SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्रीचम्पकमाला ॥३॥ तथा वितरन्तितमा यथा कल्पतरुश्चिन्तामणिर्वा नो दद्यात् । तस्यां नगर्यां निजौजसा महीयसा सहसा वित्रासिताशेषविपक्षपक्षः समस्तजगतीतलप्रसारिनैदाघभानुकल्पाऽनल्पतेजा रणविक्रमी 'विक्रमादित्यो नाम क्षितिपतिरन्वर्थनामा धरामेतामशेषां शास्ति । - असौ किल धीरतया बलबुद्धियोगेन चाऽग्निवेतालनामानं व्यन्तरदेवं वशंवदं व्यधादुपासनया महत्या, सर्वदैव स देवस्तदादेशं सम्पादयति, तत्प्रभावादगम्यदेशेऽप्येष सुखेन गच्छति, अजय्यमपि विद्विषां कुलमनायासेन जयति, दिव्यमपि सुखं मयेऽस्मिन् भुङ्क्ते । स किलाजन्मनिर्मलमखण्डितं शीलं परिपालयन् , रिपुकुलं परिभवन् , दीनानुद्धरन् , सेवकान् कुटुम्बांश्च सुखयन् , गुणिजनान् सत्कुर्वन् , कलिकालेऽप्यमुष्मिन् परस्त्रियं भगिनी जानन् भुवं नयेन शास्ति । इत्थं विशिष्टस्यास्य भूजानेरान्तरं मिथ्यात्वतमस्तोमं निराकृत्य महाद्भुतप्रभावशाली श्रीमानसिद्धसेनदिवाकराचार्यः सम्यक्त्वरूपभानूदयं तदन्तष्करणभवने भावितवान् । अयं हि निजविरचिताऽपूर्वपवित्रस्तोत्रमहिम्ना शिवलिङ्गमध्याच्छीपार्श्वनाथप्रभोर्मनोहरं बिम्बं प्रकटयामास । तच्च बिम्ब प्रत्यहं विक्रमार्को राजा समर्चयन् भृयसी चमत्कृति लेभेऽस्याञ्जगत्याम् । स हि खलु सुवर्णमयपुरुषादुत्पन्नं कृत्स्नं स्वर्ण लोकेभ्यो विततार । तथा जगजीवसदनामिमां पृथ्वीमनृणां विधाय स्वनाम्ना सम्वत्सरं सर्वत्र स्थापयाश्चकार । किञ्चायं स्वयं नानाविधां क्लेशपरम्परां सहमानः परेषां दुःखानि साकल्येन दूरीकुर्वञ्जीमूतवाहनादिकथा सत्यापयामास । कलाचार्यः इवाऽशेषकलापारदृश्वा भवन्नपि स्वल्पकलाज्ञानवतोऽपि जनानधिकमादरयन्नासीत् । इत्यादिबहुविधसद्गुणगणगरीयान् श्रीमान् विक्रमादित्यभूजानिः सकलशास्त्रवित्तविद्यावज्जनमण्डितायां समग्रगुणगणविभूषितायां सभायां सुखासीनः सुधर्मसभासीनः सुरेश्वर इव विराजतेतमाम् । तस्यां सभायां कियन्तः पण्डिताः ॥३॥ Educa For Persona & Private Use Only w.jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy