________________
*
***
*
*
शीलं प्रधानं न कुलं प्रधानं, कुलेन किं शीलविवर्जितेन ।
नैके नरा नीचकुले प्रसूताः, स्वर्गङ्गताः शीलमुपेत्य धीराः ॥ ३३ ॥ व्याख्या-इह लोके शीलमेव प्रधान मुख्यमस्ति, कुलं न प्रधानमस्ति, शीलविवर्जितेन=शील विना कुलेन किम् = | अकिञ्चित्करं मुधैव । यतः-नीचकुले अधमकुले प्रसूता उत्पन्ना अप्यनेके नरा धीराः मतिमन्तः शीलमुपेत्य परिपाल्य स्वर्गङ्गताः स्वर्गमापेदिरे । अतः शीलस्यैव प्राधान्यं नाऽन्यस्येति तत्वं जानीहि ।
राजन् ! अमुष्या मालाया अम्लानतायां योऽयं हेतुस्तवाग्रे मया न्यगादि, तं तथ्यमेव विजानीहि । यतः--'स्वामिनोऽग्रेऽलीकभाषणमनर्थहेतुर्भवतीति सत्यमेव भाषितव्यमाश्रितैः पुरुषैः।' इत्थं सार्थवाहोत्तमाकर्ण्य विक्रमार्को राजा विहस्य तमेवमुवाच-सार्थेश ! त्वमेवं शीलप्रभावं जानासि चेत्स्वयमीदृशानाचारं कथं चकर्थ ?, अर्थादन्यस्त्रीगमनेन स्वीयशीलं कथङ्कारमभाक्षीः ?, ईदृशे ज्ञाने त्वयि विद्यमाने सति कथं महापापजनके चिरकालिकदुर्गतिप्रदे तादृशेऽकृत्ये प्रावर्त्तथाः ?, करकमले दीपके ध्रियमाणे किं दृष्टिमान् पुमान् गर्ने पतति ?, नैव निपततीति हार्दम् । दक्षिणानां पुंसामवश्यं तदेव ज्ञानं फलेग्रहि निगद्यते, यथा येन सृणिना मदमत्तमपि मातङ्गं हस्तिपको वशं नयते, तथा प्रमादिनमुन्मार्गगामिनमात्मानं यदिस्ववशं नयेततमाम् , तव खलुधीरपुंसामपि ज्ञानं फलवज्जायेत । अथवा मतिमानपि पुमान् रागान्धीभूय जानन्नपि चेदीदृशमकार्य कुर्यात्तर्हि तदपि घटते, यतः 'विवेकिनोऽपि जना नरकजनकज्ञानदशायामप्युत्कटेच्छयाऽन्याये प्रवर्त्तमानाः सदसद्वि
*
*
*
*
Jain Education International
For Personal & Private Use Only
ww.jainelibrary.org