SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ वरित्रम् श्रीचम्पक माला ॥३६॥ साफल्यं नय?, किमधिकं निगदामि-सकलसीमन्तिनीजनमनोमोहनदक्षिणेन सततसौख्यकारिणा तेन साकं या कामिनी नास्त तस्या यौवनं वन्यङ्कसुममिव मुधैव जानीहि । यदभाणि| समुपागतवतिदैवादवहेलां कुटज! मधुकरे मागाः।मकरन्दतुन्दिलानामरविन्दानामयं मान्यः॥३८॥ . व्याख्या--हे कुटज ! दैवाद्-भाग्यात् समुपागतवति-निजसदनमायाते मधुकरे भ्रमरे अवहेलामनादरं मागाः मा कार्षीः, यदयं मकरन्दतुन्दिलानाम्-कुसुमरसैराढ्यानाम् , अरविन्दानाम्-कमलानां मान्य मानार्हः भवतीति भावः। | दूतीकथितमतिगर्दा वृत्तं निशम्य सा सती मनसि दध्यौ-यदेनं व्यसनासक्तमुन्मत्तमधर्म मत्रिणं धिग् धिगस्तु । हन्त ! कथमेनमनीतिपरायणं मत्रिपदे न्ययुक्त ?, यो हि पुमान् सदाचारी न्यायपथानुचारी भवति तादृश एव जने तादृशाधिकारः शोभां दधाति । तदनहपुरुषे सोऽधिकारः प्रदातरज्ञतामेव व्यञ्जयति । यद्यपि विक्रमो राजा सदाचारी परोपकारी न्यायविच्छुयते, परमीदृशमकृत्यकर्तारं यदकरोन्मत्रिणं तेन तस्मिन् सन्तमपि सदाचारित्वादिगुणगणं कथङ्कारं महीयाञ्जनो विश्वसितुतमाम् ?, तन्मन्ये कुलपारंपर्येण मोहादथवाऽमुष्य खलताऽज्ञानतादिदुर्गुणजिज्ञासयाऽथवा तीव्रमतिमत्वादेनं मन्त्रिपदे नियुक्तवान् । असौ बहुदूरदेशे निवसन्मयि स्वमेऽप्यदृष्टायां कथं रागवानजायत ?, अशृणोद्वा कथमदृष्टामतिदूरवर्तिनी मामयम् , अथवा व्यवसायस्य हेतोरुज्जयिनीमीयिवान् विशुद्धधीर्भर्त्ता निरन्तरं राजसभायां गमागमौ विदधदासीत् , तत्रैव मदखण्डितशीलज्ञापिकां मत्पत्युरधिग्रीवं स्थितामम्लानामनवरतविकखरां मालामालोकमानः क्षितिपतिस्तत्परीक्षायै कौतुकादमुमत्राधमं ॥३६॥ Jain Education a l For Personal & Private Use Only l ainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy