SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ नायाति, श्वश्रूश्वशुरौ च मे मृत्युमधिजग्मतुः, अतएव भर्तरि सत्यपि तेन विना ममैकाकिन्या अत्र वासो न युज्यते ?, सम्प्रति पित्रालय एव दुःखिन्या मम निवासः श्रेयानिति' निश्चित्याऽवशिष्टाऽऽभरणवसनादिकमादाय क्रन्दन्ती, नष्टप्रायमालयमिदं जलाञ्जलिमर्पयन्तीव, यूयमस्मदेतत्सदनं निपतितं रक्षतेति निजसम्बन्धिवर्ग सादरं मुहुर्मुहुर्बोधयन्ती कञ्चनैकं भृत्य सार्धं नीत्वा कौशाम्ब्या निजतातसदनमगादिति तव पित्रोः पत्न्याश्च वार्ता जानीहि । वयस्य ! भवितव्यं बलवदस्ति, ये खल्वत्र महीयांसो नरोत्तमा नलरामादयो जज्ञिरे तेऽपि तदरीकर्तुमलं नैव बभूवांसः। तथा चोक्तम्| नेता यस्य बृहस्पतिः प्रहरणं वजं सुराः सैनिकाः, स्वर्गो दुर्गमनिग्रहः किल हरेरैरावतो वारणः। । इत्यैश्वर्यबलान्वितोऽपि बलिभिर्भग्नः परैः सगरे, तद्व्यक्तं वरमेव देवशरणं धिधिग्वृथा पौरुषम् ॥२४॥ ___व्याख्या–यस्य हरेरिन्द्रस्य बृहस्पतिर्वागीशो नेता-नायको मन्त्रयिता, वज्र प्रहरणमस्त्रम् , सुराः सैनिकाः सेनाः, अनिग्रहः परैरप्यधिगन्तुमशक्यः, स्वर्गो दुर्गम् , ऐरावतस्तन्नामा वारणो वाहनम्, इतीदृशैश्वर्यबलान्वितोऽपि स हरिरिन्द्रो बलिभिर्बलवद्भिः परैः शत्रुभिः सङ्गरे-संग्रामे भग्नः पराजितः, तस्मादेवशरणं-भाग्य-भवितव्यमेव शरणं वरं श्रेष्ठमिति व्यक्तं स्फुटम् , वृथा क्रियमाणं पौरुषमुद्यम धिर धिगस्तु । तथा चमज्जत्वम्भसि यातु मेरुशिखरं शत्रु जयत्वाहवे, वाणिज्यं कृषिसेवनादिसकलाः पुण्याः कलाः शिक्षतु। आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं, नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः॥२५॥ Jain Education For Personal & Private Use Only Mainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy