________________
चरित्रम्.
बीचम्पकमाला
॥१७॥
तस्यामेव डिम्बिकायां स्थापयित्वा तां वेण्यां धृतवती, तदनु भर्तुर्योगिनः पार्श्वङ्गत्वा शिष्ये ।
आर्थवहङ्कौतुकमेतद्विलोकमानो राजा विस्मयमानश्चिन्तयामास-अहो! यामेष योगी पुरुषान्तरमैथुनभिया विद्यायोगापान्तरविधानेन शिरसि गुप्त्या रक्षति, सापि जारेण साकमेवं स्वैरं क्रीडति, तीतरासां कामिनीनां सतीत्वं को मतिमान् पुमान् श्रद्दधीत ?, यतः सततं निजशरीरे विद्याप्रभावेण रूपान्तरं विधाय संरक्षिता कामिनी यदि जारं भजमाना प्रत्यक्षमैक्षि, अन्यासां तर्हि का वार्ता ?, स्वपतिसन्निधावहर्निशं या तिष्ठति सापि कामिनीयं भीतिमपहाय जारं भजते तर्हि कथमेनां निसर्गतो भीरुमिति जल्पन्ति ? अथवा, त्रिभुवनविजित्वरकुसुमधन्वनः साहाय्येन निसर्गादेव युवतयो भयमुज्झन्ति । किमथवा ' सुप्तो जनो मृतकल्पो जायते' इति किं वदन्त्या सुप्तं स्वपतिं मृतं जानाना निर्भीका सतीयं पुरुषान्तरं सेवते ?, किये 'कमपि पुरुषान्तरं मासेवेत' इति वियैवासौ योगी जागृतः सन्नेतां विद्यामहिम्ना वशीकृत्य ततो लघीयसी विधाय सदाऽऽत्मपार्श्व एव रक्षति । __अस्याः खिया ईदृशादाचरणादितरे महान्तः सन्तोऽपि लघुतां प्रपद्यन्ते, ईशाऽन्यायतत्परयोरनयोर्विद्याऽप्यविद्येव शोभा नो धत्ते । किश्वेयं 'कामिनी पुरुषकमले सङ्कोचविकाशौ जनयति,' तेन ज्ञायते यथा भानोर्भानुः समानो नो जायते, तथा विद्याप्येषा समाना नो भवितुमर्हति, किञ्च यथाऽस्या विद्याप्रभावतः सदपि कुलटात्वं दुर्जेयमस्ति, तथैवाहमप्यात्मस्त्रिया दुश्चरित्रं ज्ञातुं न शक्नुयां जात्वपि । तस्मादद्यावधि लोकैरत्रातमस्या दौःशील्यमतिगुप्तं महारोगं भिषगिव प्रकाश्य स्वीयराज्या अपि चिरकालिकं कौशल्यं यथा तथावश्यमहं प्रकटयिष्याम्येव, नो चेदने शोभनं न स्यात् । यद्यपि मादृशां परदो
॥१७॥
Jain Education
For Persons & Private Use Only
Alainelorary.org