SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीचम्पक माला ॥ २०॥ REASACARRASSACREAK तदवितथमेव ज्ञातव्यमलीकं मा वेदीः। मम मूर्धनि स्थितेयं माला मत्पत्न्या अखण्डशीलप्रभावादेव न जात्वपि म्लानिमावहते । पुनराह राजा-श्रेष्ठिन् ! सम्प्रतिकाले स्त्रीणामखण्डं शीलं शशविषाणवदेव प्रतिभाति, मया तु काचिदप्यखण्डितशीला कामिनी नैवाऽऽलोकि, तर्हि कथमेतत्सत्यं मन्यामहे ? । ' सार्थवाह उवाच-स्वामिन् ! श्रूयतामेतदामूलतः अङ्गदेशे साक्षाच्छीसदनमिव सर्वर्द्धिशालिनी चम्पा नाम्नी नगरी महीयसी चाचकीति । तत्र कुबेरोपमो धन्नाभिधानः श्रेष्ठयभूत् । तस्य धनकेलि नामा पुत्रोऽस्म्यहम् । सोऽहं बालचन्द्रमाः प्रतिघस्रं वर्द्धमानो भवन् कलया परिपूर्णीभवंश्च यथा सागरमाहादयते तथा क्रमशः प्रत्यहं नवनवाः कला गृह्णन् , शैशवं त्यजन्, सल्लावण्यपीयूषैः पूर्णीभवन् , तारुण्येनोल्लसंश्च निजकुलोदधिं प्रैधयितुमलगम् । इतश्च कौशाम्ब्यां पुयाँ विमलवाहमहेभ्यस्य साक्षाल्लक्ष्मीरिव रुक्मिणी नाम्नी तनयाऽऽसीत् । पित्रा च महतामहेन तस्याः पाणिपीडनं मयाऽकारि । ततस्तां प्राणतोऽप्यधिकप्रियां स्वसदनमनैषमहम् । ततोऽहं तया साकं निर्भाग्यप्राणिदुरापमनुपमं भोग भोक्तुमलगम् । अथैकदा प्रस्ताव पण्डितोक्तं नीतिवाक्यमहमश्रौषम् । तथाहि-यः खलु | पितुर्लक्ष्मी भुंक्ते स पुमान्महापापीयान् देवदारुतरुरिख पितुः सुखाय नैवार्हति । यदुक्तम् जनकार्जिता विभूतिर्भगनीति सुनीतिवेदिभिः सद्भिः। सत्पात्र एव योज्या, नतु भोग्या यौवनाभिमुखैः ॥ २१ ॥ व्याख्या-जनकेन पित्रार्जितोपार्जिता विभूतिरैश्वर्यं भगिनी स्वसेति सुनीतिवेदिभिः सन्न्यायज्ञैः सद्भिर्महाजनैर्निग ॥२०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy