________________
चरित्रम्
चम्पकमाला
॥२७॥
रे जीव ! यामीहमानस्त्वमत्रायातोऽसि, सा तु दासमकरोत् , जारश्च निषेवते । अहो ! स्वप्रेयसी भुञ्जानं जारं निहन्तु शक्तिं किमिति न बिभर्षि ?, तथा विधातुं क्लीबायमानमात्मानं किमिति नो हिंससि ?, रे दैव ! मम पित्रादिपरिवारधनगृहादिकं विनाश्य तज्जन्यमसह्यं कष्टं दर्शयित्वा किं नाऽतुष्यः ? यदधुना निजस्त्रीपराभवजं दुःखमदो दर्शयसि ?, अहो ! सद्वंशजाऽपीयं मे स्त्री कुलटा कथङ्कारमजायत ?, अथवा या खलु विष्णुनोर्वशी निरमायि सापि सुरनगरे देवानां वेश्या किं नो जज्ञे ?, तहीयं मे पत्नी कुलटाजनि तत्र किमाश्चर्यम् । हहो मामकेनैव दोषेण कुलजाया अपि स्त्रियाः कुलटात्वं लक्ष्म्या विनाशश्चाऽभूत् । यतोऽहमुभावप्युपेक्ष्य द्वादशवर्षाणि गणिकामसेवे, सर्वोऽप्ययं ममैव दोषः। अथवा मद्वियुक्ताया अपि स्त्रिया एतदाचरणं नो युज्यते । यतः 'सूर्यविकाशिनी कमलिनी सूर्येऽस्तङ्गतवत्यपि चन्द्रमसं जात्वपि नैव कामयते । ' इयन्तु मयि जीवत्येव गतत्रपा सती निरन्तरं जारेण सह रमते । एषाऽमुना जारेणैकेनैव नोपभुज्यते, किन्त्वनेकेन पुंसा साकं क्रीडतीत्यनुमीयते । यत, 'या कामिनी भरिमतिक्रम्य परेण रिंसां वहते, सा खल्वेकेन पुंसा नैव तृप्यति, किन्तु प्रत्यहं नवनवेन यूना कामुकेन साकमेव यभितुमीहते । ' अतएवाऽनाचारवारिकुल्या तुल्येयं स्त्री सद्वंशजा कथमुच्येत ?। यतः–' कुलवध्वो हि सदाचारशालिन्यः शीलपालिन्योऽवश्यमेव भवन्ति ।' उक्तश्च भाषाकविताशेन
" खान रु पान विधान निधान, निमग्न सदा सुखकी तरनी में; यौवन जोर भयो तउ, कन्त मिल्यो नहिं चूक परी करनी में ।
॥२७॥
Jain Education
For Personal & Private Use Only
काjainelibrary.org