________________
व्याख्यानवाचस्पत्युपाध्याय-श्रीमद्यतीन्द्रविजयमुनिप्रवराणां प्रशस्तिपत्रम् ।
जिनमतजनतातिजातमानः, यमनियमादिगुणैर्विराजमानः। मुनिजनमनसि सुधासमानः, जयतु यतीन्द्र-'यतीन्द्र' वन्द्यमानः ॥ १॥ गुणिगणगणनाप्रगण्यमानः, शिवपदवीपदवीं प्रवर्तमानः । भविभवभवभीतिभज्यमानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ २॥ अविरतसुतपस्तपस्यमानः, शमदमशीलगुणैश्च शोभमानः । जगति जडजनान् विबोध्यमानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ३ ॥ अनुपमतनुदीप्तिदीप्यमानः, जिनततिशासितशासने सुमानः । कविरिव कविसङ्घसेव्यमानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ४ ॥ जनजननमृतिविदार्यमाणः, सततसुदुर्धरवीर्यधार्यमाणः । मतिमदतिनतो गताभिमानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ५ ॥ जगति जलधिजीवतार्यमाणः, सकलसदागम मर्मपार्यमाणः । मदगदरहितः प्रधीप्रधानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ६ ॥ तपन इव विभा वितप्यमानः जनकमलौघमुदा विकास्यमानः। अखिलखलखलत्वहापयानः । जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ७ ॥ कलिमलिनमलं बलादलं यः, दलतितरां मुनिमण्डलायमानः । अपरपरनरे सदा समानः, जयतु यतीन्द्र-यतीन्द्र वन्द्यमानः ॥ ८ ॥ स्तुतिरिहर चिता सुपुष्पिताग्रा, पदरुचिरा च यतीन्द्रवाचकानाम् । भवतु सुफलदा सदा तदेषा, द्युतरुलतेव फला सुपुष्पिताग्रा ॥ ९ ॥
श्लोकानां नवकं रम्यं, शब्दार्थालङ्कतिश्रितम् । व्याख्यानवाक्पतिश्रीमद्यतीन्द्रविजयस्य वै ॥ १० ॥ रचितं वाचकप्रीत्यै शिवशङ्करशास्त्रिणा। शाब्दे शास्त्रे च साहित्ये, आचार्यपदधारिणा ॥ ११ ॥
Jain Education Themational
For Personal & Private Use Only
swww.jainelibrary.org