________________
श्रीचम्पकमाला
॥२३॥
व्याख्या-इह संसारे कश्चिदम्भसिजले मजतु, मेरोः शिखरमुपरिष्टाद् यातु तत्र गत्वा तिष्ठतु वा, आवे=रणे शत्रु जयतु, वाणिज्य व्यापार वा पुण्याः पवित्राः कृषिसेवनादिकाः सकलाः कलाः शिक्षतु समभ्यस्यतु, अथवा परमन्यं श्रेष्ठं वा प्रयत्नमुद्योगं कृत्वा खगवत्=पक्षीव विपुलमतिविस्तीर्णमाकाशं प्रयातु, किन्तु कर्मवशत: कर्मयोगाद् यदभाव्यं तन्नैव भवति, यच्च भाव्यं तदन्यथा नोभवति भवत्येव, यतो भाव्यस्य भवितव्यतायाः नाशः कुतः कथमपि नैव जायते, इति तत्त्वम् । | स्वामिन् ! इत्थं गृहासन्नवर्तिलोकानामास्वतः पित्रोत्तिा निशम्याऽगदनीयमननुभूतमेव दुःखमभूत् , तदाऽहमशोचम्हन्त ! मातापित्रोरीदृग्दुःखदातारं, व्यसनाऽऽसक्त्या समुद्भुतप्रभूतदुःखसदनं, चन्द्रावदातमपि निजकुलं मालिन्यं नयन्तं मां धिगस्तु । हहो ! महति सत्कुले समुत्पद्याहमीदृशं नीचैस्तमं व्यसनमसेविषि, अतो मां धिर धिगस्तु, यतो मया कुलकलकिना पूर्वार्जितमपि वित्तं महत्त्वञ्च व्यनाशि । यथा व्योम्नि नवोदितो नभोमणिस्तमःस्तोमं निरस्य सुषमां दधाति, तथा कियन्तः सन्तः पुत्रा दुःखलक्षणं ध्वान्तनिचयमवधूय निजवंशाऽऽकाशं भृशमुद्द्योतयन्ते, यावजीवं निर्मलीभूय शोभन्ते च । निसर्गतो देदीप्यमाने कुले समुद्भुतोऽहमिवाऽपरः कोऽपि कुलाङ्गारकल्पः पितुर्नामधामरक्षणाऽसक्तो नैवास्ति । यदहं पित्रो| मरणमपि नाऽवेदिषं वेश्यासक्तचित्तत्वात् । अतो मे विवेकं गाढस्नेहं दाक्षिण्यं विनयश्च धिगस्तु धिगस्तु । हहो! व्यसनीभूय पूर्वसञ्चिताऽशेषधनविनाशी पित्रोरतिक्लशोत्पादी सुजनवर्गे कथङ्कारमात्ममुखं दर्शयिष्यामीति । अथवेदानीं यदभूत्तस्य शोकेनाऽलम् , यतः ' शोको हि मतिमतामपि मतिं विनाशयति तेन हि पश्चात्क्षयः समुत्पद्यते, तस्मिन्नुत्पन्ने क्रमशः क्षीणं भवदिदं
॥२३॥
Jain EducationMahebional
For Personal & Private Use Only
Mw.jainelibrary.org