________________
भवत्येवेति निश्चयं विदाकर्वन्तु तत्र भवन्तः । गुणानां प्रवाससंवासाभ्यामर्थात्तदीयाऽवगुणसंसर्गाचिरपरिचयाद्वा यथा सा दुःशीलाऽऽसीत्तथैवेयमपि तदनुजा भविष्यतीति मा संशयीथाः। यतः-सज्जनो जनो दुर्जनानां गोष्ठ्यां तिष्ठन्नपि तत्परिचयङ्कर्वन्नपि लेशतोऽपि तदीयदुर्जनतां नैव भजते । यथाऽऽजन्ममहाभोगिभोगस्थितो मणिःस इव दुःखभावः परेषां पीडाकारी न जायते । यद्यप्यहं तस्या अनुजामि तथापि तत्तुल्यस्वभाववतीभृय सेवाऽकृत्यं नैवाऽऽचरिष्यामि स्वमेऽपि । अथवा यथा क्वचित्कूपे पतितमात्मीयमपि जनं विलोक्य तत्पृष्ठे मतिमान् नैव पतति तथैवाऽहमपि तदनुकारिणी नैव बुभूषामि । अतएव ज्यायसीं मे स्वसारं दुराचारिणीं विलोक्य तदनुजां मामपि मा जहाहि ?, 'क्षीराद्विरक्तः कश्चिद्दधि जहाति किम् ?' एतद्विपये निस्पेव बहु किं जल्पामि-" भवदधिग्रीवं या चम्पकमाला मया निहिता सैव मामकं. सतीत्वं बोधयिष्यति, यावन्मे शीलमखण्डितं स्थास्यति तावदियं सक तब कण्ठे सद्यो जातेव भवन्तमामोदयन्ती सुषमा धरिष्यति, मनागपि नैव म्लास्यति । यदैव मनसा वचसा कायेन वा निजशीलं मलिनीकरिष्यामि तदैव मदर्पिता भवत्कण्ठस्थिता स्रगियं म्लास्यति । यदेयं मालिका म्लायेत्तदैव मत्सतीत्वमपि खण्डितमवगन्तव्यमितरथा नैवेति तथ्यञ्जानीहि ।"
इत्यादि तदुक्तिश्रवणेन समुद्भुतप्रभूताश्चर्यस्तत्प्रार्थनमङ्गीकृतवानहम् । ततः शुभे दिने महतामहेन तत्पिता तां चम्पकमालानाम्नी मया सत्रोदवाहयत । तदनु पित्राप्तिकौतुकोत्पादिदासदास्यादिगजतुरङ्गादिसमृद्धियुतां तामुदाहितां कन्यां सच्छीलामहं निजगृहमानिनाय । सैवैषा चम्पकमालिका तदखण्डितशीलसूचिका तदर्पिताऽद्यापि सद्यो गुम्फितेव दृश्यमाना मम कण्ठे विचकास्ति । गतेष्वपि द्वादशवत्सरेषु तस्याः सतीत्वमाहात्म्यादद्यपर्यन्तं देवतार्पितेव न. शुष्कतामध्यगच्छत् ,
Jain Educatio
n
For Persona & Private Use Only
inbrary.org