________________
शारदपूर्णचन्द्रा सा मामेवमवोचत - भिक्षो ! लब्धायां भिक्षायां त्वमत्र चिरं कथङ्कारं तिष्ठसि किं चिकीर्षसि १, किं विलोकसे वा ?, स्वस्थानं याहि १, इति तदुक्तिमाकर्ण्य तद्गृहान्निर्गत्य क्वचिदासन्न बाह्यप्रदेशे समुपविश्य मनसि खेदमधिगच्छन्नतिदुःखितमना व्यचिन्तयम् - हन्त ! कीदृशं मे प्रारब्धम्रदैत्, यदहं सर्वत्र तिरस्कृतो भवन्नत्रापि मत्पत्न्याऽपि ज्ञानादज्ञानाद्वा हतभाग्यतयाऽपमानितो बभूवान् । अहो ! कीदृशी कर्मणो गहनागतिः, यदा पुंसां भाग्यं जागृतं विलसति, तदा विपक्षोऽपि सम्मनुते सर्वत्रैव सुखमनुभवति । तद्व्यत्यये तु-हितोऽप्यहितायते, पदे पदे दुःखमेव भुङ्क्ते । यतः -- ' त्रिभुवनजिष्णो रावणस्य विलसति शुभावहे प्रारब्धे सर्वेऽपि देवाः सेवायामतिष्ठन्, तस्यैव यदा पुनरशुभा दशा समैत्, तदा निर्भाग्यं दशग्रीवं निजबन्धुरपि विभीषणः प्रतिपक्षीभूय तत्याजैव । ' अतएवाऽधुना मया किमाचरणीयम् १, अत्रैव कतिचिद्दिनानि स्थेयमथवा स्वसदने गन्तव्यम् १, अथवा स्त्रीलक्ष्म्यावुभे विना गृहङ्गत्वापि किङ्करिष्यामि ?, तस्माल्लक्ष्मीस्त्रियोरुभयोर्मध्यादेकस्यामपि मद्धस्तगतायां सत्यामेव मया स्वगृहम्प्रति गन्तव्यमन्यथा देशान्तर एव निवसनं श्रेयस्करम् । यतः - - ' औत्सुक्यात्कार्याणि न सिध्यन्ति, अपितु नश्यन्ति ।' यदाह
Jain Education International
यशोधिगन्तुं सुखलिप्सया वा, मनुष्यसंख्यामतिवर्त्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥ २८ ॥
व्याख्या – ये खलु महत्तरं यशः = कीर्त्तिमधिगन्तुमुशन्ति, सर्वाधिकं सुखं वा लिप्सन्ति - लब्धुं वाञ्छन्ति, मनुष्यसं
For Personal & Private Use Only
ainelibrary.org