________________
| सत्यमवेहि । यथा खलु तृषाकुलो जनो यथेष्टं वारि पीत्वैव तां शमयति, बुभुक्षितो जनः खादितैव स्वस्थी भवति नान्यथा । | तद्वदेव त्वदुपभुक्ता सत्येवाहं स्वस्था भवितुमर्हामि, इतरथा गतासुरेव भविष्यामि । स्वास्थ्ये सत्येव जनो नीतिवाक्यानि ४ चिन्तयति, पण्डितोक्तिं श्रद्दधाति । वैपरीत्ये तु निषिद्धमप्याचरति,अवाच्यमपि जल्पति, कर्त्तव्याऽकर्त्तव्ये नैव जानाति । यदुक्तम्
निषिमेद्धप्याचरणीयमापदि, क्रियां सती नाऽवति यत्र सर्वथा।।
घनाम्बुना राजपथेऽतिपिच्छले, क्वचिबुधैरप्यपथेन गम्यते ॥ १२॥ व्याख्या-यत्र-यस्यामापदि समागताऽऽपत्तिकाले जनः सर्वथा केनापि रूपेण सतीं विद्यमानामुचितां क्रियां स्थिति मर्यादां नावति-अवितुं-रक्षितुं न शक्नोति, तत्रापदि तेन जनेन निषिद्ध-लोकविरुद्धमप्याचरणीयमनुष्टेयमिति यावत् । तदेव | दृष्टान्तेन दृढयन्नाह-घनाम्बुना-वृष्ट्याधिक्येन राजपथे-राजमार्गेऽतिपिच्छले क्वचिबुधैरपि निरुपायत्वादपथेन गम्यते । | अतः-आवयोरपि निरुपायतया निषिद्धाचरणं नो दूषणं, किन्तु भूषणमेवेति तत्त्वम् । तथा चस्वस्थावस्थे शरीरे हि, निषिद्धं सद्भिरौषधम् । विपर्यये तु तैरेव, तदप्याद्रियते ध्रुवम् ॥ १३॥
व्याख्या-शरीरे देहे स्वस्थावस्थे-नीरोगे सत्येव सद्भिः पण्डितैरौषधं निषिद्धंन्यषेधि, विपर्यये व्यत्यासे रोग| सद्भावे तु तैरेव-पण्डितैरेव तदपि-औषधमपि आद्रियते-सेव्यते । अन्यदपि श्रूयताम्-शास्त्रे खलु सर्वत्रोत्सर्गाऽपवादौ दर्शितौ स्तः, इति हेतोरेतस्मिन् प्रस्तुतेऽर्थे सार्थेश ! त्वयाप्यपवादमार्ग एवाऽऽलम्ब्यताम् । तथा सति कापि क्षतिन स्यात् ।
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org