________________
पीचम्पकमाला
॥२९॥
विलोकमानं मामजागरीः ? ' तदा तयोक्तम्-प्राणनाथ ! त्वमधुना यं स्वप्नमपश्यस्तं मामपि हि ? यदहं ते प्राणप्रिया
चरित्रम् ऽस्मि, मत्तस्तेऽवाच्यं किमपि नास्ति ।' तदाहं न्यगदम्-यद्येवमस्ति तर्हि सावधानतयाऽऽकर्णय ?
- अहं हि तव सद्मनि द्वारपालोऽभूवम् , त्वश्च मोदकैः पूर्ण स्थालं मयोत्पाटयामासिथ, तदनु त्वत्पृष्ठेऽहमपि तत्स्थालमादाय चचाल, ततो यत्र ते जारस्तिष्ठति तस्य स्वर्णकारस्य हवे त्वमगाः, तत्र गत्वा त्वं मां न्यवीवृतः प्रोक्तवती च यावदागच्छामि तावजागरितेन त्वया स्थातव्यमिति, तदनु स स्वर्णकारो महता क्रुधा-अरे ! गतरात्रौ सङ्केतं कृत्वा पुनस्त्वमत्र कथङ्कारं नाऽऽगतवतीत्याख्याय ते चपेटामदात् , तदीयचपेटा ताडिता ते शिरसोऽधस्तात्पतितश्चूडामणिं यावदहमग्रहीषि तावदेव त्वं मामजागरीः, इति ।" - दृष्टार्धस्वप्न आयतौ महालाभकारीति प्रतिभाति । तस्मान्मध्ये यत्त्वं जागरयाञ्चकर्थ तदशोभनमजायत । महेालुरहं स्वमव्याजेन तत्सर्व सूचितवान् । साऽप्यबोधि यन्मदीयं दुश्चरित्रं सर्वमयं वेत्तीति मर्मवेधिमदीयवाक्याऽतितीक्ष्णबाणविदीहृदया लजाभीतिमापन्ना तत्कालमेव कदलीस्तम्भमिव भूमौ निपतिता व्यसुरजायत । येन कारणेन मर्मवाक्यं नूनं महाऽनर्थमापादयतीति कथयन्ति सुधीजनाः । ततोऽहमधःपतितामधोमुखीमचेष्टाऽवयवामुच्छ्वासरहितां तन्द्रितनयनां तां स्त्रियं प्रकाशमानीय विलोक्य मृतेयमिति निश्चिकाय । अहमपि तदैव कोपावेशादुल्लसिताऽतिवीर्य धैर्य एकाक्येव व्याघ्रो गामिव तां व्यसुमुत्पाटय गृहद्वारमागाम् । तत्र च ग्रामान्तराऽऽगतज्ञातीयजनताबाहुल्याद् द्वारमनर्गलं तद्रक्षकाऽभावञ्चाऽऽपश्यम् । तदा शनैः कपाटमुद्घाटच लौकेरलक्षितस्तजारस्वर्णकारहमागत्य हट्टस्य द्वारे तथा तामतिष्ठिपं यथाऽधो न पतेत , प्रागा-11॥२९॥
है
Jain Educati
a
For Personal & Private Use Only
Daw.jainelibrary.org