________________
खलु पुंसां बहूनां पुरुषाणां भोगान्न तृप्यन्ति–सन्तुष्टा नो जायन्ते ।
या दक्षा कामिनी तारुण्यपरिपूर्णा सतीत्वं विभर्ति सा खलु गुणवतां यूनां पुंसामलामादेव, नान्यथा जावपि सा तद्विभृयात् । यथा नद्यो हि तदाश्रयलाभवशात्तूर्णमेव सागरेण मिलन्ति, तथैव नार्योऽपि प्रार्थयितुः सद्भावात्तेन साधं मिलन्त्येव । अतः सखि ! तानवमालिन्यहारिणां कामिनां यूनां मनांसि वशीकर्तुं तारुण्यपुण्यमयं सिद्धमंत्रमधिगता सत्यहं त्रिचतुरश्चतुरांस्तरुणान् पुंसः कामं सेवित्वा स्वीयमदस्तारुण्यमबन्ध्यं विधास्यामि । इत्थं तयोरालापमाकर्ण्य नरनायको दध्यौ
अहो ! अत्याश्चर्यमेतत , अनयोः परस्परालापो विरुद्धाभासः प्रतिभाति । अहो ! महदद्भुतमेतत् , यदनयोरेका साध्वीयसी लक्ष्यते, द्वितीया च शाठ्यवती प्रतीयते । कथमेतयोः शैशवेऽपि प्रकृतिपरिणतिर्भिद्यते ?, किम्वा द्राक्षायां नैसर्गिकं माधुयमिव तुम्ब्याश्च स्वाभाविकीङ्कटुतेवैतयोः कुमार्योः शैशवादेव प्रकृतिवैचित्र्यमजायते स्खलु ?, यद्यपि ज्यायसीयं सतीत्वात्प्रकृष्टतमास्ति, तथापि मामकीनचिकीर्षितकार्योपयोगिनीयं द्वितीयैव मया वरणीया । यतः कस्यापि पदार्थस्य निर्णय विधिसूनां लोकानामेष सरल एवास्त्युपायः यस्माल्लोके हि स्वर्णपरीक्षा निकषोपल एव कर्तुं शक्नोति मौक्तिकेनैव । तेन हेतुना किलैनां कन्यामुद्वाह्य शनैः शनैः स्वचिकीर्षितं साधयिष्यामि । यतस्त्वरया क्रियमाणं कार्यमायतावापत्तेरेव निदानं भवति । अपरश्न मया खलु युक्त्या परितोऽवरुद्धेयं स्वैरं किमप्याचरितमपि नो शक्ष्यति । तदावश्यं खल्वस्याः खलतापि चातुर्याभिमानेन सहैव गमिष्यति । इत्थं मानसे निश्चित्य गृहभित्तौ चर्वितताम्बूलं निष्ठीव्य स्वं कृतकृत्यं मन्यमानो राजा सानन्दमात्मनः सदनमागात् । निसर्गादेवात्यल्पं निद्रालू राजा गुणस्थानभूतां दिव्यां शय्यां क्षणमात्रं निषेव्य किश्चित्सुप्त्वा
निसदिवानाचत्य गृहभित्तानाप नो शक्ष्यति । कार्यमायतावापानी
Jain Educati
For Persons & Private Use Only
ainelibrary.org