________________
बीचम्पकमाला
॥३५॥
ङ्गपञ्चाननातिभूषणे यौवनमहाकानने त्वामेकाकिनीमबलामजहात् । गतवांश्चान्यत्र तर्हि तदन्यः शठश्च को नाम द्वितीयो निगद्येत । अत एव सुमुखि ! तदनुरागं विजहाहि ?, हितं मद्वचः शृणु ?-त्वन्मनोऽनुकूलेन केनचिदनुरागिणा यूना पुंसा सत्रा स्वैरं विहर, यौवनश्चादः सफलं कुरुष्व । भोगं विना निरुपममपीदं तव यौवनं नूनमाकाशकुसुममिव मुधैव याति । यथा 'पुंसां प्राधान्येन सुखसाधनं कामिनी वर्तते तथैव योषितामपि तदसाधारणं साधनं पुमानेव भवति ।' तदाह कश्चित्कविः
प्रत्यागमिष्यति भविष्यति सङ्गमो नौ, संदृश्यते च भवतो हृदयेऽनुरागः।।
एषा गता न पुनरेष्यात जीवितेश ?, विद्युद्विलासचपला नवयौवनश्रीः ॥ ३६ ॥ व्याव्या-हेजीवितेश ! भवान् प्रत्यागमिष्यति-देशान्तरात्परावर्त्यति, ततो नौ-आवयोः सङ्गमो मेलनमपि भविध्यति, तत्र मनागपि नैव संशये । यतो यस्माद् भवतस्तव हृदये मनसि ममाऽनुरागः संदृश्यते-विलोक्यते, किन्तु एषा इयं विद्युतस्तडितो विलास इव चपलाऽस्थिरा नवयौवनश्रीः गताऽतीता सती पुन वैष्यति, अतएव यौवनश्रियमुपभोगेन सफलीकृत्वैव विदेशं याहि ।।
तादृशः श्रेयान् गुणवान् पुमान् दृशं न रोहतीति तु नैव वाच्यम् ?, यथा त्वं सुष्ठुश्रीः सृष्टौ गुणै रूपैस्तारुण्यैरेकासि तथा पुमानपि कश्चिदस्त्येव, इति तथ्यमवेहि । यः खलु गुणवानस्ति, सपुमानवश्यमेव गुणगणमण्डितसज्जनसङ्गत्यै स्वयमेव प्रवत्तते, नहि कस्यचिन्नोदनमपेक्षते, सब्जिगंसया कमलिनीम्प्रति केनाप्यप्रेर्यमाणो हंस इव । गुणवतां तादृशी प्रकृतिरेव
Jan Education
For Persons & Private Use Only
www.jainelibrary.org