SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तत्प्रशंसनीयमेवाऽस्ति । इयं जगती त्वादृशे क्षमाकारिणि पुरुषरत्ने सत्येव 'रत्नगर्भा' इत्युच्यते । तामन्वर्था त्वमेव कुरुषे, नाऽन्यः कोऽपीति सत्यं मन्यामहे । इत्थं चातुर्येण जल्पन्तं सार्थवाहं राजा तुर्यासने समुपावेशयत् , ततः कापट्यपरिपुष्टतां नीतां तां स्वकीयां राज्ञी पञ्चमासने समुपावेशितवान् । तदनु राजा स्वयमेव तान् पञ्चापि सरसं भोज्यं भोजयित्वा स्वयमभुत । ततस्तं योगिनं सत्कारपूर्वकं विससर्ज, सार्थवाहश्चान्तिके समस्थापयत हार्दिकप्रेमाऽमृतरसनिर्भरेण । श्रीसौधर्मबृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिप-श्रीराजेन्द्रजगज्जयिष्णुचरणाम्भोजद्वयान्तेसदा। एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे द्वितीयः श्रीचम्पकमालिकीयचरिते प्रस्ताव एषोऽनघः॥१॥ अथ तृतीयः प्रस्तावः प्रारभ्यते अथोत्तमोत्तमच्छवी राजा सर्वाङ्गकमनीयस्य तस्य सार्थवाहस्य प्रत्यङ्गोपाङ्गं स्निग्धया दृशा परिपश्यन् सौवर्णिकाचम्पकमालामिव सार्थवाहमूनिस्थिताञ्चम्पकमालामम्लानामपूर्वामद्राक्षीत् । तामालोक्य मनस्युद्भूत महाश्चर्यो राजा तमप्राक्षीत्सार्थेश ! मदङ्गसङ्गात्कुसुमस्रगचिरादेव म्लायति, भवन्मूर्धन्येयं कुसुममाला कथङ्कारमम्लाना लक्ष्यते, किमियं देवार्पिता यन्नो म्लायतीति सत्यं निगद । इत्याश्चर्यवहं क्षितिपतेर्वचः श्रुत्वा सार्थवाहो राजानमवोचत-प्रभो! यदहं तत्कारणं निगदामि, Jan Educa For Persons & Private Use Only Tainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy