SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ बीचम्पक माला ॥२॥ परिपक्कता नीतं मृण्मयभाण्डमिव पुनः सन्धातुं केनापि नैव शक्यते । किञ्चामुष्य शीलस्य सम्यगाराधितस्य लोकोत्तरोऽत्यद्भुतः प्रभावो जगत्रये समेषां भव्यानां सुप्रतीत एव जागर्ति दिवानिशम् । इत्थममुष्य सच्छीलस्यापि प्राधान्यं जगत्यामाततमानां मुखादालोकमानोऽप्यहमपि यथामति संक्षिप्तमुपवर्ण्य सम्प्रति प्रस्तुतां कथां वर्णयामि । तथाहि अस्मिन् भरतखण्डे जम्बूद्वीपे लक्ष्मीदेव्या मनोहरागारमिव सकलदेशललामभृतो मालवो नाम जनपदो वरीवति । यस्याऽनुपमविभूतिलवलेशोऽपि दिवा नाऽऽलम्भि । भृशमेष स्वीययाऽतुलया धियाऽमरपुरं हेपयमाणो विचकास्ति । अतः स्वर्गादपि गरीयानेष मालवो जनपदः सदैव चाचकीतितमाम् , स्वर्गे यथा विमानानि शोभन्ते, तद्वद् यत्र नगराणि महत्तराणि निलिम्पानामपि चेतोहराणि शोशुभ्यन्ते । किश्च यत्र नगराणि विशालतराणि सकमलानि शश्वदमलजलपरिपूर्णानि सरांस्यसंख्यानि दरीदृश्यन्ते । लसन्ति च तेषु नगरेषु सकलशास्त्रपारङ्गता विद्याचणाः कर्मठाः सुरा इव भूयांसो भूसुराः। विभ्राजन्ते च तेषु गगनचुम्बीनि सप्ताष्टभौमानि सौधानि । मदयन्ति च येषु नगरेषु वैमानिका अप्सरस इव सौन्दर्यगर्विताः सच्छीलमण्डिताः सुस्थिरयौवनाः सकलाश्च कान्ताः। ध्रुवमत्र देशे ग्रामटिका अपि देशान्तरीयनगराद् दीर्घतरा एव समुल्लसन्ति विषयग्रामा इव । विषयग्रामे यथा विविधविषयाः सुखार्हा अतिसुन्दराः सन्ति, तथैव यत्र मालवीयपुर्या कियत्यः कान्ता बालाः सुकोमलाः, कियत्यस्तडिद्गौरवर्णाः सुतारुण्यपरिपूर्णा यूनां मनोहराः सुसजिताः सदैव विराजन्ते । किञ्च नानाविधकमनीयाराम-वापीकूप-तटाकानेकमणिमयजिनेश्वरीयगगनलिहचैत्यैः सुमण्डिता लघुग्रामा अपि विदुषां चेतःसु द्रुततरमाह्लादं जनयितुं पटीयांसः सन्ति, चेत्तत्र महानगराणि सुरनगरतोऽप्यधिकानि स्युस्तत्र किञ्चित्रम् । किंबहुना, यत्र याताः कवयो मोमुद्यमाना द्यामपि विषयग्रामे यथा विविधाविषण्ण परिपूर्णा यूनां मनोहराः सानामा अपि विदुषां चेतः शान्तरीयनगर सुन्दराः सन्ति नकमणिमयायपरिपूर्णा ॥२॥ क 25 Jain Education For Personal & Private Use Only प्र jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy