SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीचम्पकमाला ॥३८॥ गंसया समुत्सुका इव मिमिलुः । अथ तत्र गर्ने ते चत्वारो निपतिता अतिसूक्ष्मसैकतमालोकमाना मिथ इत्थमालेपुः-अहो! नूनमेषा सतीमतल्लिकास्ति, दयालुताप्यस्या महत्येव वर्त्तते, यदनया महागर्ने घोरनरकोपमे नो निपातयन्त्याप्यङ्गानि नाऽभनक् । यदत्र गर्ने निपततां नः प्रथममतिक्लेशो जायते, परमायतावेतल्लाभकारि शिक्षणमेव भविष्यति । अमुया सत्या यदकारि नो दुर्दशेयं सापि शिक्षैव मन्तव्या । यतः सती प्रकाण्डेयङ्कीदृशी मतिमती वर्त्तते, कियच्चास्याश्चातुर्यमस्ति, सर्वथा सद्भिः कविभिः प्रशस्यतमा भाति, यस्मान्मतिवैशद्यशालिनोऽप्यस्मांस्तथा छलयामास बालिशानिव निजातुलचातुरीकला कल्पनया, यथा खलु दीपके निपतन्तः पतङ्गाः स्वदोषेण भस्मीभवन्ति । तथा वयमपि विषयपरिपीडिताः कामकिङ्करतामुपनीतास्तया चतुराणामग्रेसरया च्छलिता घोरनरकाकारे नीचैस्तरे गर्तेऽस्मिन्नपताम । अतोत्र महागः निपतितान् दुर्मदैर्दुर्दमान् महागजानिव विषयाऽऽशारुनष्टज्ञाननयनान् मदोन्मत्तानस्मानस्तु धिक् शतशः। मांसपिण्डचिखादयिषया दुर्धियां मीनानां गलबन्धाद् दुर्दशा यथा जायते तथा विषयपलाशनगृध्नूनां दुर्थीशिरोमणीनां मादृशामीदृशीदुःस्थितिरुपतिष्ठेत, तत्र किमाश्चर्यम् । Pा तेन हेतुना गुणवर्णाभ्यामेष विषयो विषादप्यधिको जागर्ति, यतः-विषं तु भक्षितं सदेव परिपीडयति लोकान् , अयन्तु दर्शनादिनाऽपि जनानधिकं परिभवति । हन्त ! सत्या अमुष्याः शीलपलमशितुं गृनात्मताङ्गता वयमत्राऽऽगताः परन्तु | दुर्दैवयोगादपूर्णमनोरथा मध्य एवेदृशां शोच्यां दशामुपगता अभूम, कूपोपमेऽस्मिन् गर्ने नः पुराकृताऽशुभकर्माण्येव न्यपातयन् , भीषणे नरके नारका जीवा इव वयमत्र गर्ने यावज्जीवं कथं स्थास्यामः ?, यावदन्यं किमपि न ब्रूयाम तावदज्ञातैतडु- 1 ॥३८ ॥ Jain Education For Personal & Private Use Only T ejainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy