SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ नमालिङ्गय सुखिनी भवानि । यथाऽमुष्य दर्शनादुमे नयने साफल्यमयाश्चक्राते । तथैतदङ्गस्पर्शादङ्गमपि मामकं कदा सफलीभविष्यति ?, इत्थं विचियन्ती तमेव पुमांसमेकाग्रमनसा पश्यन्ती सा राज्ञी तस्मिन्नलक्ष्यतामुपगतेऽपि यन्मार्गेण गतवान् , तमेव पन्थानं विलक्षभावेन विलोकितुं लग्ना । पुनः क्षणान्तरादेव सावधानहृदया सा मनस्येवं चिन्तितुं लग्ना-यदहमेतत्पुंसायोगमन्तरा क्षणमपि जीवितुं नैव शक्नोमि, अतएव मदीयजीवितधारकीभूतस्यामुष्य पुंसो गाढाश्लेषं यथाऽऽप्नुयां तथा मया यतितव्यम् । यतः 'स्वप्राणधारणाय यः खल्वालस्यं विधत्ते, विलम्बयति वा स प्रान्ते महाकष्टमामोति ।' अतो ममैतदर्थसाधने विलम्बकरणमनर्थकार्येव स्यात् । इत्यवधार्य सा तरुणी तस्मै धनवते सार्थवाहाय स्वाभिप्रायं बोधयितुं निस्त्रपाऽकुतोभया तदैवैकस्मिन् पत्रे श्लोकयुगलमिदमलेखीत्" नाथ ! प्रदोषसंरुद्धसञ्चारा पद्मसद्मगा। भृङ्गी समीहते चिन्ता व्याप्ता मित्र ! तवागमम्” ॥१॥ व्याख्या हे नाथ ! प्रदोषे सायङ्काले संरुद्धः सञ्चारो गमनं यस्याः सा निशावरुद्धगमना, पुनः पद्मानां कमलानां सदने गता प्राप्ता, अतएव चिन्ताव्याप्ता=चिन्ताकुला भृङ्गी मित्र :-सूर्य ! तवागमनं समीहते-कामयते, पक्षे काचिन्नायिका पुरुषान्तरं निगदति-नाथ ! यथा निषिद्धनैशिकगमना, कमलभवनगता, चिन्ताकुला, भृङ्गी स्वश्रेयसे सूर्य वाञ्छति, तथाहं सदने निरुद्धाऽतिमदनदहनदग्धीकृताशेषगात्रा, त्वामेव किलैच्छामि । | " तदुपेक्षां भवान् भास्वन् ! ,कर्ता चेत्तदभाग्यतः।हताशाऽन्तसंयोगं तदा सा लप्स्यते ध्रुवम् ॥२॥ Jain Education Meena For Personal & Private Use Only mjainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy