SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीचम्पका व्याख्या-भो लोकाः! प्राणिपु-जीवेषु हिंसां तद्धिंसनं मा कृथाः-मा कुरु, अपापाबहाम्=पापाननुबन्धिनी सत्याम्= माला सत्यभूतामेव गिरं वाचं वद-बहि, स्तेयं-चौर्य वर्जय-त्यज, आदराद्-यत्नतः परेषामन्येषां या वध्वः स्त्रियस्तासां सङ्गं मुञ्च-जहाहि, इष्टविभवेवान्छितधने चेच्छापरिमाणं ममैतदेव स्यात्तदधिकं नेति परिग्रहपरिमाणं कुरु, किश्च ये खलु क्रोधा॥४६॥ दयो महानर्थकरा दोषास्तांस्त्यज । यदि नितरामतिशयेन सौख्ये सर्वाधिके सौख्ये इच्छावाञ्छा ते-तवास्ति वर्तते, तर्हि जैनमते वीतरागप्ररूपिते धर्मे प्रीतिगं, विधेहि-विधत्स्व, इति । यथा दिग्भ्रान्त्या नैशिकतिमिराधिक्याद्वा पथो विस्मृत्या कश्चिन्मूढधी नावुदिते प्रणष्टे च तमः पटले भ्रमे वा सम्यग्मार्ग विदन् नितरां हृष्यति, तथा तस्य गुरोगिरा प्रध्वस्तमोहान्धकारा भव्या जीवा यथावद्धर्ममार्गमवबुध्य निःसीममानन्दम्प्रपेदिरे । तदानीं प्रणष्टमोहान्धकारोऽतिविशिष्टाऽऽशयो विद्वान् पटीयान् लघुकर्मा च सार्थवाहो गुरूनेवं व्याहर्तुमारभत-प्रभो ! अहमद्यावधितत्त्वावबोधमन्तरा आत्मानं मुधैव पण्डितंमन्यमान आसम् । यतः-कलासरितां पारङ्गन्तुरपि जीवस्य तत्त्वावबोधं विना मूर्खता नो विजहाति ।' अद्यैव तत्र भवता सुधासहोदरोपदेशादज्ञानरोगनिरासिमहौषधेर्मम तत्त्वज्ञानलक्षणनैरुज्यमुदपद्यत, अर्थादज्ञानमनशत् , समुत्पन्नं च तत्त्वज्ञानमिति । यद्यप्यहं सकलसावद्यहेयलक्षणं सर्वोत्तमं साधुमार्ग जिघृक्षुरस्मि तथापि तदवनाय मयि तावती शक्तिर्नास्ति । अतएव सम्यक्त्वमूलकं द्वादशव्रतलक्षितं श्राद्धधर्म ममोपरि प्रसद्य सस्त्रीकं मामुपदिशत?, इत्थं भक्तिभरेण तदुदितं निशम्य स सूरिदिवाकरो भक्तिमन्तं श्रद्धालुं विनीतं सुशिष्यं मन्त्रमिव तं सभायं सार्थवाहं श्रावकीयमर्कवतमुपदिष्टवान् । तदनु स्वं कृतकृत्यं मन्वानः सार्थेशःसभार्यः स्वसदनमागत्य निजेष्टदेवमिव धर्म कर्तुं लग्नः। शत, समुत्पन्नं च सम्यक्त्वमूलक बाल विनीतं सु ॥४६॥ Jain Educatie For Persona & Private Use Only albaryong
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy