SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीचम्पकमाला ॥ ३० ॥ Jain Education tea मधिगच्छत्येव । ततश्चिन्तितानामेषां सदने मया न स्थातव्यमिति निश्चित्य खिन्नचेता यावदहं स्वनगरीम्प्रति यियासामि तावन्मां वरीतुकामा करकमलयोश्चम्पकस्रजं दधाना, चम्पकमालाऽभिधाना, मत्पत्न्याः कनीयसी स्वसा समागत्य ममाग्रे तस्थौ, महीयसा हर्षेण मय कटाक्षमालां मुञ्चमानातित्वरया मदधिग्रीवं तां वरमालां पर्यधापयत्सा । आख्यच्चैवम् - महाभाग ! त्वां भर्त्तारङ्कमहमागतास्मि । अतो मे भर्त्ता भव १, मत्प्रार्थनं विफलं मा कृथाः १, यतः - - ' महाजनाः खलु कस्यापि प्रार्थनां भ मनसि विभेत्येव । ' तदनन्तरं मयैवं भणिता --सुन्दरि ! या ते ज्यायसी भगिनी मामकी पत्न्यासीत्तस्याः स्वभावं जानन्नहं त्वां कथङ्कारमुररीकुर्याम् १, यतस्तस्या एव भवत्यपि लघीयसी भगिन्यस्ति तदनुरूपप्रकृतिकैव भविष्यतीति निश्चीयते तच्छ्रुत्वा तया पुनर्न्यगादि - - महाभाग ! इति कश्चिदेकान्तनियमो नास्ति, यत्सर्वा अपि स्वसारः प्रकृत्या गुणादिना वा तुल्या एव जायेरन् । भ्रातरो वा सर्वे समानप्रकृतिका एव न भवन्ति । तदुक्तम् एकोदरसमुत्पन्ना, एकनक्षत्रजा अपि । न भवन्ति समाचारा, यथा बदरिकण्टकाः ॥ ३१ ॥ व्याख्या—एकस्मादुदरात्समुत्पन्नाः, तथैकस्मिन्नेव नक्षत्रे जायन्त इत्येकनक्षत्रजा बदरिकण्टका यथा समाचारा=एकाकारा न जायन्ते, तथैकमातुर्जाता भ्रातरः स्वसारो वा समाचारा - तुल्याचारविचाराः सदृशस्वभावा नैव भवन्ति । अन्यदपि मतिमन् ! जगत्यामस्यां फल- पुष्प - पत्र - पुरुष - दन्ति - तुरगोपल - कमलप्रमुखा एकस्थानजाता अपि नानाप्रकृतिका जायन्ते, तदन्येऽपि बहुशः पदार्थाः प्रकृतिभिन्ना दरीदृश्यन्ते चेत्तर्हि स्त्रीजातौ सा प्रकृतिः कथं नो भिद्येत ?, ontal For Personal & Private Use Only चरित्रम् . ॥ ३० ॥ jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy