________________
दशाननेनापि दशाननानि, नीतानि नाशं जनकात्मजार्थम् ॥ १४ ॥ व्याख्या-खञ्जनस्य-खजरीटस्येव मज्जुलेऽक्षिणी यस्यास्तत्संबोधने हेखजनमञ्जुलाक्षि ! भवत्कृते तव हेतोर्यदि | मदीय मामकं शिरो मस्तकं याति-नश्यति तर्हि यातु-नश्यतु, नाहं ततो लेशतोऽपि खिद्ये । यतः दशाननेन-रावणेनापि | जनकात्मजार्थ-सीतायाः कृते दशाऽऽननानि-दशापि शिरांसि नाशं नीतानि तर्हि तव हेतोरेकस्य मे शिरसो नाशे किमाश्चर्यमिति भावः ।
यद्यपि प्राणिनां लोकान्तरेऽपि प्राणा दुरापाः कीर्तिताः, परन्तु तेभ्योऽपि सता सत्रा मैत्री सर्वथैव दुर्लभास्ति, अतएव निजप्राणरक्षणकृते सज्जनस्य प्रेम को नाम धीमान् पुमान् उज्झेत्, कोऽपि नेत्यर्थः । राजा तु जात्वप्यावयोरेतत्कृत्यं नैव ज्ञातुं शक्नुयात् । जानीयाच्चेदथापि कदाचित्क्षमेत, परन्तु भक्षितुमुद्यतोऽसौ पुष्पधन्वा हताशा मामिदानीमेव वक्ष्येदर्थान्मृतिम्प्रापयेत्तर्हि किमहं कुर्याम् । अतः सुकृतिन् ! वणिग्जातीयस्वाभाविकी मीतिं जहीहि, अरं मां मदनातुरां बाढं मर्दय, मामकं दुःखमपाकुरुष्व, मय्वनुकम्पामानय ।
तस्या इत्थमुक्तिमाकर्ण्य सार्थवाहोऽवदत्-सुन्दरि ! लोके हि कामिनीजनकृतं प्रेम पर्वताग्रान्निर्गच्छतो जलप्रवाहादपि चपलं भवति । यतस्ताः क्षणमनुरागिण्यो भवन्त्योऽपि क्षणादेव विमुख्यो भवन्त्यो महान्तमेवानर्थमापादयन्ति । अपि च रक्तास्ता द्रव्यमात्रमपहरन्ति, विरक्तास्तु प्राणानपि घातयन्ति । एवं सति तस्कृते प्राणापहारि किलेदृशमकृत्यं को नाम मतिमान् कुर्वति, कोऽपि नेत्यर्थः । किञ्च कामिनीचरित्रं न केनापि ज्ञातुं शक्यते, लोकोक्तिरियं सत्या । तथा चोक्तम्
Jain Education International
For Persons & Private Use Only
www.jainelibrary.org