Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CICIA
मुक्तिसिद्धिः
मुक्तिप्रबोध, प्रकृतयोऽकिंचित्कराः स्युः, तच्च तवाप्यनभीष्टमेवेति, अत एव पाण्डवानां भवदागमेऽपि दुष्टकृतोपसर्गे सातोदयो महीयान् श्रूयते, ॥१५॥
| ततः स्थितमेतत्-मोहाभावे सद्वेद्यं नाकिंचित्करामिति । ननु आहारविषयाकांक्षा एव क्षुद् आकांक्षा चाहारपरिग्रहबुद्धिः, सातु मोह| विकृतिरेवेति कथं क्षुधं जिन श्रद्दध्म इति चेत्, न, अस्मत्प्राचामाचार्याणामेव तत्समाधानात्, यदुक्तं सूत्रकृवृत्तौ विशुद्ध
शीललीलालीलावतीलालनानसैः श्रीशीलांकाचार्यधुर्यैः- यतो मोहविपाका क्षुन्न भवति, तद्विपाकस्य प्रतिपक्षभावनया प्रति|संख्यानेनानिवर्त्यमानत्वात् , तथाहि- कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम्-उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चज्जवभावेण, लोहं संतुढिए जिणे ॥ १॥ मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव, वेदोदयोऽपि | विपरीतभावनया निवर्तते, तदुक्तम्- 'काम! जानामि ते मूलं, संकल्पात् किल जायसे । ततस्तं न करिष्यामि, ततो मे न भविष्यसि | ॥१॥ हास्यादिषट्कमपि चेतोविकारतया प्रतिसंख्यानेन निवर्त्तते, क्षुद्वेदनीयं तु रोगशीतोष्णवज्जीवपुद्गलविपाकितया न प्रतीपवास१ संज्ञा आगमसिद्धा वांछा संज्ञा अभिलाष इतियावत् इति गोमट्टसारे गुणजीवा पज्जत्तीति गाथावृत्तौ, तेन आहारप्राप्तिचिन्तनाचभावात् निर्मन्यादीनां यथाख्यातसंयमे आहारसव नास्ति, ततः कथं केवलिन्याहार इत्यपि न, संज्ञानं संज्ञा भूतभवद्भविष्यदर्थपर्यालोचनं बुद्धिरिति कर्मग्रन्थवृत्तौ संज्ञान संझा आभोगो यद्वा संज्ञायते अनया जीव इति संज्ञा आत्मपरिणामविशेष इति प्रज्ञापनावृत्तौ दिक पढमते पंचसंग्रहे सिक्वाकिरिउवदेसा इत्यादिगाथावृत्तौ बोधनं वा संज्ञा सा विद्यते यस्य स संझीति संज्ञाशब्देन बुद्धिव्याख्यानात्, न चेत्केवलिनोऽसंशित्वापत्तिरिति ।
-CA
॥१५॥
For Private and Personal Use Only

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234