________________
%AARAKARE
पश्यामि । तथैवाऽस्याद्भुतं दाक्षिण्यमसाधारणमेव विभाति । मय्यनुरागमप्येषा कमप्यगदनीयमेव धत्ते । एवमन्योक्तिलेखनकथनकौशल्यमप्यलौकिकमेवाऽस्त्यस्याः। इत्थं तां राज्ञीमालिङ्गितुं यथेष्टमालोकितुं समुत्सुकस्तस्यामत्यन्तानुरागी सार्थवाहश्चिन्तयति-नूनमेषा मय्यनुरागिणी प्रतिभाति, अतो ह्यस्या उपेक्षणं ममोचितं नो प्रतिभाति । सत्युपेक्षणे मदनशरजालपरिपीडिताङ्गी, हताशा सतीयं राज्ञी चेदमरिष्यत्तर्हि तद्धत्या ममैवालगिष्यदतो मया येन केनोपायेन तत्सन्निधौ गन्तव्यम् । तत्र गत्वा यदुचितं द्रक्ष्यामि तथा करिष्यामि । इति विचिन्तयन्निजसदनमागात् । तत्र कश्चिदेकं मतिमन्तं प्रेमपात्रं सखायं सर्वमेतदवोचत-मित्र ! एतत्कार्यमतीवदुःसाध्यमस्ति । यस्मादेकस्तम्भे सदने स्थितायास्तस्याः संयोगः सुकरो नास्ति, किन्त्वतीव दुष्करः। यद्यहं तत्र नो गच्छेयम् । तर्हि साऽवश्यमेव पञ्चबाणपारवश्यमिता राज्ञी मृति लप्स्यते, अतो मया किङ्करणीयमधुना, एकत्र विषमा नदी परत्र वा व्याघ्रोऽस्तीति न्यायो मे समुपस्थितः । अथवा भवतः साहाय्येन दुष्करमपि कृत्यं सौलभ्येनाशु सेत्स्यतीति मन्ये । यस्मादवरोधरक्षितकञ्चुकिनः प्रभावेण कौलिकोऽपि राजकन्यामसेवत खलु, किश्च धूलिकणिकापि वायोः संयोगात्पर्वतस्यापि शिखरमारोहति । परेषां साहाय्यतः खल्वसाध्यमपि सुकरतामभ्युपैति, मणिर्यथै| कपदमपि गन्तुं नेष्टे, अथापि परकीयसाहाय्येनागम्यमपि समुपैति । तथैतन्मत्कार्यमसाध्यमपि मतिमतामग्रेसरस्य ते साहाय्येन झटित्येव सेत्स्यति । इति सार्थवाहोक्तमाकलय्य तदीयदुःखेन खिद्यमानः स सखा तमेवमगदत्-सखे ! अवज्ञातः कश्चिजनो यथा जल्पेत्तथा त्वमेतत्सखेदं जजल्पिथ । एतच्च वृद्वान् सेवमानस्य ममासाध्यङ्कष्टसाध्यं वा नैवाऽस्ति । मयैकदा पुरा वृद्धमुखादश्रावि-यत्खलु महाबलीयान् भवति चन्दनगोधा, असावगम्यारोहणसदनेऽप्यनायासेन झटित्येवाऽऽरोहति
Jain Educatio
n
al
For Personal & Private Use Only
I
Mw .jainelibrary.org