SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ___ अथैकदा सा नवोढा कामिनी राजानमित्युक्तवती-स्वामिन् ! अहमत्र भवने परिवारहीनाः शरीरमात्रसहाया कथमेकाकिनी दिवसान् गमयानीति । भवानपि त्रिचतुर्दिवसानन्तरं मत्समिधावायाति, तदेव दिनं गणयामि, तामपि रजनी क्षणमात्रमहं जानामि । त्वदङ्गसङ्ग यस्यां रजन्यां नो लभे, सा रजनी तु वत्सरदेश्यैव प्रतिभाति । अतो भवता प्राणकल्पेन वियुक्ताऽहं यथा सुखेन दिनानि यापयामि, तथा मयि कृपामाधाय विधीयताम् । लेखनसामग्री लेखिनी मसीपात्रादिकश्च मह्यं देहि, येन त्वद्विरहखिन्नाऽप्यहं तत्कर्मविदधती कालं क्षपयेयम् । अत आह कश्चित्कविः . गणयति दिनमाप कल्पं, विरहपीडिता निरुद्यमा नारी। __ मनुते सैव हि वर्ष, भर्तुरङ्कगता किल घस्रम् ॥ ९॥ व्याख्या-विरहेण-पतिवियोगेन पीडिता-दुखिता, निरुद्यमा-लेखनपठनादिसदुद्योगरहिता दिनमेकमपि कल्पं सृष्टिप्रलयवत् गणयति-जानाति, सैव नारी भर्तुः प्रियस्याङ्के गता तस्थुषी सती हि निश्चयेन वर्षमपि घस्र-दिनं मनुते । इत्थं तयाऽचिरपरिणीतया कामिन्या प्रार्थितो राजा तस्यै लेखनावशेषसामग्रीमदात् । साप्यन्तरं रागं विनैव बाह्यरागेण राजानमालादयन्ती नितराममोदत । इत्थं क्षोणीपतिस्तां विदग्धवनितां सर्वेच्छितप्रदानेन सन्तर्पितवान् सापि तदिङ्गितज्ञानदक्षा बाह्योपचारैस्तमानन्दयितुं लग्ना । श्रीसौधर्मबृहत्तपाख्यभुवनख्याताच्छगच्छाधिप-श्रीराजेन्द्रजगज्जयिष्णुचरणाम्भोजद्वयान्तेसदा। एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे मुदा, जज्ञे चम्पकमालिकीयचरिते प्रस्ताव आयो ह्ययम् ॥१॥ Jain Educati o nal For Personal & Private Use Only X w .jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy