________________
श्रीचम्पक माला
॥४२॥
इति निशम्य राजा तमेवमाख्यत्-सार्थेश ! त्वं खलु महादुरवापानेतान् यक्षान् प्रदाय यावजीवं गाढमिदं स्नेहमच- चरित्रम. लञ्चकर्थ । इह लोके बाह्यवृत्या कृत्रिमं स्नेहं भूयांसः स्वार्थैकसाधनरता मनुजाः कुर्वन्त्येव, ईदृशालीकसखानां संख्या तु जगति भूयस्येव वर्वति, किन्तु आन्तरबाडोभयवृत्त्याऽकृत्रिमस्निग्धप्रेमकारी त्वादृशो जनो विरल एव मामकी दृशमारोहति । यद्यपि चिरादागमनानिजगृहदारादिमोहादधुनाऽत्रैव ते स्थितियुज्यते, तथापि मनसो वात्सल्यात्त्वां सहैव निनीपुरस्मि । यस्माद् गुणानुरक्तं सद्भावभाजमतिस्निग्धसखं त्वां क्षणमपि पृथक्का मदीयं हृदयं नैव प्रभवति । प्रेम्णः किमकार्यमस्ति ?, यदाहकिमकरणीयं प्रेम्णः, फणिनः कथयापि या विभति स्म।सापि गिरीशभुजङ्गफणोपधानेन निद्राति॥४१॥1
व्याख्या-प्रेम्णः-स्नेहस्याकार्य किमस्ति ?, किमपि नेति । एतदेव दर्शयति-या भवानी पुरा फणिनः-सर्पस्य कथयापि-नाम्नापि बिभेति स्म-अबिभेत् सापि-सैव भवानी साम्प्रतं गिरीशः-शिवस्तस्य भुजङ्गः शेषस्तस्य फणामुपधानीकृत्य निद्राति-शेते दिवानिशम् । भाषाकविताकारेणाप्युक्तम्-- "जलधार के संग कला चपला, अरु नीर के संग कुमोदनरी, अहिभच्छन संग हलाहल को बल, प्रेमल पोन लगी विहरी । विसतार हुतासन संग धुवां, यह रीत प्रवीन बनाय धरी, विरहा दुखदान सनेह के संग, बढे मनुवा मनकी लकरी ॥४२॥ प्रेमहु को मदपान कियो बहु, जो करवे की नहिं सो करेगो । शौच विचार किये की कहा, जरवे मरवे से कळू न डरेगो॥ चातुर व्है गति वाउरे की गहि, दीपक लेकर कूप परेगो । तेज सबे सटके घटके वह, सागरजू भटकोई फिरेगो ॥४३॥" ॥ ४२ ॥
Jain Education
For Persona & Private Use Only
jainelibrary.org