SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थः प्रस्तावः प्रारभ्यतेसत्याश्चम्पकमालायाः, सतीत्वस्य परीक्षणम् । प्रस्तावेस्मिंश्चतुर्थे हि, वर्णयामि सुविस्तरात् ॥१॥ अथैकस्मिन्प्रस्तावे कमलभृरिवाधिसभं सिंहासने सुखाऽऽसीनः स्मेरायमाणशारदशर्वरीशसहोदरवदनः, अतएव दाडिमीबीजानुकारिदन्तांशुकाशिताऽशेषाशो हास्यक्रीडनतत्परो मन्त्रिचतुष्टयपरिवृतः विक्रमार्कक्षितिपतिः पुरा सार्थवाहमुखाद्यथाश्रुतश्चम्पकमालायाः शीलमाहात्यमखण्डितं महाश्चर्यकारि तत्तेषां मन्त्रिणामग्रे वदितुमारभत । नृपोक्तं तदाकर्ण्य महाद्भुतमेतदिति चकितास्ते राजानमेवमवोचन्त-स्वामिन् ! नह्येतत्तथ्यं प्रतिभाति, सर्वथाऽलीकमेवैतन्मन्यामहे । यद्यपि शास्त्रकारः शास्त्रे सर्वव्यापिनः सर्वसिद्धिमतो ब्रह्मणो ज्ञानमिव स्त्रीणां चरित्रमपि दुर्जेयमित्याहुः। यथा वातिचपलानां मत्स्यानामालयानि जलानि न शुद्ध्यन्ति तथा चपलतरप्रकृतिकानां स्त्रीणां मनः शुद्धतां स्थैर्य वा कथमापद्येत ?, सर्वथैतदाकाशकुसुममेव प्रतीयते । भवानिव विशुद्धमना अखण्डितशीलशाली पुमान् यद्यपि कश्चिदन्यः सम्भवति, किन्तु निसर्गचपलाः कौटिल्यप्रियाः कामिन्यस्त्वखण्डितशीलाः कदापि नैव सम्भवन्ति । यद्यपि काचिदबला स्थानस्य प्रार्थयितुर्वा विरहान्निजपरिजनभीत्या ब्रीडया वा कायिकं वाचनिकश्च शीलमवत्यपि, मनस्तु तस्या अपि शुद्धं नैव जात्वपि भवितुमर्हति, तासां मनसा शीलपालनं शशधृङ्गतुल्यमेव जानीहि । यतः-'कामिनीनां चित्तमनरवतं चञ्चलमेव वर्वति ।' अतः स्त्रीणां त्रिकरणविशुद्धं Jain Education Intematonai For Persons & Private Use Only ww.jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy