातोऽस्ति, किन्तु तद्भक्त्तुङ्कदाचिदप्येष नार्हति, महाभोगिभोगस्थमणिमिव । स्वप्नेप्येष मदमूल्यरत्नप्रायमिदं शीलं विहन्तुं नैव प्रभविष्यति । अत इदानीमस्यै दूत्यै तदीयदुराशयलक्षणं महागदशान्ति करिष्यन्त्या मया तदनुकूलमेवोत्तरं दातव्यम् । नूनमेष यौवनधनाधिकारलक्षणत्रिदोषदृषितोऽजायत, अतएव तदुद्भूताभिमानादुन्मत्ततया मामीदृशमयोग्यं दृतीमुखेन निगदन्मद्वाक्यरूपमहौषधं निपीयाऽपि हृदि विवेकलक्षणं पाटवं मनागपि धर्तुं नार्हति । यतोऽयं सन्निपातो महीयान् रोगः कठिनतरचिकित्सया विना जात्वपि तं नैव हास्यति । यतःसम्यगाचर्यते यावन्नाऽनुरूपा प्रतिकिया । तावन्नेवाऽऽमयो याति, प्रतिपक्ष इव क्षयम् ॥ ३९॥ व्याख्या-यावत् अनुरूपातदुचिता प्रतिक्रिया-प्रतीकारः सम्यक् विधिवत् नाऽऽचर्यते-न विधीयते, तावदामयो रोगः प्रतिपक्षः-शत्रुरिव क्षयं नाशं नैव याति-ब्रजति । अधुनैवाऽऽत्मीययथार्थमभिप्रायमहं बोधयानि चेदसौ दुर्धाः प्रतिबोधं नैवाऽधिगमिष्यतीति तदुचितफलं दर्शयित्वैव स्वाभिप्रायः प्रकाशनीयः । इदानीन्तु तदुचितमाययैव वञ्चनीयस्तोषणीयश्च । यसादवसरे समुपस्थिते च सङ्कटे प्राश्चोऽपि महाजनाः कापट्यं विदधिरे, 'यथा त्रिभुवनपरितापिनो बलेर्वञ्चनाय विष्णुर्वामनतामियाय । ' इत्थं निश्चित्य सा सतीमतल्लीका चम्पकमाला ता दूतीमित्थमारेभे निगदितुम् । दूती ! अतीवसम्यगभूत , यदधुना त्वमत्र समागतवती । स्त्रीणां मनस्तु प्रायः सदैव मीनकेतनबाधितमिव तिष्ठति, Jain Education For Persona & Private Use Only ainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥३७॥ &ा तां बाधां निरसितुं भिषगिव भर्तृसान्निध्यमेव कल्पते । या खलु चिरविरहिणी वर्त्तते कामिनी, सा तु प्राणान्तकरीमेव तत्पीडां सहते, तातप्यते च तस्याः सर्वगात्रम् । ग्रीष्मत्तौ वल्लीव कथमपि लोकलजां कुलाचारादिसमुज्झितुमक्षमा दिवानिशमसहनीयं क्लेशमनुभवामि मदनशरनिकरव्याविद्धहृदया। किमन्यत् , दवदहनसन्तप्ता हरिणीव निदाघेऽतितप्तसिकतानिपतिता मत्सीव मदनबाधया व्याकुलीकृताहमेकदाचिन्तयमित्थम्-यन्मे भर्ता मां विहाय लोभाद्देशान्तरे तिष्ठति, सदने कदापि न समायाति, तर्हि कियन्तं कालं दुर्वहेयं प्राणान्तादप्यधिका कामपीडा सोढव्या ? । अतो मया कश्चिन्महाकामी बलीयान् सकलकलावान् युवा विषयदहनदाहप्रशमनपटीयान् गवेषणीय इति निर्धार्य चिरादेतद्विधित्सया समुत्सुकाऽहमासमेव, परमद्य मदीयसुकृतनिचयसमाकृष्टा तदभीष्टसाधनी त्वमिहाऽऽगतैव मदभ्याशे । मातः ! सकलजनहितैषिणी शुभकार्यसमुत्पादिनी परोपकृतिविधायिनी भाति भवती, अतो मामुपकुरुताम् । ममाऽऽसीदेवैतद्विधातुं महती चिन्ता-यत्कश्चन गुणवान् सरसो युवा मिलेत्तेन सत्रा स्वैरं सुखमनुभवेयमिति । परमद्य तां चिन्तां पवनो धूलीपटलमिव त्वमनीनशः, किश्चाऽऽलवालारोपितो वृक्षस्तन्मूले जलसेकादरं वृद्धिमुपैति, नवपल्लवितश्च सम्पद्यते यथा, तथा कुल्यातुल्या हृदयालवाले स्थितं मामकमनोरथलक्षणममुं तरं तत्पुरुषसमागमनवार्त्तया सुधयाऽभिषिच्य नवपल्लवितमकृथाः। किमधिकालापेन, यथा निदाघे सूर्यसन्तप्तां सागराम्बरां मेघमाला प्रीणाति, तथैवाजागता त्वमिदानी चिरविरहिणी विषयसन्तप्तां मां शशिनः कलेव सुशीतलामकाः । तेन पुंसा साकं सङ्गन्तुं मनो मे नितरामौत्सुक्यं धत्ते, समुत्साहि च वर्वति, तथापि कस्यचित्कार्यस्य हेतोः किञ्चिद्विलम्बयिष्ये । अद्यतनदिवसाच्चतुर्थे दिवसे तमागतं मत्रिणमेकाकिनं निशायाः प्रथम प्रहरेत्र प्रेषयः । यथा लोकेऽ ॥३७॥ Jain Educatio n For Persons & Private Use Only Sr.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ र्थमन्तराभोग्यसामग्री न सम्पद्यते, तथा दानेन विना तस्यौदार्यपरीक्षापि नो जायेत ?, इति प्रेम्णो दानमेव प्रथममाहुः शास्त्रे पण्डिताः । अतः प्रागेव लक्षदीनारान्मे प्रेषयतु, त्वया हि सर्वमेतत्तमाचक्ष्व ?, मया सङ्गन्तुमुत्सुकं तमाश्वासय शीघ्रम् । इत्थं श्रुत्वा सा दूती तं मत्रिणं सर्वमवोचत । तच्छत्वा सोऽपि स्वं कृतार्थं मन्यमानः प्रामोदत । इतश्च शेमुषीखनिकल्पा सा सती गृहान्तः क्वचिदेकत्र कोणे धान्यस्थापनव्याजेनैकान्तोपवेशनस्थले नीचस्तमं गर्त्तमेकमचीखनत् । तत्र च दयाशालिनी साऽधस्ताद् गाङ्गेयं सैकतं निपात्य बहुलकोमलमचीकरत् । तदुपरिष्टाच्च सूक्ष्माऽऽमतन्तुस्यूताऽऽस्तरणसुसज्जितं निर्मलरमणीयवसनविभूषितं पल्यङ्कमप्यतिष्ठिपत् । अथ तदिने यथोक्तसमये प्रेषितलक्षदीनारः कामदेवमहागदोद्दीपकः, कुपथ्यवेषधारकः, कर्पूरवालुकलबङ्गादिमिश्रितताम्बूलपूर्णवदनः कस्तूरीकाश्मीरकर्दमप्रलिप्तगात्रः, पुष्पधन्वनश्चापतुल्यया सुमालया विभूषितग्रीवः, कस्तूरीप्रमुखलेपसुरभीकृतश्मश्रुः, सुरभिविशिष्टधूपसुवासिततनुवासाः स मत्री रजन्याः प्रथमे प्रहरे तस्याः सत्याः सदनमागात् । तत्रैवावसरे तया कराङ्गुल्या दर्शितशय्योपरि प्रमत्तकल्पो मत्री सदसद्विवेक | विनैव त्वरया यावदुपविशति तावत्तदीयमनोरथेन सहैव पल्यकोपर्यास्तीर्णतन्तुस्तोमे त्रुटिते सहसैव स दुर्मित्री तदधस्तान्महागर्ने पपात । अथैवमन्येऽपि विक्रमादित्यभूपतेर्मत्रिणः सहस्रदेव-श्रीसार-बुद्धिसार-नामानस्त्रयोऽपि प्राक् तत्रागत्य तथैव दूत्या चम्पकमालां निजनिजाशयं व्यजिज्ञपन दूतीमुखात्तदादिष्टसमयमवगत्य तस्यामेव त्रियामायां क्रमशः द्वित्रिचतुःप्रहरेषु तदालयमीयुः। प्रथमवदेतेऽपि तत्पल्यकोपर्युपवेशनानन्तरमेव तदधस्तात्कृतमहागर्ने निपेतुः, तज्जाने चिरविप्रयुक्ता मिथः सन्जि Jain Education ! For Personal & Private Use Only Pdiainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥३८॥ गंसया समुत्सुका इव मिमिलुः । अथ तत्र गर्ने ते चत्वारो निपतिता अतिसूक्ष्मसैकतमालोकमाना मिथ इत्थमालेपुः-अहो! नूनमेषा सतीमतल्लिकास्ति, दयालुताप्यस्या महत्येव वर्त्तते, यदनया महागर्ने घोरनरकोपमे नो निपातयन्त्याप्यङ्गानि नाऽभनक् । यदत्र गर्ने निपततां नः प्रथममतिक्लेशो जायते, परमायतावेतल्लाभकारि शिक्षणमेव भविष्यति । अमुया सत्या यदकारि नो दुर्दशेयं सापि शिक्षैव मन्तव्या । यतः सती प्रकाण्डेयङ्कीदृशी मतिमती वर्त्तते, कियच्चास्याश्चातुर्यमस्ति, सर्वथा सद्भिः कविभिः प्रशस्यतमा भाति, यस्मान्मतिवैशद्यशालिनोऽप्यस्मांस्तथा छलयामास बालिशानिव निजातुलचातुरीकला कल्पनया, यथा खलु दीपके निपतन्तः पतङ्गाः स्वदोषेण भस्मीभवन्ति । तथा वयमपि विषयपरिपीडिताः कामकिङ्करतामुपनीतास्तया चतुराणामग्रेसरया च्छलिता घोरनरकाकारे नीचैस्तरे गर्तेऽस्मिन्नपताम । अतोत्र महागः निपतितान् दुर्मदैर्दुर्दमान् महागजानिव विषयाऽऽशारुनष्टज्ञाननयनान् मदोन्मत्तानस्मानस्तु धिक् शतशः। मांसपिण्डचिखादयिषया दुर्धियां मीनानां गलबन्धाद् दुर्दशा यथा जायते तथा विषयपलाशनगृध्नूनां दुर्थीशिरोमणीनां मादृशामीदृशीदुःस्थितिरुपतिष्ठेत, तत्र किमाश्चर्यम् । Pा तेन हेतुना गुणवर्णाभ्यामेष विषयो विषादप्यधिको जागर्ति, यतः-विषं तु भक्षितं सदेव परिपीडयति लोकान् , अयन्तु दर्शनादिनाऽपि जनानधिकं परिभवति । हन्त ! सत्या अमुष्याः शीलपलमशितुं गृनात्मताङ्गता वयमत्राऽऽगताः परन्तु | दुर्दैवयोगादपूर्णमनोरथा मध्य एवेदृशां शोच्यां दशामुपगता अभूम, कूपोपमेऽस्मिन् गर्ने नः पुराकृताऽशुभकर्माण्येव न्यपातयन् , भीषणे नरके नारका जीवा इव वयमत्र गर्ने यावज्जीवं कथं स्थास्यामः ?, यावदन्यं किमपि न ब्रूयाम तावदज्ञातैतडु- 1 ॥३८ ॥ Jain Education For Personal & Private Use Only T ejainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ देशान् संलन्धकुकर्मफलकान् कश्चिद्दासेयादिरपि कथमत्र संशोधयेजानीयाद्वाऽविदितः सः १, यथा खलु सागरे महाऽऽवः पतितायाश्चक्रवत्तत्रैव भ्रमन्त्या नाव उद्धारः कर्तुं न पार्यते, तथा गर्तादमुष्मादस्माकमुद्धृतिरपि भाति, इत्थं मिथ आलपन्तश्चिन्ताऽऽतुराः शोचन्तस्ते तत्रैव गर्तेऽगदनीयं दुःखमनुभवन्तः क्षुत्तृषाक्रान्ता अतिष्ठन् । ततः प्रत्यहं शिक्येन मृण्मयपात्रे कोद्रवादिकदन्नं भोजनाय निक्षिप्य जलश्च कमण्डलौ निधाय भो मत्रिणः! सावधाना भवत, भोज्यादिकं गृहीत ? इति व्याहृत्य सर्व खाद्यपेयादिकं ददाना सती तानरक्षत् । यस्मादुपोषणमिव लघ्वशनं गुणकारिभिषजाङ्गणैय॑गादि ।' तस्मादेव हेतोरल्पाशनेनापि शरीरमवन्तस्ते मत्रिणः मुमुदिरे । इत्थं मिथो भृशमनवरतं शोचन्तः, पशव इव तत्रैवाऽनन्तो विसृजन्तश्च मलमूत्रादिकं कायिकङ्कष्टमपि दुर्वचं सहमाना, रसत्यागादितपोऽपि भावमन्तरा समाचरन्ते । दीनाननाः सम्प्राप्तपारतन्त्र्यास्ते चत्वारो मन्त्रिणः पल्योपममिव पण्मासांस्तत्र गर्ने महता कष्टेन व्यत्यैरन् । __अत्रावसरे कमपि शत्रुञ्जित्वा गगनधूलिसार्थवाहेन सत्रा राजा विक्रमादित्यः ससैन्यस्तत्र चम्पापुर्या समाययौ । ततो *राज्ञ आज्ञया सार्थेशः स्वसदनमागात्तदावसरे सम्प्राप्ते सा सती मत्रिकथामशेषां निजभर्तारमाचक्शौ । राजापि यावत्पूर्व चम्पकमालाशीलपरीक्षायै ये मत्रिणः प्रेषितास्तान् स्मारं स्मारं तच्छुद्धिकृते समुत्सुकोऽभूत् । तावद् बुद्धिखन्या सत्या निजस्त्रिया प्रेरितः सार्थवाहः सबलं राजानं निजगृहे भोजनाय निमन्त्रयामास, तस्याग्रहाऽऽधिक्यान्नृपोऽपि तद्वचो मेने । ततस्तदुचितनानाविधभोज्यसामग्रीसम्पादनाय सोद्यमः स निजनिकेतनमायातः । असौ खलु पक्वान्नादिनानाविधभोजनसामग्री गुप्त्या परकीयभवने समपीपचत् । तदा क्षितिपतिरप्यतुष्यत्, व्यचिन्तयच्च-यदिष्टङ्कार्यमत्रावश्यमेव सेत्स्यति, यदमुना 25-25 Jan Education For Persona & Private Use Only www.janelibrary.org Page #74 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥३९॥ सार्थपतिना सम्पादितां भोजनसामग्री तदालयं समेत्य ससैन्योऽहं भुञ्जीयेति युज्यते । सार्थवाहो यद्यपि सबलमेव मा प्रमोदातिरेकाद् भोजनाय न्यमन्त्रयत, तथापि तावतीः सामग्रीः सम्पादयितु स कदापि न शक्नुयादित्यवधार्य मतिमान् राजा कमपि निजसेवकं तत्र सदने प्राहिणोत् । सोऽपि तदीयसदनमागत्य, ततः परावृत्य राजानमित्याचख्यौ-खामिन् ! तस्य निकेतने सामग्र्याः का कथा ?, पाकशालायां धूमोऽपि नालोकि, तदनुचराश्च निश्चिन्ता एव ददृशिरे, किमन्यद्वदामि-एकः शिशुरपि यावद् भुञ्जीत तावत्यपि सामग्री तेन नाकारि, पुनः कथमेष ससैन्यं श्रीमन्तं न्यमन्त्रयत?, इति सेवकोदितमाकर्ण्य क्षमेशोऽपि तत्कालमेव क्रुधा जज्वाल, अभ्यधाचैवम्-अहो ! यदेष ससैन्यं मां निमन्त्र्य किमप्यकुर्वन् निरुद्यमस्तिष्ठति ? । तेनाऽनुमीयते यदसौ महाधूर्तोऽस्ति, अथवा किमेष घातकः?, वञ्चकोऽलसो वा ?, योऽस्तु सोऽस्तु । सपरिवारोऽहं तदालये समागतायां वेलायां भोक्त्तुं व्रजिष्यामि, सामठ्या विना कथमेतान्मे परिवारान् भोजयतीत्यपि द्रक्ष्यामि। । अस्मिन्नेवावसरेऽस्थिचर्मावशेषांस्तान् गर्तस्थान मन्त्रिणः स्वस्त्रिया शिक्षितः सार्थवाह आह खल्वेवम्-मन्त्रिणः! मदादेशमसंशयं यूयं करिष्यथ चेद् युष्मानहं नरकाद् घोरान्धकाराज्जीवानिवाऽवश्यमुद्धरिष्यामि गर्तादमुष्मात् । लेशतोऽपि ततो विपरीतं करिष्यथ चेदत्रैव गर्ने पुनर्निधास्यामि । तदुक्तिमाकर्ण्य ते समृचिरे–भो रभयप्रद ! यथा निगदिष्यसि तथैवाऽऽचरिष्याभि, तदुल्लंघनं नैव करिष्यामो वयमिति तथ्य जानीहि, परन्त्वस्माद् गर्तात्तूर्णमेव चिरपरिभुक्तपापफलानतिदुःखितानस्मानुद्धर । त्वं महीयसामपि श्लाघ्योऽसि, समेषां नमस्योऽसि, यतस्ते सतीमतल्लिकेयं विदुषी प्राणवल्लभा विधिनाऽकारि। अथाचिरादेव तन्मध्यात्तानिष्काश्य शुद्धेन वारिणा सुनप्य तेषाङ्गात्रेषु सकलेषु रक्तचन्दनं कर्पूरादिसुरभीकृतमलिप्त । ॥३९ Jan Education For Persona & Private Use Only jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ ततस्तान् यक्षानिव तद्गात्रेषु यक्षकर्दममनुलिप्य बहुविधैः कुसुमैः संशोभ्य महतीर्मालाञ्च परिधापितवान् । ततस्तान् गृहमध्यभागे स्थापयामास, तत्सन्निधौ ताः सकलाश्च भोज्यसामग्रीः स्थापितवान् । पुनस्तेभ्य एवं शिक्षामप्यदात्-समागता लोका यदा वः पश्येयुस्तदा भवद्भिर्देवैरिव निमेषशून्यैरेव भाव्यम् । भोजनार्थ निजनिजासने नृपालादिलोकेषु सकलेषु समुपविष्टेषु या या भोजनसामग्रीस्त्वत्तः प्रार्थयेय तास्ताः सत्वरमेव दातव्या, भवद्भिर्मनागपि विलम्बो नैव कार्यः, ततोऽहं वो मोक्ष्यामि, वैपरीत्यकरणे तु कदापि नो मोक्ष्यामीति सत्यं वदामि । इत्थं सार्थवाहोक्तमशेषमपि ते सहर्षमुररीचक्रिवांसः । तदनन्तरं सार्थवाहो नृपान्तिकमेत्य नमस्कृत्यैवमभ्यर्थितुमारभत स्वामिन् ! नीतिमतां श्रीमतामद्वितीय ! सम्प्रति भोजनवेला समायाता, अतः श्रीमत्प्रभुचरणाः सपरिवारा ममालयमागत्य पुनन्तु, तदा निसर्गान्महौजा विडोजा इव शोभामावहन् सत्यपि सन्देहनिकरे दाक्षिण्यचेता राजा ससैन्यस्तस्यावासमुपेयिवान् । तत्रावसरे गृहद्वारमुपागते राजेन्द्रे सुरभीकृतैः कुङ्कमाक्तैस्तण्डुलैः सुरभिसुमैः सुवर्णमौक्तिकैश्च सार्थवाहपत्नी नरपालमभ्यर्च्य वर्धापयामास । ततो राजेन्द्रमुच्चैस्तरे शुभासने मनोहरे समुपावेश्य शतपाकादिमहासुरभितैलं तदङ्गे मर्दयामास यथास्थानं लघुमध्यमोत्तरहस्तव्यापारेण राज्ञः सर्वगात्रं समर्थ तन्मनः प्रासीसदत् । ततस्तदङ्गे यक्षकर्दमादिविशिष्टञ्चूर्ण विलिप्य पश्चादुष्णोदकेन स्नपयाञ्चक्रे । तदनु स्वच्छेन पेशलकौशेयेन वसनेन तदङ्ग निर्जलीकृत्य, कर्पूरकस्तूरिकादिमिश्रितचन्दनं राजाङ्गे सुलिप्य, कर्पूरागुरुदाहजातसुरभिधूपेन तदीयं सीमन्तं धृपयित्वा, सुरभिप्रत्यग्रसुमजातमालया विभूष्य गङ्गावारिमिश्रितयामुनं कल्लोलमिव चूडामवघ्नात्स सार्थवाहः। ततो जातिमत्स्वर्णवर्णकास्मीरजकेशरकर्दमेन भाग्य For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ चरित्रम. श्रीचम्पकमाला ॥४०॥ लक्ष्म्याः श्रेष्ठपट्टोपमे नरपालविशालभाले तिलकं रचयाञ्चके । तदनु नृपस्य मनः सदने निवसन्तीनां धीहीश्रीणामान्दोलनाय झूलनखट्वेव कण्ठार्पिता सुमाला शुशुभेतराम् । तदनन्तरं यत्र यक्षीकृता मन्त्रिण आसन् , तत्रैव सदने राजानमसावनयत् । मुधा यक्षीकृतांस्तान्मन्त्रिणो नमस्कृत्य सार्थवाहोऽभ्यधात्-भो यक्षाः! एते मे प्रभवः सपरिकराः भोजनाय समुपागताः, अतो यूयं तूर्णमेव तत्परिवेषणाय सामग्रीः समर्पयत । अथ तेऽपि कृत्रिमयक्षास्तत्कालमेवाऽगणितानि तदर्हासनानि स्वर्णमयानि राजतानि च स्थालानि लघूनि गुरूणि च पानपात्राणि कल्पतरव इव तस्मै ददिरे । तदनु सुपक्वान्यतिमिष्टानि द्राक्षाङ्कोटाऽक्षोटजम्बीराऽऽम्रादिदिव्यानि राशीकृतानि फलानि तिरस्कृतामृतस्वादूनि, सुकोमलानि माधुर्यभराणि घृतपूराणि शष्कुलीः, अपूपान् सिंहकेशरियामोदकान् प्रीतिकरान् खर्जादिमिष्टपदार्थान् , पुजीकृताऽमृततुल्यरसान् कमनीयतमान् शर्कराधृतचूर्णपूर्णपाचितान् संपूर्णचन्द्रमण्डलाकारान् घृतपूरान् , तथा स्वादिष्टविशिष्टाधिकघृतपाचितविविधपकानादिसरसरुचिकरपदार्थान् वितेरुस्तस्मै । पुनस्ते बहुवर्षीयाऽतिसूक्ष्मसुरभिशाल्योदनान सूपांश्च भुजानांस्तान् पुलकाञ्चितान् कत्तुं दाक्षिण्यवहान् , सुरभीणि नूत्नानि पौष्टिकानि प्रभूतानि घृतानि, विविधान् नृपाशनार्हबहूञ्छाकान् दत्तवन्तः। ततस्ते लवङ्गैलाजयपत्रादिसुरभिमयताम्बूलपूर्णमनेकं पात्रम् , कङ्कोलादिचूर्णम् , पूगीफलानि नानाजातीयानि, बहूनि दुग्धानि शर्करा मिश्राणि, दधीनि चातिपिच्छलानि, तावन्ति चीनांशुकानि राजार्हाणि, दिव्यानि नानाविधाभरणानि चाहमहमिकया समर्पितुं लग्नाः। ये ये पदार्थास्तत्रावसरे रिक्ततामुपगतास्ते पुनरपि गुप्तरीत्या गूढचारिपुंभिरानीय तत्सन्निधौ स्थापिताः। अथैतत्प्रदत्तविविधातिस्वादुपदार्थान् यथाकामं भुजानः ॥४०॥ Jain Educatio n al For Personal & Private Use Only A w.jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ सपरिवारः क्षोणीपतिढं प्रससाद । ततस्तत्सदनान्तः कल्पतरूनिव मनोवाञ्छितफलदातृन्, तत्राधिष्टातृतया संस्थितांस्तांन् यक्षीकृतानालोक्य मनसि चमत्कृतो राजा दध्यौ-अहो ! एप सार्थेशो भाग्यवानस्ति यदस्य दासेर इव वशम्बदीभूय सर्वान् कामानमी यक्षाः सदैव पूरयन्ति, यद्यदादिशत्यसौ तदशेष सम्पादयन्ति च । यस्य पुंस ईदृशा वश्यास्तिष्ठन्ति देवाः स शतसहस्रादीनपि भोजयितुं कथं पाचयेन्नाम ? दुरवस्थानलक्षणद्विपविभञ्जनपश्चाननकल्पाः सकलमनोरथावाप्तिकृते कल्पशाखिन एते यक्षा यदि मम गृहे || तिष्ठेयुस्तहि कृतार्थः स्यामहमपि । अतएव भोजनानन्तरमेतान् यक्षान् सार्थवाहं याचिष्ये ?, यद्यप्येते सर्वथाऽदेया एव सन्ति, तथापि स औदार्यात्स्नेहादेश्चावश्यमेव दास्यति, कदापि याचनां विफलं न करिष्यति । एतेषां यक्षाणां प्रभावाल्लोकेभ्यो यथेष्टनानाविधसुभोजनप्रदानेन जगत्यामखण्डं यशःप्राप्स्यामि । परन्त्वहं राजास्मि, अयन्तु सेवकोऽस्ति, अतएनमहं कथं याचेय ?, यतो हि ' महतां मादृशां सेवकम्प्रतियाचनमवश्यं लघुत्वस्यैव हेतुर्भविष्यति ।' यदुक्तम्याचनं महतां तत्र, लघुता कारणं ध्रुवम् । ततो न याचितव्यं हि, जात्वाप भ्रमतोऽपि वा ॥३८॥ व्याख्या-अत्र संसारे महतामुन्नतानां पुंसां याचनं-याचा लघुतायाः कारणं ध्रुवमवश्यं भवति, अर्थात्-याचनान्महीयानपि लघीयान् भवति, ततस्तस्मात्कारणात् जात्वपि कदापि भ्रमतोऽज्ञानात् वाऽथवा अपिना ज्ञानतो हि-निश्चितं न याचितव्यम् । अन्यच्च For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ नाचम्पक माला ॥४१॥ ६ बलि अब्भत्थणि महु-महणु लहुई हुआ सोइ । जइ इच्छह वडप्पणउं, देहु म मग्गउ कोइ ॥३९॥ ___ व्याख्या-(सोइ ) सः (महुमहणु ) मधुमथनः श्रीकृष्णः (बलिअब्भत्थणि ) बलेरभ्यर्थनाद्याचनात् ( लहुइ) लघुः (हुआ) अभूत् , अतः कारणात् ( जइ )यदि (वडप्पणउं) महत्त्वं (इच्छह) इच्छथ, तर्हि मह्यम् (देहु) देहि 8| इति (कोइ) कमपि (म) मा ( मग्गउ ) याचस्व ।। अथापि सज्जनाः परेषामुपकृतये याचन्त एव, मेघाः सागरं वारीव । इत्थं चिन्ताकुलीभूतो यक्षग्रहणसमासक्तचेता विक्रमार्को नरनाथो महताऽऽग्रहेण सार्थवाहमवोचत-मित्र ! अहमिदानीं तावकीनामीदृशीमलौकिकीमद्भुतां यक्षकृतां सम्पदमालोकमान एतान् यक्षांस्त्वामभियाचे?, यद्यपि चिन्तामणिकल्पानेतान् यक्षान् दातुं न प्रभविष्यसि, तथापि लोलुप्यादभ्यर्थयेः, तन्मुधा माकृथाः। इति क्षितिपतौ निगदति सति सार्थवाह आह स्म-स्वामिन् ! कथमेवं ब्रवीषि ?, अहं खलु कस्यापि याचनं नो भनज्मि तर्हि सेव्यस्य प्रभोर्जिष्णोस्ते कथं तद् भक्ष्यामि ? । यदुक्तम् मीयताङ्कथमनीप्सितमेषां, दीयतां कथमयाचितमेव । तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते यः॥४०॥ व्याख्या-एषामर्थिनामीप्सितं हृद्यङ्कथं मीयतां जानीयात् , अथवाऽयाचितमेव स्ववाञ्छितप्रकाशनमन्तरा कथं दीयतां दीयेत?, एवं सति यो दाता वाञ्छां दित्सां कलयन्-दर्शयन्नपि, अर्थिनां वागवसरं-तदीयाऽऽभ्यर्थनां सहते तं= ॥४१॥ For Persons & Private Use Only Kilainelorary.org Jain Education Page #79 -------------------------------------------------------------------------- ________________ दातारं धिगस्तु, य ईप्सितं दातुमना अपि तस्मिन् याचमाने दास्यामीति विलम्बयति स सतां श्लाघ्यो न भवितुमर्हति, अतो याचकयाचनां विनैव तदीप्सितं दातव्यम् । प्रभो! किमधिकं निगदामि-सेवकानां यदस्ति तत्र स्वामिनां स्वामित्वमन्यथा सिद्धमेव तत्र मनागपि मा संशयीथाः। अहं सेवकः, त्वन्तु सेव्योऽसि, अतस्त्वादृशेभ्यः प्रभुभ्यो मादृशां सेवकानामदेयं किमस्ति ?, नैवास्ति। प्राणा अपि सत्यपेक्षणे दीयन्ते तर्हि यक्षाणामर्पणं किञ्चित्रम् ?, अतएव यद्रोचते तदसंशयं गृहाण ?, एता यक्षा भवतामभीष्टसिद्धिकरणेन साफल्यमियतुतमाम् । सम्प्रति प्रभोस्ते चरणपङ्कजाः सैन्यगणमलकीताम् । अहमचिरादेव यक्षानेतान् पेटिकान्तर्निधाय तामादाय शिबिरे समागच्छामि, इति सार्थवाहेन व्याहृतं श्रुत्वा प्रहृष्टः क्षितीशः सपरिवारः कटकमायातः। तदनु महत्यामेकस्यां चन्दनादिसुरभितैलयोगेन सुरभीकृतायां विशिष्टानेकचित्रचित्रितायां सरससुमिष्टनानाविधाहारनिभृतायां मञ्जूषायामकमपरस्यामीदृश्यां तस्यामपरं तृतीयस्यां तृतीयं चतुर्थ्यां पेटिकायां चतुर्थमिति रीत्या चतुरस्तांस्तासु निक्षिप्य मुखं सार्गलं विधाय निजसेवकस्ताश्चतस्रोऽपि मञ्जूषा उत्पाख्य सदस्यानीय नृपाग्र उपहृतवान् , व्याहृतवांश्चैवंस्वामिन् ! येषां जिघृक्षा भूयसी किलाऽऽसीत् , त एतेऽतिमहान्तः सकलाभीष्टफलदाः पेटिकान्तस्थाः यक्षा आनीताः, तिष्ठन्त्वेते सदैव भवतः सान्निधावेव, पिपुरतु च वः समीहितान्यशेषाणि । यथा वा विधातुर्भुजदण्डः सृष्टिं रचयति तथैते प्रभुणा मार्गितानर्थान् सर्वान् साधयन्तुतमाम् । परन्त्वेते यक्षाः कार्यकाल एव सदवसरे पूज्यन्ते, तदितरकालेऽर्चादिविधानेन फलमददानाः कुप्यन्त्येवेति सत्यं जानीहि । RSS For Persons & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ श्रीचम्पक माला ॥