SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीचम्पकमाला ॥ ४५ ॥ चित्तं यस्य स दृढमनाः स्वर्गार्गोद्घाटनं = स्वर्गार्गलस्य देवलोकादिप्राप्तिप्रतिपन्थिन उद्घाटनं वारकं धर्मं न करोति स नरः पश्चात्तापेन हतः=कृतपश्चात्तापो जरया परिगतः = शिथिलीकृताऽशेषाऽवयवः शोकाग्निना दह्यते - दुःखीक्रियते । भुजन्तां महुरा विवागविरसा किंपागतुल्ला इमे, Jain Educationonal कच्छूकंडूयणं व दुक्खजणया दाविंति बुद्धिं सुहे । मज्झ मयतहियव्व निययं मिच्छाभिसंधिप्पया, भुत्ता दिंति कुजोणिजम्मगहणं भोगा महावेरिणो ॥ ४३ ॥ व्याख्या –— इमे किम्पाकफलतुल्या आदौ मधुरा विपाकेऽवसाने विरसा - नीरसाः भोगा - विषयाः भुंजन्तां - सेव्यन्ताम्, परमेते कच्छ्सम्पर्काज्जातकण्डूयनमिव दुःखजनकाः सुहे - वास्तविक सुखविषयिणी या बुद्धिस्तां दाविंति - दापयन्ति - कृन्तन्ति, मज्झण्हे-मध्यान्हे मयतण्हियव्व - मृगतृष्णिकावत् मिच्छाभिसंधिप्पया मिथ्याभिसंधिप्रभाः - मिथ्याऽलीकमभिसन्धेस्तद्बुद्धेः प्रभा च्छायां येषु ते तथाभूता विषया भोगाः महावेरिणो - महावैरिणः प्रबलाः शत्रवः भुत्ता = भुक्ताः - सेविताः सन्तः कुजोणिजम्मगहणं-कुयोनिजन्मगहनम् - कुत्सिता योनयः कुयोनयः - नीचकुलादौ यञ्जन्म गहनं भवपरम्परा तत् दिंति - ददाति भोगिनां प्राणिनामिति भावः । अत एतादृशा महाशत्रुकल्पा भोगा नैव भोक्तव्याः सद्भिः कदापीति तत्त्वम् । For Personal & Private Use Only चरित्रम्. ॥ ४५ ॥ jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy