________________
श्रीचम्पकमाला
॥४३॥
पुरात्र सार्थेशपत्नीशीलपरीक्षणार्थमायातास्त एव वयं भवता सत्रा रममाणा मन्त्रिणः स्मः। यथा क्षेत्रे धान्यरक्षायै गृहोपरिष्टाच्चोलूकनिरोधकृते चञ्चां स्थापयति, तथायं सधनः सार्थवाहो नः कृतवान् यक्षान् क्षेत्रस्थां चश्चामिव । नः सत्यभृतयक्षान्मावेदीः, किन्तु कार्यविशेषतस्तेन मुधैव यक्षीकृता वयमत्र तिष्ठामः । नाममात्रेण जात्वप्यसद्वस्तु सत्यतां नामोति, होलिकापर्वणि जनैः कृता नृपाकृतिरिव तात्त्विकरूपं वास्तविकं तत्कृत्यं वा नाधिगच्छति । प्रभो! त्वत्प्रसादफलभूतदासदास्यादिसकलसुखसामग्रीमापन्ना अपि वयममुष्य सार्थेशस्य सद्मनि किङ्करा इव पुराकृतकर्मयोगादननुभूतमशेष कष्टमसहामहि । तस्मान वयं देवताः सः, किन्तु पूर्वप्रचितगृहश्रीविनाशका नूनं तत्र भवतां सेवका एव स्मः। अतः भाग्यवशाकथमपि प्राणान् दधतोऽस्मान् गृहाण, कृपां विधेहि, पुरेव प्रसीद । प्रागपि यदपराद्धमसाभिस्तदपि क्षम्यताम् । अत्रावसरे प्रेमानुकम्पनाभ्यां पूर्णः क्षितिधवस्तानालोक्य निशम्य च तदशेषयथाजातवृत्तं, निष्काश्य च मञ्जूषातस्तान् पाचकान् पक्त्तुमादिदेश । ये खलु पुरा क्षितिपतेः प्रधानप्रेमपात्राण्यासन् , यांश्च प्रेमदृशा विलोकमान आसीद्राजा तानिदानीमीदृशीं दुर्दशामापन्नानालोक्य मधुरया गिरा राजाऽपृच्छत्-सखायः ! अतिभीषणदौष्कालिकाऽन्नाभावाद्रका इवास्थिमात्रावशिष्टा अतिदुर्बलाः कथमजनिढम् ?, पुरा भवन्तो मारसुन्दराकारा आसन् , साम्प्रतमसाध्यदुर्व्याधिजाताङ्गलावण्यहासाः कथं दृश्यध्वे ?, केन कुत्र चेदृशीं शोच्या दशां नीताः१; इत्थं राज्ञा पृष्टास्ते मन्त्रिणः पूर्वानुभूतं सुखं सारं सारं सन्ध्यावेलायां रथाङ्गपक्षिण इव लोचनाभ्यामणि मुञ्चन्तस्तूष्णीं तस्थुः ।
पुनस्ते क्षितिपतेः प्रेरणया त्रपां विहाय गद्गदया गिरा सर्व वृत्तमाद्यन्तं राजानं न्यगादिषुः-स्वामिन् ! काचिदज्ञा
॥४३॥
Jan Educa
For Persons & Private Use Only
inelibrary.org