________________
शरीरमेव नश्यति ।' अतएव बालिशेनेव मया तदर्थ नैव शोचनीयम् । किन्तु लक्ष्मीलाभनिदानं व्यापारः कोऽपि कर्त्तव्यः । यतो द्रव्यवतामितरे सकला अप्यनायासेन सिध्यन्ति मनोरथाः । सति च द्रव्ये पुनरपि महत्त्वादिकं स्वयमेव भविष्यति ।' उक्तञ्च नीतिशास्त्रे
यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः. सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ २६ ॥ व्याख्या-इह संसारे यस्य पुसो वित्तं धनमस्ति विद्यते स नरः कुलहीनोऽपि कुलीनः सत्कुलवान् मन्यते, स धनवान् मूर्योऽपि पण्डितः विद्वान् कथ्यते, स श्रुतवान् शास्त्रज्ञः, मतिहीनोऽपि मतिमान् निगद्यते, स गुणज्ञः गुणानजाननपि गुणग्राहीत्युच्यते, सएव वक्ता, दर्शनीयः द्रष्टुं योग्यो जायते, किमधिकञ्जल्पामि सर्वे गुणाः काञ्चनं स्वर्णमाश्रयन्ते तमेवाश्रित्य वर्तन्ते ।। ___यथा खलु बीजमन्तराऽङ्करोत्पत्तिर्न सम्भवति, तथाऽर्थमन्तरा कश्चिद् व्यापारो मया कर्तुं नैव पार्यते । मूलं विना यद् व्याप्रियते परेषां सेवनादिकं तत्तु परतन्त्रत्वाद्दुःखनिदानमेवास्ति, नाऽहं तथा चिकीरस्मि, ममेदानीमन्यः कश्चिदपि धनं नो ददिष्यते, श्वशुरपार्थादेव मिलितुं सम्भाव्यते ?, नूनमेव निजपुत्रीस्नेहान्मामकीमिमां दुरवस्थामालोक्य समुद्भूताऽदभ्रदुःखप्रचयो दास्यत्येव व्यापर्तुं धनानि । यद्यपि मतिमन्तो लोका श्वशुरं जात्वपि धनं नैव याचन्ते, तद्याचनस्याऽवहेलनहेतु
Jan Education intematon
For Persona & Private Use Only
Mirainelibrary.org