४२॥ इति निशम्य राजा तमेवमाख्यत्-सार्थेश ! त्वं खलु महादुरवापानेतान् यक्षान् प्रदाय यावजीवं गाढमिदं स्नेहमच- चरित्रम. लञ्चकर्थ । इह लोके बाह्यवृत्या कृत्रिमं स्नेहं भूयांसः स्वार्थैकसाधनरता मनुजाः कुर्वन्त्येव, ईदृशालीकसखानां संख्या तु जगति भूयस्येव वर्वति, किन्तु आन्तरबाडोभयवृत्त्याऽकृत्रिमस्निग्धप्रेमकारी त्वादृशो जनो विरल एव मामकी दृशमारोहति । यद्यपि चिरादागमनानिजगृहदारादिमोहादधुनाऽत्रैव ते स्थितियुज्यते, तथापि मनसो वात्सल्यात्त्वां सहैव निनीपुरस्मि । यस्माद् गुणानुरक्तं सद्भावभाजमतिस्निग्धसखं त्वां क्षणमपि पृथक्का मदीयं हृदयं नैव प्रभवति । प्रेम्णः किमकार्यमस्ति ?, यदाहकिमकरणीयं प्रेम्णः, फणिनः कथयापि या विभति स्म।सापि गिरीशभुजङ्गफणोपधानेन निद्राति॥४१॥1 व्याख्या-प्रेम्णः-स्नेहस्याकार्य किमस्ति ?, किमपि नेति । एतदेव दर्शयति-या भवानी पुरा फणिनः-सर्पस्य कथयापि-नाम्नापि बिभेति स्म-अबिभेत् सापि-सैव भवानी साम्प्रतं गिरीशः-शिवस्तस्य भुजङ्गः शेषस्तस्य फणामुपधानीकृत्य निद्राति-शेते दिवानिशम् । भाषाकविताकारेणाप्युक्तम्-- "जलधार के संग कला चपला, अरु नीर के संग कुमोदनरी, अहिभच्छन संग हलाहल को बल, प्रेमल पोन लगी विहरी । विसतार हुतासन संग धुवां, यह रीत प्रवीन बनाय धरी, विरहा दुखदान सनेह के संग, बढे मनुवा मनकी लकरी ॥४२॥ प्रेमहु को मदपान कियो बहु, जो करवे की नहिं सो करेगो । शौच विचार किये की कहा, जरवे मरवे से कळू न डरेगो॥ चातुर व्है गति वाउरे की गहि, दीपक लेकर कूप परेगो । तेज सबे सटके घटके वह, सागरजू भटकोई फिरेगो ॥४३॥" ॥ ४२ ॥ Jain Education For Persona & Private Use Only jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ अतस्त्वादृशा सुमित्रेणापि मदर्थमकार्यमप्याचरणीयमेव । सति च विप्रयोगे गुणवतः सख्युः पुनः सङ्गतिः स्यान्नवेति', को जानीयादतस्त्वमिदानीं मामकं सङ्गमं मा त्याक्षीः १, निजस्त्रीकृते कदाचित्ते मनसि समौत्सुक्यमुद्भविष्यत्यतस्तामपि सहैव नीत्वा चल ? | साथशो जगाद - प्रभो ! जन्मभूमेस्त्यागः सर्वस्यापि क्लेशाधिक्यजननादुष्कर एवास्ति, तथापि त्वत्प्रेमपाशबद्धोऽहमवश्यं त्वत्सत्राऽऽगमिष्यामि । यतः – मनुष्याः पतिव्रतां स्त्रियं सम्पदि विपद्यपि तुल्यक्रियं सखायं, सत्यप्रेमवान् स्वामीत्येतत्रयञ्च भाग्यं विना नैव लभन्ते । ' इत्थं व्याहृत्य निजसदनमागत्य कमपि सकलगुणसंयुक्तं सखायं गृहादिनिभालनादिकर्त्तुं निगद्य कियद्भिः सेवकैः सह सतीमचर्चिकया चम्पकमालया सहितः सार्थपतिस्तत्र राज्ञः शिबिरे समायातः । अथ जाते च प्रभाते ससैन्यः क्षितिपतिमुकुटमणिविक्रमो नरनाथस्ततः प्रतस्थिवान् । मध्याह्नवेलायामतिश्रान्तसेन्यैः सह क्वचिदेकत्र रम्यस्थले शिविरं व्यधत्त । तत्र पक्तुमुद्यतान् पाचकान् नरपाल एवमारव्यत् - पाचकाः ! अलमिदानीं पाकेन, एते यक्षा एव सकलां भोजनसामग्रीमिष्टां पर्याप्तां दास्यन्ति । तदनु यथावदर्चनं विधाय ज्ञानपटीयान् नरनाथो विधिवत्स्नातानुलिप्तः पेटिकामुन्मुद्रय तत्स्थान् यक्षान् धूपदीपादिसकलोपचारैरभ्यर्च्य कृताञ्जली राजा जगाद - भो यक्षाः ! प्रसीदत, पूजां मे गृह्णीत, यथा पुरा सार्थवाहाय रसवतीं बहुविधां पर्याप्तामदिषत तथाऽधुना ससैन्यस्य भोजनपर्याप्तां रसवतीं मेऽर्पयत ?, त्वदर्पितया रसवत्या सर्वेषां क्षुधां श्रान्तिञ्च व्यपनीय परिभोज्य च त्वच्छक्तिं निजविवेकश्च साफल्यं नयेयमिति । अत्रावसरे त्रपया पीडया च व्याकुलीकृतास्ते यक्षरूपधरा मन्त्रिणः विक्रमादित्यं व्याहर्तुं लग्नाः - स्वामिन् ! न सन्ति केप्यत्र यक्षाः, ये तव रसवतीं दद्युः, वयन्तु तव सेवका ये पुरानागतास्ते स्मः, तानस्मान् किं नो लक्षयसि ?, प्रभो ! ये For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥४३॥ पुरात्र सार्थेशपत्नीशीलपरीक्षणार्थमायातास्त एव वयं भवता सत्रा रममाणा मन्त्रिणः स्मः। यथा क्षेत्रे धान्यरक्षायै गृहोपरिष्टाच्चोलूकनिरोधकृते चञ्चां स्थापयति, तथायं सधनः सार्थवाहो नः कृतवान् यक्षान् क्षेत्रस्थां चश्चामिव । नः सत्यभृतयक्षान्मावेदीः, किन्तु कार्यविशेषतस्तेन मुधैव यक्षीकृता वयमत्र तिष्ठामः । नाममात्रेण जात्वप्यसद्वस्तु सत्यतां नामोति, होलिकापर्वणि जनैः कृता नृपाकृतिरिव तात्त्विकरूपं वास्तविकं तत्कृत्यं वा नाधिगच्छति । प्रभो! त्वत्प्रसादफलभूतदासदास्यादिसकलसुखसामग्रीमापन्ना अपि वयममुष्य सार्थेशस्य सद्मनि किङ्करा इव पुराकृतकर्मयोगादननुभूतमशेष कष्टमसहामहि । तस्मान वयं देवताः सः, किन्तु पूर्वप्रचितगृहश्रीविनाशका नूनं तत्र भवतां सेवका एव स्मः। अतः भाग्यवशाकथमपि प्राणान् दधतोऽस्मान् गृहाण, कृपां विधेहि, पुरेव प्रसीद । प्रागपि यदपराद्धमसाभिस्तदपि क्षम्यताम् । अत्रावसरे प्रेमानुकम्पनाभ्यां पूर्णः क्षितिधवस्तानालोक्य निशम्य च तदशेषयथाजातवृत्तं, निष्काश्य च मञ्जूषातस्तान् पाचकान् पक्त्तुमादिदेश । ये खलु पुरा क्षितिपतेः प्रधानप्रेमपात्राण्यासन् , यांश्च प्रेमदृशा विलोकमान आसीद्राजा तानिदानीमीदृशीं दुर्दशामापन्नानालोक्य मधुरया गिरा राजाऽपृच्छत्-सखायः ! अतिभीषणदौष्कालिकाऽन्नाभावाद्रका इवास्थिमात्रावशिष्टा अतिदुर्बलाः कथमजनिढम् ?, पुरा भवन्तो मारसुन्दराकारा आसन् , साम्प्रतमसाध्यदुर्व्याधिजाताङ्गलावण्यहासाः कथं दृश्यध्वे ?, केन कुत्र चेदृशीं शोच्या दशां नीताः१; इत्थं राज्ञा पृष्टास्ते मन्त्रिणः पूर्वानुभूतं सुखं सारं सारं सन्ध्यावेलायां रथाङ्गपक्षिण इव लोचनाभ्यामणि मुञ्चन्तस्तूष्णीं तस्थुः । पुनस्ते क्षितिपतेः प्रेरणया त्रपां विहाय गद्गदया गिरा सर्व वृत्तमाद्यन्तं राजानं न्यगादिषुः-स्वामिन् ! काचिदज्ञा ॥४३॥ Jan Educa For Persons & Private Use Only inelibrary.org Page #83 -------------------------------------------------------------------------- ________________ स्त्री त्रिजगतीं पुनानां भागीरथीमाविला चिकीर्षति, तथा सच्छीलशालिनीमिमां सती दुःशीलां विधातुमनसस्तदीयप्रख्यातिमसहमानास्तदसूयया पापीयांसो वयं स्वयमेव तत्र महागर्ने निपतिताः केनापि नैव क्षिप्ताः, अमुष्याः सत्यास्तु तत्र लेशतोऽपि दोषो नैव दीयते तत्रापि यदेषा सतीप्रकाण्डा समुद्भूतप्रभूतकारुण्येन निरन्तराऽन्नपानप्रदानेन नो जीवितमदीधरत् , तत्तु महाश्चर्यमजायत । यत्तत्र नरकोपमे गर्ने पतितैरस्माभिः कदन्नमखादयत्सा सती शिरोमणिस्तन्मन्ये प्रबलतरसञ्जातमाररोगोपशमोऽकारि, तथा कुसुमशरजालोन्मादापहारकारितत्कृतोपचारप्रचयेन यदभून्नः शरीरे कार्यं तदप्यायतौ गुणकारि शिक्षणमेव मन्यामहे । इत्थं तेषां मन्त्रिणामास्याच्चम्पकमालाया गुणग्रामस्तुतिमाकर्ण्य विस्मयाऽऽविष्टचेताः सारग्राही गुणविद्राजा प्रमोदभरात्तामस्तावीत्-अहो ! अस्तीदानीमपि स्त्रीजातावीदृशी मतिनिचयनिधिः कौशल्यपटीयसी महीयसी सती कामिनी प्रशस्यतममस्त्यस्याश्चातुर्यम् , धन्या खल्वेषा त्रिकरणविशुद्धमुत्तमं शीलमवति । इह हि जगत्यां कायेनापि शीलपालनङ्कठिनमस्ति, तस्मादप्यतिकठिनं वाचा शीलपालनम् , अमूभ्यामपि मनसा तत्पालनं सर्वथा लोकोत्तरमेवास्ति । यत:-'मनोविकाराकरोद्गमनवर्द्धने मेघतुल्या, यस्याश्चेतसि स्वास्थ्यावस्था प्रणनाश, याश्चानारतं भर्तृवियोगाऽनलो नितरां सन्तापयति, स्फुरति च यस्यास्तडिद्गौरवर्णायास्तारुण्यमतिमनोहरं दर्शनादेव युवजनमनोविलोभनक्षमं नूत्नम् , विद्यन्ते च यस्यां सर्वे सद्गुणा अशेषाः कलाश्च, विलसन्ति च बहुलाः कमलाः, प्रार्थयन्ति च कामकिङ्करीभूताः समीपमागताः कामिनः, सति च श्वश्र्वादिगुरुजनानामसद्भावे दर्भाग्रमतिशालिनीयं चम्पकमाला यदनुपमं विशुद्धं शीलं दधाति, का परा तथा शीलं दधीत ?, कापि Jain Education BIS For Personal & Private Use Only FARMainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥४४॥ स्यिा अतुलप्रभावता चिरायुरस्तु । अपि खल्वमन् दुर्मतिका लक्षणं तं सार्थवाहमाका नेत्यर्थः । अतएव धनवान् धन्यवादाहश्चाऽयं सार्थवाहः, यस्येदृशी कामिनी शीलशालिनी जगजनपाविनीविचकास्ति । या कामिनी शीलपालनात्सीतादिपुण्यवनितायाः साम्यमश्चति, रूपश्रिया रतिमपि हेपयते, बुद्ध्या सरस्वतीकल्पास्ति, तामेनां सतीशिरोमणिमालोकमाना जना अपि धन्या इति निश्चयं वदामः । इत्थं प्रशस्य तत्क्षणं तं सार्थवाहमाकार्य विहस्य नृपस्तमवोचत-सखे ! अत्यद्भुतान् यक्षान्मे समर्पयामासिथ ?, या खल्वमून् दुर्मतिकाञ्छठान् निस्त्रपांश्च मन्त्रिणो निजधीचातुर्येणाऽ शिक्षयत्सा ते प्रेयसी श्रेयसी सती चिरायुरस्तु । अपि च यस्या महासत्या वाणीमचेतनास्तरुलतादयोऽप्युल्लंधितुं नैव शक्नुवन्ति, तस्या अतुलप्रभावतश्चाऽमी मन्त्रिणः स्वीयां शठतां मुञ्चेयुस्तत्र किमाश्चर्यम् ।। एवं विक्रमादित्यो नरपतिस्तदितरेऽपि सभ्यास्तां सती बहुधा प्रशशंसुः। युज्यते चैतत्-'गुणयोगात्के सद्भिर्न प्रशश्यन्ते' तया परीक्षया सर्वाशाविस्तृतशोभाशालिनी सतीमतल्लिका चम्पकमाला सतीगणनायां प्राथम्यमयाश्चक्रे । तदिनादस्याः सतीत्वमाहात्म्यं सर्वत्र लोके समैधत, शीतांशोः सुधामयी कळेव लोकानामाह्लादिका सुखावहा च जज्ञे सती चम्पकमाला। तदनु वसन्तत्तौ काननं काम इव सह तेन सार्थवाहेन विक्रमार्को राजाऽनुक्रमेणोजयिनीमाययौ । सखेदास्ते चत्वारो मन्त्रिणोऽपि तां सतीश्चम्पकमालां कृताऽपराधं क्षमयित्वा स्वस्वसदनं गन्तुमुत्सुकास्तदा दातृणां शिरोमणिश्चम्पकमालापि सहर्ष पूर्वमङ्गीकृतं धनं तेभ्यः प्रत्यर्पयत । अपि च सुधास्यन्दिन्या गिरा तान्मन्त्रिणः सा तथोपदिष्टवती यथा ते तत्कालमेव परस्त्रीरिरंसामत्याक्षुः। अहो ! ' महासत्या विदुष्या महिमा महीयान्भवति, येन तेऽनार्या अपि मन्त्रिण आर्याश्चक्रिरे ।' ततो कुलदेवीमिव तां सती चम्पकमालां वारम्वारं नमस्कृत्य तस्या उदारां गुणावली कीर्तयन्तस्ते चत्वारो मन्त्रिणः स्वस्थाः यत्वा खस्वसदनं तामन्त्रिणः सा तथोपविध मन्त्रिण आर्यान्वत्रिणः स्वस्थाः ॥४४॥ Jain Educatio For Personal & Private Use Only M Rjainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ सन्तः निजनिजालयमापेदिरे । सार्थवाहोऽपि तस्या महासत्या सङ्गत्या सौशील्यमुपेयिवान् । अथैकदा तत्रोजयिन्यां पुर्या भव्यजीवानां पावनाय सुखाय च श्रीसिद्धसेनदिवाकरः सूरीश्वर आगात्तदाकर्ण्य मेघागमेन केकीव प्रहृष्यन् पुलकितरोमराजी राजा नितरामतुष्यत् । तदनु महा शुभभावभावितमना नरनाथो गुरुवन्दनायै निरगात्, इतरेऽपि महान्तो जनास्तत्रावसरे तदर्थं तेन सत्रा सहस्रशो ययुः। अस्मिन्नेवावसरे निजसुजनजनमण्डलमण्डितः प्रियया सहितः सार्थवाहोऽपि धर्मदेशनां शुश्रूषुस्तत्रागात् । तदा सूरिदिवाकरो भव्यजीवपद्मवनं विबोधयन्तीम् , अज्ञानतिमिरनिर४ास्यन्ती, सुधास्यन्दिनीं धर्मदेशनां प्रारेमे । तथा हि| अर्थाः पादरजःसमा गिरिनदीवेगोपमं यौवनं, मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितम् । धर्म यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं, पश्चात्तापहतो जरापरिगतःशोकाग्निना दह्यते॥४२॥ व्याख्या-भो भव्या! इह दुःखदावानलसन्तप्ते संसारे अर्थाः सम्पत्तयः पादरजःसमाः पादयोश्चरणयोर्लग्नानि यानि | रजांसि धूलयस्तेषां समास्तद्वत्क्षणिकाः, यौवनं तारुण्यं गिरिनद्यास्तदुद्भूतायाः सरितो यो वेगस्तस्योपमा साम्यं यस्मिंस्तादृशमस्ति । अर्थात्पर्वतोद्भूतसरितो वेगो महान् भवनपि यथा चिरस्थायी न भवति तथा जीवानां तारुण्यमपि चिरं स्थाष्णु नो जायते । यदिदमतिदुरापं मानुष्यं मनुष्यजन्म तदपि जलबिन्दुवल्लोलचपलमतिचञ्चलमस्ति, एवं जीवितं लोकानामायुरपि फेनोपमं-अधिकफेनस्योपमा तुलना यस्मिंस्तथा वर्त्तते तद्वदेव विनश्वरमस्ति, अस्माद्धेतोर्यो नरः पुमान् निश्चलं दृढ़ Jain Educati o nal For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ श्रीचम्पकमाला ॥ ४५ ॥ चित्तं यस्य स दृढमनाः स्वर्गार्गोद्घाटनं = स्वर्गार्गलस्य देवलोकादिप्राप्तिप्रतिपन्थिन उद्घाटनं वारकं धर्मं न करोति स नरः पश्चात्तापेन हतः=कृतपश्चात्तापो जरया परिगतः = शिथिलीकृताऽशेषाऽवयवः शोकाग्निना दह्यते - दुःखीक्रियते । भुजन्तां महुरा विवागविरसा किंपागतुल्ला इमे, Jain Educationonal कच्छूकंडूयणं व दुक्खजणया दाविंति बुद्धिं सुहे । मज्झ मयतहियव्व निययं मिच्छाभिसंधिप्पया, भुत्ता दिंति कुजोणिजम्मगहणं भोगा महावेरिणो ॥ ४३ ॥ व्याख्या –— इमे किम्पाकफलतुल्या आदौ मधुरा विपाकेऽवसाने विरसा - नीरसाः भोगा - विषयाः भुंजन्तां - सेव्यन्ताम्, परमेते कच्छ्सम्पर्काज्जातकण्डूयनमिव दुःखजनकाः सुहे - वास्तविक सुखविषयिणी या बुद्धिस्तां दाविंति - दापयन्ति - कृन्तन्ति, मज्झण्हे-मध्यान्हे मयतण्हियव्व - मृगतृष्णिकावत् मिच्छाभिसंधिप्पया मिथ्याभिसंधिप्रभाः - मिथ्याऽलीकमभिसन्धेस्तद्बुद्धेः प्रभा च्छायां येषु ते तथाभूता विषया भोगाः महावेरिणो - महावैरिणः प्रबलाः शत्रवः भुत्ता = भुक्ताः - सेविताः सन्तः कुजोणिजम्मगहणं-कुयोनिजन्मगहनम् - कुत्सिता योनयः कुयोनयः - नीचकुलादौ यञ्जन्म गहनं भवपरम्परा तत् दिंति - ददाति भोगिनां प्राणिनामिति भावः । अत एतादृशा महाशत्रुकल्पा भोगा नैव भोक्तव्याः सद्भिः कदापीति तत्त्वम् । For Personal & Private Use Only चरित्रम्. ॥ ४५ ॥ jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ अर्थार्थं नक्रचक्राकुलजलनिलयं केचिदुच्चैस्तरन्ति, प्रोद्यच्छस्त्राभिघातोत्थितशिखिकणकं जन्यमन्ये विशन्ति । शीतोष्णाम्भः समीरग्लपिततनुलताः क्षेत्रिकां कुर्वतेऽन्ये, शिल्पञ्चानल्पभेदं विदधति च परे नाटकाद्यञ्च केचित् ॥ ४४ ॥ व्याख्या-अर्थार्थ धनार्जनाय केचित कियन्तो जना उच्चैरगाधं नक्रादिभीषणजलजन्तुसमहेनाऽऽकुलीकृतजलराशि समुद्रं तरन्ति-समुद्रमप्युत्तीर्य व्याप्रियन्ते, प्रोद्यन्ति यानि शस्त्राणि तेषां घातेन प्रहारेणोत्थिताः शिखिनः कणा यत्र तादृशं जन्यं युद्धमन्ये इतरे विशन्ति, अत्कियन्तो धनलिप्सया प्राणापहार्यपि युद्धं कुर्वन्ति । अन्ये तु शीतेनाऽम्भसा-चारिणा समीरेण वातेन ग्लपिता-म्लाना तनुलता लतेव कोमला तनुर्येषां ते तत्कृतं क्लेशं सहमानाः क्षेत्रिका क्षेत्राणि कुर्वते-कृषन्ति, च पुनः परेऽनल्पभेदमनेकभेदसहितं शिल्पं विदधति अकुर्वते, केचिच्च नाटकादि कुर्वते, इत्थं धनोपार्जनेऽपि महानेव क्लेशो दृश्यते, सुखन्तु मनागपि नैवाऽवलोक्यते । अतएवहिंसामहिष माकथा वद गिरं सत्यामपापावहां, स्तयं वर्जय सर्वथा परवधूसंगं विमुञ्चादरात । कुर्विच्छापरिमाणमिष्टविभवे क्रोधादिदोषांस्त्यज, प्रीति जैनमते विधेहि नितरां सौख्ये यदीच्छास्ति ते४५ For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ श्रीचम्पका व्याख्या-भो लोकाः! प्राणिपु-जीवेषु हिंसां तद्धिंसनं मा कृथाः-मा कुरु, अपापाबहाम्=पापाननुबन्धिनी सत्याम्= माला सत्यभूतामेव गिरं वाचं वद-बहि, स्तेयं-चौर्य वर्जय-त्यज, आदराद्-यत्नतः परेषामन्येषां या वध्वः स्त्रियस्तासां सङ्गं मुञ्च-जहाहि, इष्टविभवेवान्छितधने चेच्छापरिमाणं ममैतदेव स्यात्तदधिकं नेति परिग्रहपरिमाणं कुरु, किश्च ये खलु क्रोधा॥