________________
नाचम्पक माला
॥४१॥
६ बलि अब्भत्थणि महु-महणु लहुई हुआ सोइ । जइ इच्छह वडप्पणउं, देहु म मग्गउ कोइ ॥३९॥
___ व्याख्या-(सोइ ) सः (महुमहणु ) मधुमथनः श्रीकृष्णः (बलिअब्भत्थणि ) बलेरभ्यर्थनाद्याचनात् ( लहुइ)
लघुः (हुआ) अभूत् , अतः कारणात् ( जइ )यदि (वडप्पणउं) महत्त्वं (इच्छह) इच्छथ, तर्हि मह्यम् (देहु) देहि 8| इति (कोइ) कमपि (म) मा ( मग्गउ ) याचस्व ।।
अथापि सज्जनाः परेषामुपकृतये याचन्त एव, मेघाः सागरं वारीव । इत्थं चिन्ताकुलीभूतो यक्षग्रहणसमासक्तचेता विक्रमार्को नरनाथो महताऽऽग्रहेण सार्थवाहमवोचत-मित्र ! अहमिदानीं तावकीनामीदृशीमलौकिकीमद्भुतां यक्षकृतां सम्पदमालोकमान एतान् यक्षांस्त्वामभियाचे?, यद्यपि चिन्तामणिकल्पानेतान् यक्षान् दातुं न प्रभविष्यसि, तथापि लोलुप्यादभ्यर्थयेः, तन्मुधा माकृथाः। इति क्षितिपतौ निगदति सति सार्थवाह आह स्म-स्वामिन् ! कथमेवं ब्रवीषि ?, अहं खलु कस्यापि याचनं नो भनज्मि तर्हि सेव्यस्य प्रभोर्जिष्णोस्ते कथं तद् भक्ष्यामि ? । यदुक्तम्
मीयताङ्कथमनीप्सितमेषां, दीयतां कथमयाचितमेव ।
तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते यः॥४०॥ व्याख्या-एषामर्थिनामीप्सितं हृद्यङ्कथं मीयतां जानीयात् , अथवाऽयाचितमेव स्ववाञ्छितप्रकाशनमन्तरा कथं दीयतां दीयेत?, एवं सति यो दाता वाञ्छां दित्सां कलयन्-दर्शयन्नपि, अर्थिनां वागवसरं-तदीयाऽऽभ्यर्थनां सहते तं=
॥४१॥
For Persons & Private Use Only
Kilainelorary.org
Jain Education