________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
।। ४५ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमत्तगुणे एकाशीतिप्रकृतीनामप्रमत्ते षट्सप्ततिप्रकृतीनामुदयः स्पष्टः एतेन यत्किंचिदोषपुरस्कारेण महाव्रताभावं साम्प्रतीनदेशावच्छेदेन विहरतां दृश्यमानमुनीनां साधयन्नास्तिको निरस्तः इति सिद्धं धर्मोपकरणस्यापरिग्रहत्वं, अथैवमस्तु पिच्छिकादिधम्र्मोपकरणधारिणां यतित्वं, वस्त्रपात्रकम्बलादीनां तु साक्षात् परिग्रहत्वमेवेति, तद्धारणेऽपि यतित्वांगीकारेऽतिप्रसंगः, स्वर्णरूप्यादिधारिणामपि मुनित्वानुषंगादिति चेत् न, विकल्पासहत्वात् तथाहि---- मुनेर्वस्त्राद्यनभ्युपगमः किं परिग्रहत्वेन पंचमव्रतविघातकत्वात् १ शोभाजनकत्वेन तुर्यत्रतविघातकत्वाद्वा २ जीवोत्पत्तिहेतुत्वेन क्षालनकर्मणा वा जीवनाशहेतुत्वेन आद्यव्रतविघातकत्वाद्वा ३ मूच्छीजनकत्वाद्वा ४ चौरादिभयहेतुत्वाद्वा ५ का ६ दुर्ध्यान हेतुत्वाद्वा ७ जिताचेलपरीषहो मुनिरितिवचनाद्वा ८ दंशमशकादिपरीपहासहनाद्वा ९ प्रवचनगौरवकारित्वाद्वा १० तीर्थकरानुकाराद्वा ११ जिनकल्पानुकाराद्वा २२ सिद्धान्तेऽनुक्तत्वाद्वा १३, आद्येऽपि धारणामात्रेण मूर्च्छाजनकत्वेन वा ?, नाद्यः पिच्छिकाकमण्डलु पुस्तकादिभिर्व्यभिचारात्, द्वितीयेऽपि वस्त्रस्य मूर्च्छाजनकत्वं स्पर्शमात्रेण १ ममेदमिति परिभुज्यमानत्वेन वा २१, नाद्यः, शरीरसम्पर्कमात्रस्य मूर्च्छाया अहेतुत्वाद्, अन्यथा देहस्पृग्भूमितृणशय्या पवनाश्रमादीनां मूर्च्छाजनकत्वेन परिग्रहसद्भावात् न कस्यापि यतित्वं न द्वितीयः शरीरे व्यभिचारात् न च ममेदमिति परिभुज्यमानत्वेन शरीरं मूर्च्छाजनकं न भवतीति, तस्यान्तरंगत्वेन दुर्लभतया विशेषतस्तद्धेतुत्वात्, अतस्तद् दुस्त्यजं मुक्तिसाधन श्रामण्यसहकारि च वस्त्रं तु न तथेति चेन्न, प्रत्यक्षव्याहतेः, दृश्यन्ते च बहवोऽहिफेनवद्धिप्रवेशैस्तत् त्यजन्त इति, तथाविधशक्तिविकलानां शीतातपदंशमशकवाहुल्येऽपि स्वाध्यायापष्टम्भकत्वेन वस्त्रस्यापि श्रामण्य सहकारित्वाच्च पिच्छिकादेखि वस्त्रस्यापि संयमोपकारित्वमपि १। न मौलो द्वितीयः, आहारस्यापि
For Private and Personal Use Only
उपकरणानां
स्थापना
।। ४५ ।।