४६॥ दयो महानर्थकरा दोषास्तांस्त्यज । यदि नितरामतिशयेन सौख्ये सर्वाधिके सौख्ये इच्छावाञ्छा ते-तवास्ति वर्तते, तर्हि जैनमते वीतरागप्ररूपिते धर्मे प्रीतिगं, विधेहि-विधत्स्व, इति । यथा दिग्भ्रान्त्या नैशिकतिमिराधिक्याद्वा पथो विस्मृत्या कश्चिन्मूढधी नावुदिते प्रणष्टे च तमः पटले भ्रमे वा सम्यग्मार्ग विदन् नितरां हृष्यति, तथा तस्य गुरोगिरा प्रध्वस्तमोहान्धकारा भव्या जीवा यथावद्धर्ममार्गमवबुध्य निःसीममानन्दम्प्रपेदिरे । तदानीं प्रणष्टमोहान्धकारोऽतिविशिष्टाऽऽशयो विद्वान् पटीयान् लघुकर्मा च सार्थवाहो गुरूनेवं व्याहर्तुमारभत-प्रभो ! अहमद्यावधितत्त्वावबोधमन्तरा आत्मानं मुधैव पण्डितंमन्यमान आसम् । यतः-कलासरितां पारङ्गन्तुरपि जीवस्य तत्त्वावबोधं विना मूर्खता नो विजहाति ।' अद्यैव तत्र भवता सुधासहोदरोपदेशादज्ञानरोगनिरासिमहौषधेर्मम तत्त्वज्ञानलक्षणनैरुज्यमुदपद्यत, अर्थादज्ञानमनशत् , समुत्पन्नं च तत्त्वज्ञानमिति । यद्यप्यहं सकलसावद्यहेयलक्षणं सर्वोत्तमं साधुमार्ग जिघृक्षुरस्मि तथापि तदवनाय मयि तावती शक्तिर्नास्ति । अतएव सम्यक्त्वमूलकं द्वादशव्रतलक्षितं श्राद्धधर्म ममोपरि प्रसद्य सस्त्रीकं मामुपदिशत?, इत्थं भक्तिभरेण तदुदितं निशम्य स सूरिदिवाकरो भक्तिमन्तं श्रद्धालुं विनीतं सुशिष्यं मन्त्रमिव तं सभायं सार्थवाहं श्रावकीयमर्कवतमुपदिष्टवान् । तदनु स्वं कृतकृत्यं मन्वानः सार्थेशःसभार्यः स्वसदनमागत्य निजेष्टदेवमिव धर्म कर्तुं लग्नः। शत, समुत्पन्नं च सम्यक्त्वमूलक बाल विनीतं सु ॥४६॥ Jain Educatie For Persona & Private Use Only albaryong Page #89 -------------------------------------------------------------------------- ________________ Jain Education ततोऽसौ सार्थपतिः शङ्कादिदोषमुक्तमुज्वलं सम्यक्त्वसहितं निर्दुष्टाऽणुव्रतात्मकं श्राद्धव्रतं पालयन्, साधूंश्व विशुद्धाऽनपानवसनपात्रादीनि प्रतिलाभयन्, सद्ध्यानं धरन् सकलश्रावकमूर्द्धन्यो बभूवान् । तत्पत्नी चम्पकमाला महासत्यपि सच्छीलसौरभ्येण शुशुभे । प्रकृत्योदारचेताः सन्नपि परमोदारोक्तिप्रेरितः प्रमोदभागसौ सार्थेशः सदुपार्जितां निजलक्ष्मीं सप्तक्षेत्रेषु वपन् सार्थक्यं निनाय । बहुलार्थव्ययेन नव चैत्यानि निर्माय तेषु बहुना द्रव्यव्ययेन महीयसोत्सवेन चाहतीः प्रतिमाः प्रातिष्टिपत् । कियतां जीर्णतराणां चैत्यानामुद्धृतिमचीकरत् । तथा जिनशासनोपयोगिनानापुस्तकान्यली लिखत् । चतुर्विधश्रीसंघभक्तिरप्यकारि । अथाऽमुना धर्ममतिना सार्थवाहेन जीवांश्विरं जिजीवयिषया मीनजीविनां दुष्टतमानां धातुकानां मीनघातवृत्तिरपि नृपतस्त्याजिता । अर्थाद्यथा कश्चिदपि जात्वपि मीनादीनबलाञ्जीवान् नो हन्यादिति राजनियममकारयत । निजविशालभालपट्टे संघाधिपत्यतिलकमुत्तममधारि चामुना । अकारि च सिद्धाचलरैवतादिमहातीर्थगमनप्रभुदर्शनसुनमनादि । इत्थं सस्त्रीकः सार्थेशः श्राद्धधर्ममाश्रित्याऽऽर्हच्छासनवर्द्धनतत्परः कृताभिग्रहं यथावत् परिपालयन् प्रान्ते तौ दम्पती समाधिमृत्युना सद्गतिं लेभाते । यतो ' भगवदर्हच्चरणकमलसेविनामीदृश्येव गतिर्जायते । तस्मात्सर्वैरेव भव्याशयैः शीलरक्षायै प्रयतितव्यम् । एतद्धि सम्यगवितं सत्प्राणिनां चिन्तामणिरिव लौकिकं सर्व सुखादिकं साधयति, प्रान्ते चाऽजरामरगति प्रापयतीति । स्वस्त्यस्तु । आजन्मप्रतिपाल्य शीलमनघं सत्यग्रगण्या भवे, ह्यस्मिंश्चम्पकमालिका निरुपमं लेभे यशोनिर्मलम् । onal For Personal & Private Use Only jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ चरित्रम् श्रीचम्पकमाला ॥४७॥ *CRACHCRACA%AKARSACH तद्वद् यः परिपालयिष्यतितमां शीलं किलाऽखण्डितं, ___ सत्कीर्त्याः सदनं भविष्यतितमां मामह्यमानो हि सः ॥ ४६ ॥ . व्याख्या-यावजीवमनघं निर्दोष शीलं सतीत्वं प्रतिपाल्य संरक्ष्य सतीनां पतिव्रतानां स्त्रीणामग्रगण्या मुख्या सती, अस्मिन्भवे-जन्मनि सा चम्पकमाला निरूपमम्-निर्नास्त्युपमा यस्य तदनुपमं निर्मलं यशः कीर्ति लेभे प्राप्तवती । तद्वद्चम्पकमालावद् यः कोऽप्यन्योऽखण्डितं शीलं ब्रह्मचर्यव्रतं पालयिष्यतितमाम् , स नरो हि-निश्चितं मामद्यमानः भृशं लोकरशेषैः स्तूयमानः सत्कीर्त्याः सुयशसः सदनं भविष्यतितमामिति । श्रीसौधर्मबृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिप-श्रीराजेन्द्रजगजयिष्णुचरणाम्भोजद्वयान्तेसदा। एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे मुदा, जज्ञे चम्पकमालिकीयचरिते प्रस्तावतुर्योऽनघः॥ चम्पकमालाचरितं, शैरवसुनवभूतुलितविक्रमाब्दे । चैत्रिकसितद्वितीयोशनसि समापयामासैतत् ॥ २॥ श्रीसौधर्मबृहत्तपोगच्छगगनाङ्गणदिनमणि-सुविहितसूरिशक्रचक्रचूडामणि-जङ्गमयुगप्रधान-परमयोगिराज विश्वपूज्य-भट्टारक श्रीमद्विजयराजेन्द्रसूरीश्वरचरणपङ्कजभृङ्गायमाण-व्याख्यानवाचस्पत्युपाध्याय-श्रीयतीन्द्रविजयसंदृब्धा गद्यपद्यसंस्कृतभाषात्मिका श्रीचम्पकमाला-कथा समाप्ता । ॥४७॥ For Persona & Private Use Only IN Jain Education i nelerary.org