SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ततस्तान् यक्षानिव तद्गात्रेषु यक्षकर्दममनुलिप्य बहुविधैः कुसुमैः संशोभ्य महतीर्मालाञ्च परिधापितवान् । ततस्तान् गृहमध्यभागे स्थापयामास, तत्सन्निधौ ताः सकलाश्च भोज्यसामग्रीः स्थापितवान् । पुनस्तेभ्य एवं शिक्षामप्यदात्-समागता लोका यदा वः पश्येयुस्तदा भवद्भिर्देवैरिव निमेषशून्यैरेव भाव्यम् । भोजनार्थ निजनिजासने नृपालादिलोकेषु सकलेषु समुपविष्टेषु या या भोजनसामग्रीस्त्वत्तः प्रार्थयेय तास्ताः सत्वरमेव दातव्या, भवद्भिर्मनागपि विलम्बो नैव कार्यः, ततोऽहं वो मोक्ष्यामि, वैपरीत्यकरणे तु कदापि नो मोक्ष्यामीति सत्यं वदामि । इत्थं सार्थवाहोक्तमशेषमपि ते सहर्षमुररीचक्रिवांसः । तदनन्तरं सार्थवाहो नृपान्तिकमेत्य नमस्कृत्यैवमभ्यर्थितुमारभत स्वामिन् ! नीतिमतां श्रीमतामद्वितीय ! सम्प्रति भोजनवेला समायाता, अतः श्रीमत्प्रभुचरणाः सपरिवारा ममालयमागत्य पुनन्तु, तदा निसर्गान्महौजा विडोजा इव शोभामावहन् सत्यपि सन्देहनिकरे दाक्षिण्यचेता राजा ससैन्यस्तस्यावासमुपेयिवान् । तत्रावसरे गृहद्वारमुपागते राजेन्द्रे सुरभीकृतैः कुङ्कमाक्तैस्तण्डुलैः सुरभिसुमैः सुवर्णमौक्तिकैश्च सार्थवाहपत्नी नरपालमभ्यर्च्य वर्धापयामास । ततो राजेन्द्रमुच्चैस्तरे शुभासने मनोहरे समुपावेश्य शतपाकादिमहासुरभितैलं तदङ्गे मर्दयामास यथास्थानं लघुमध्यमोत्तरहस्तव्यापारेण राज्ञः सर्वगात्रं समर्थ तन्मनः प्रासीसदत् । ततस्तदङ्गे यक्षकर्दमादिविशिष्टञ्चूर्ण विलिप्य पश्चादुष्णोदकेन स्नपयाञ्चक्रे । तदनु स्वच्छेन पेशलकौशेयेन वसनेन तदङ्ग निर्जलीकृत्य, कर्पूरकस्तूरिकादिमिश्रितचन्दनं राजाङ्गे सुलिप्य, कर्पूरागुरुदाहजातसुरभिधूपेन तदीयं सीमन्तं धृपयित्वा, सुरभिप्रत्यग्रसुमजातमालया विभूष्य गङ्गावारिमिश्रितयामुनं कल्लोलमिव चूडामवघ्नात्स सार्थवाहः। ततो जातिमत्स्वर्णवर्णकास्मीरजकेशरकर्दमेन भाग्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy