________________
सपरिवारः क्षोणीपतिढं प्रससाद ।
ततस्तत्सदनान्तः कल्पतरूनिव मनोवाञ्छितफलदातृन्, तत्राधिष्टातृतया संस्थितांस्तांन् यक्षीकृतानालोक्य मनसि चमत्कृतो राजा दध्यौ-अहो ! एप सार्थेशो भाग्यवानस्ति यदस्य दासेर इव वशम्बदीभूय सर्वान् कामानमी यक्षाः सदैव पूरयन्ति, यद्यदादिशत्यसौ तदशेष सम्पादयन्ति च । यस्य पुंस ईदृशा वश्यास्तिष्ठन्ति देवाः स शतसहस्रादीनपि भोजयितुं कथं पाचयेन्नाम ? दुरवस्थानलक्षणद्विपविभञ्जनपश्चाननकल्पाः सकलमनोरथावाप्तिकृते कल्पशाखिन एते यक्षा यदि मम गृहे || तिष्ठेयुस्तहि कृतार्थः स्यामहमपि । अतएव भोजनानन्तरमेतान् यक्षान् सार्थवाहं याचिष्ये ?, यद्यप्येते सर्वथाऽदेया एव सन्ति, तथापि स औदार्यात्स्नेहादेश्चावश्यमेव दास्यति, कदापि याचनां विफलं न करिष्यति । एतेषां यक्षाणां प्रभावाल्लोकेभ्यो यथेष्टनानाविधसुभोजनप्रदानेन जगत्यामखण्डं यशःप्राप्स्यामि । परन्त्वहं राजास्मि, अयन्तु सेवकोऽस्ति, अतएनमहं कथं याचेय ?, यतो हि ' महतां मादृशां सेवकम्प्रतियाचनमवश्यं लघुत्वस्यैव हेतुर्भविष्यति ।' यदुक्तम्याचनं महतां तत्र, लघुता कारणं ध्रुवम् । ततो न याचितव्यं हि, जात्वाप भ्रमतोऽपि वा ॥३८॥
व्याख्या-अत्र संसारे महतामुन्नतानां पुंसां याचनं-याचा लघुतायाः कारणं ध्रुवमवश्यं भवति, अर्थात्-याचनान्महीयानपि लघीयान् भवति, ततस्तस्मात्कारणात् जात्वपि कदापि भ्रमतोऽज्ञानात् वाऽथवा अपिना ज्ञानतो हि-निश्चितं न याचितव्यम् । अन्यच्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org