SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीचम्पक चरित्रम्. माला ॥१८॥ पातिव्रत्याय जलाञ्जलिमदिथाः। अतएव जारप्रकटने भर्तुः कापि भीतिस्त्वया नैव कार्या । यो दोषो द्वयोस्तुल्योऽस्ति तत्रैको द्वितीयं नो दूषयतीति न्यायमतम् । तथाच नैयायिकःयत्रोभयोः समो दोषः, परिहारोऽपि तत्समः। नैकस्तत्र नियोक्तव्यस्तागर्थविचारणे ॥ २०॥ व्याख्या-यत्रोभयोः समः-समानो दोषस्तत्र परिहारोऽपि तद्दोषावारणमपि तयोरुभयोः समान एव भवति, तत्रद्वयोर्मध्ये तादृगर्थविचारणे-तदोषपरिहारायैको नैव नियोक्तव्यः, उभयोः समत्वात् । किञ्चातिकामुको योग्यसौ षड्भिलोचनैस्त्वामहर्निशं गोपायति, तथाप्यहं तदीयमेतद्वृत्तं यथाऽज्ञासिषम् , तथैव तावकीनमपि चरित्रमतिगुह्यमहं वेमि, अत-एव भयं व्रीडां वा विहाय मद्वचनमादृत्य वेणीन्यस्तडिम्बिकास्थं जारं बहिष्कुरु । इत्थं | नृपाग्रहेण भीतिभुज्झित्वा प्रथमं डिब्बिकातोऽतिहस्वं पुरुषं प्रकट्य ? पश्चाद्विद्यायोगेन यथोचितं तं कृत्वा तृतीय आसने | समुपावेशयत् । तदनन्तरं राजा राज्ञीमित्याचख्यौ-सुन्दरि ! त्वमपि योगिनीव मद्वचनं मत्वा सत्वरं स्वकीयं जारं प्रकाशय ?, इति | राज्ञ आदेशमाकर्ण्य मनसि साहसमानीय सकोपं निगदितुं लग्ना-'स्वामिन् ! किमहं कुलटास्मि, यजाम् सेवेय ?, ईदृशमपोग्यं किमात्थ ?, अहं सत्यमालपामि-यन्मे प्राणाधारः प्राणप्रियस्त्वमेवासि कोऽप्यन्यो नैवास्ति । अपि च मम रक्षणे विपदि वा शरणभूतस्त्वमेवासि, किञ्च, मन्मनोऽभीष्टफलप्रदानात्त्वं चिन्तामणिकल्पोऽसि, मत्पोषणाच जीवितव्यमपि त्वमेवासि । किमन्यबिगदामि-कल्पतरुमिव सकलमनोरथपूरयितारं त्वां विमुच्य करीरमुष्ट्रीय पुरुषान्तरं कथङ्कारमहं स्वमेऽपि ॥१८॥ Jain Education MIWILI For Personal & Private Use Only SONainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy