SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीचम्पकमाला ॥ ११ ॥ Jain Education खलु । अत आशु कुतश्चित्स आनीयताम् । यदसौ जलेन वियुक्तं मीनमित्र तया कामिन्या वियुक्तं त्वामतिदुखिनं तस्या अन्तिकमचिरेणैव नेष्यति । अतएव वातप्रणुन्नो दहनो यथाऽऽशु काननं दहति, तथा हेमित्र ! त्वत्प्रेमप्रेरितोऽहं सर्वमेतदनायासेन करिष्यामि । यस्मादधुनैष तावकीमेनां चिन्तामपाहरामि । यतः - ' बलवन्तं मतिमन्तमपि पुमांसं समुत्पन्ना चिन्ता चितेव निर्दहतितमाम् ।' यदाह चिता चिन्ता समायोगे, चिन्तैवास्ति गरीयसी । चिता दहति निर्जीवं, सजीवं स्फुटमेव सा ॥ १० ॥ व्याख्या - चिताचिन्तयोरुभयोर्योगे चिन्तैव गरीयसी - क्लेशाधिक्यप्रदानादतिगुर्वी विद्यते । यतः - चिता निर्जीवम् - मृतं दहति चिन्ता तु जीवन्तमेव प्राणिनं हठाद्दहतीति । इत्थं तं सार्थवाहमाश्वा॒स्य स्वयं तदैव कमपि ग्रामं गत्वा पूर्वपरिचितचौरपार्श्वात्सुशिक्षितं चन्दनगोधामादाय क्वचित्कलशे निधाय सार्थवाहेन सार्ध मे कैकहस्तोपरिदत्तग्रन्थिकां डोरिकां महीयसीं द्रढीयसीं च गृहीत्वा तस्यामेव रजन्यामेकस्तम्भभवनसमीपमायातः । तत्रागत्य घटाच्चन्दनगोधां निष्काश्य तत्कट्यां तां डोरिकां बध्वा वंशदण्डोपर्यारोप्य तामूर्ध्वमुदक्षिपत् । सापि तत्क्षणमेव चटन्ती सती तत्सौधीयवातायने गाढमाश्लिष्य तस्थौ । तदनु स सार्थवाहस्तेन सख्या प्रेरित उभाभ्याङ्कराभ्यां डोरिकां गृहीत्वा पदाङ्गुष्ठमङ्गुलीश्च डोरिकामध्यभागकृतग्रन्थिषु संस्थाप्य वंशाग्रे महानट इव दुरारोहमपि तदेकस्तम्भीitsar गवाक्षे निर्भयं तस्थिवान् । तत्पश्चात्तदीयसखा फूत्कारसङ्केतेन तां चन्दनगोधामध आनीय घटे संस्थाप्य तत्रैव क्वचिद्गुप्तस्थानेऽतिष्टत् । ortal For Personal & Private Use Only चरित्रम्, ॥ ११ ॥ jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy