SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ जीर्णतरसूत्रग्रथितं बधूकालिकं चूडामणिरत्नं त्रुटित्वाऽधस्तान्यपतत् , सा नैव विवेद । परन्तूच्छलत्तद्रत्नं मामकचरणाऽध: समागातजाने मद्भाग्योदयादाकृष्टश्चिन्तामणिरेवाऽऽगादिति हेतोस्तच्छिरोरत्नमहं युक्त्या जग्राह । सा कुलटा च स्वर्णकारपादयोः पतित्वैवमभ्यर्थयितुमलगत्-नाथ ! कोपञ्जहाहि, मयि प्रसीद, यथास्थितं मद्वचः समाकर्णय ?, निरागसं त्वदेकमनसं मां मुधा हन्तुं कथङ्कार प्रवर्त्तसे ?, गतरजन्यामागन्तुं चलिता द्वारपालेन न्यवारि, बहुधा प्रार्थितोऽपि स दुर्धीः कपाटं नेवोदघाटयत, पुरा स मदनुकूल आसीत् , इदानीमेव दैवात्प्रातिकूल्यं निनाय । विधौ प्रतिकूले विधाविव सदैवानुकूलो भवनपि स पुमान् वैपक्ष्यमेव नीतवान् । तेनाऽहं तत्रावसरे जले क्षिप्ता हस्तिनीव वागुरायां पतिता मृगीवाऽवाच्यं दुखं यदन्वभूवं तद्विपक्षोऽपि जात्वपि माऽनुभूदिति । तस्मादेव दोषात् प्रातःकाले किमपि तदीयषणं पितरं निगद्य तं निष्काश्य तत्स्थाने कश्चिदपरं वैदेशिकमनुकूलं द्वारपालमकरवम् । तत एव त्वदर्शनविरहाकुलाऽत्यन्तदुःखिता महता कष्टेन दिवसं नयन्ती मदनातुरा त्वदन्तिकमहमागतवती । प्राणप्रिय ! अतएवाऽनपराधिनी मामुररीकुरु ?, तिरस्कारं मा कृथाः । यथा भक्त्यार्पितान्मोदकान् प्रसन्नमना गणेशो गृह्णाति, तथा प्रेम्णाऽऽनीतानेतान्मोदकान् सरसान् गृहाण । मयि मा संशयीथाः, यदहं त्वदन्यङ्कमपि खमेऽपि नैव कामये । तस्मात्सौम्यदृशा मां विलोक्य पुनीहि च, मदीयं दुःखं दर्भमिव छिन्धि, इत्थं तस्याः सस्नेहं वचो निशम्य स जारः स्वर्णकारस्तस्यां प्रससाद । तदानीतं मोदकैभृतं स्थालं सहर्षमङ्गीकृत्य तामवोचतसुन्दरि ! अज्ञानान्मया त्वयि यदकारि तिरस्कारादि तत्क्षमस्व । राजन् ! स्वस्त्रिया एतदाचरणमालोक्य मनसि जातवैराग्यः सखेदमहं स्वस्थानम्प्रत्यचालिषम् । चिन्तितुं लग्नश्चैवम् Jain Education in a For Personal & Private Use Only H Mainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy