SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ चरित्रम् श्रीचम्पकमाला __व्याख्या-भास्वन् ! हे सूर्य ! चेद्यदि तदभाग्यतः तस्या अभाग्यतः-कर्मदोषात, भवान् तदुपेक्षाम्-तस्या उपेक्षाम् कर्ता-करिष्यति, अर्थान्नागमिष्यति, तदा तर्हि, अवश्यमेव हताशा-विफलेच्छा सती सा भृङ्गी, अन्तसंयोगम् कृतान्तसंपकम् लप्स्यते, अर्थान्मरिष्यत्येव तत्र मनागपि संशयं मा कृथाः। पक्षे-मदीयाऽभाग्ययोगान्मदुपेक्षां विधाय नागमिष्यसि चेत्तर्हि नष्टाशाऽवश्यमेव मरिष्यामीति विदित्वा मयि कृपां नीत्वाऽवश्यमत्र त्वमायाहि ।। पश्चादेतद्दलं पर्णवीटिकान्तरितं विधाय गवाक्षस्था तदागमनकाइक्षिणी सा राज्ञी पश्चात्तत्रागतस्य सार्थवाहस्याङ्के - न्तय॑स्तदलां तां पर्णवीटिकां क्षिप्तवती । तदा गगनात्पतितां तामालोक्य किमेनां काचिद्देवताऽपातयदिति धिया सार्थवाहो निजां दृशमुपर्यकरोत् । तत्रावसरेऽधः पश्यन्तीं गवाक्षस्थां तामुवीक्ष्य तस्या रूपलावण्यतारुण्यावलोकनेन प्रमत्तो महाछाग इव गतब्रीडःस निमेषशून्यया दृशा तामवलोकितुं लग्ना, यस्मादीदृशां कामिना लोकलज्जा राजनीतिर्वा कथमुत्पद्येत ? तामेवाबलोकमानः स मनस्येवं ध्यातुमलगत् , नूनमेपा राज्ञी स्निग्धया दृशा मां पश्यन्ती मानसं रागं दर्शयति, यस्मादान्तररागमन्तरा काचिदप्यबला कमप्येवं नैवाऽवलोकते । जाने साक्षान्मूर्तिमती प्रीतिमेवैषा पर्णवीटिकामिमां मामार्पिपन्नु?, अत एवैतदन्तः किमस्तीति विटिकामुद्घाव्य मया सम्यगवलोकनीयम् । यतः 'रागिजनार्पित साधारणमपि बहुमानाहं जायते।' इत्यवगत्य तामुन्मुच्य तदन्तमूर्तिमतों मदनस्याऽऽदेशमिव मनोरमै पत्रे करकमलाङ्कितं श्लोकद्वयमद्राक्षीत्सार्थवाहः । तस्या मानसिकरागनिधेजिकल्पं श्लोकद्वयं वाचयित्वा तदीयमनोगतमाशयं जानानः सार्थवाहस्तया सत्रा सङ्गतुमत्यौत्सुक्यं बिभरामास । एवं ध्यातवांश्च मानसे अही! अत्याश्चर्यजनक रतेरपि रूपाऽखर्वगर्वापहारि किलैतस्या रूपमस्ति । लावण्यमप्यस्या लोकोत्तरं ॥१०॥ Jain Educati onal For Persona & Private Use Only ainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy