Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandi
केवलि
क्ति
युक्तिप्रबोधेछा
श्रीमानतुंगगुरवः-"यः शान्तरागरुचिभिः परमाणुभिस्त्वं, निर्मापितत्रिभुवनैकललामभूत! तावन्त एव खलु तेऽप्यणवः पृथिव्यां, ॥१५६॥
यत्ते समानमपरं न हि रूपमस्ति ॥१॥" अत एवानुत्तरसुरेभ्योऽप्यनन्तगुणं रूपं भगवत इति वयमप्यंगीकुर्मः, त्वनयेऽप्या- दिपुराणे चतुर्दशपर्वणि ऋषभच्छाबस्थ्ये "तदस्य रुरुचे गात्रं, परमौदारिकाइयम् । महाभ्युदयनिःश्रेयसार्थानां मूलकारण॥१॥ मिति, परं जन्मत एवेशं, न पुनः केवलेऽन्यद्रूपमिति विप्रतिपत्तिः, अथ सर्वथा भेदो जैनैर्नागीकार्यः, परं वस्त्वन्तरमेव | तादिति चेज्जातमेव भवान्तरं, न च तत्र सर्वथा भेद एव, मनुष्यस्य पुनर्मानुष्ये औदारिकत्वेनैक्यात् अवस्थाविशेषेऽपि सर्वथा:|नैक्याच्च, किंच-सप्तधातुवर्जितत्वे वचर्षभनाराचसंहननं न घटते, वज्राकारोभयास्थिसन्धिमध्ये वलयवन्धन सनाराचं वर्षमना| राचसंहननमिति त्वन्नये तल्लक्षणात, तथा नामकम्मेप्रकृत्यन्तरमापद्यते, तेजोमयत्वे हस्तपादाद्याकारोऽपि दुलेभः, परवस्तुन: प्रतिघातोऽपि नोपपद्यते, अथ रनवृत्तेजोमयत्वं चेत् कथं नखकेशयोः सत्ता, तदभावे निर्वाणकल्याणकरणं दुर्घट, दिवाकरसहस्रभासुरत्वे जनताचक्षुम्प्रतिघातात् दुर्दर्शता, कथं वा चतुविशदतिशयसाहित्यमेकत्री, क्षीरगीररुधिरमांसत्वधातुवर्जितत्वयोरन्योन्यविरहात्, न चैकस्यामवस्थायां साहित्यं नास्त्येवेति वाच्यं “चउसहिचमर सहिओ चउतीसहिं अइसएहि संजुत्तो।" इति, तथा | "दस पाणा पजत्ती अट्ठ सहस्सा य लक्खणा भणिया । गोखीरसंखधवलं मंस रुहिरं च सवंगे ॥१॥" इति दर्शनमाभृतसूत्रे | भावाहवर्णनात्, भानुवत्तेजस्वितायां भगवति तदन्यकेवलिनां निवहे च विहरमाणे रात्रिंदिवव्यवस्था दुरास्थेया, तेजोरूपत्वे केवले ध्वनरुद्भवः श्रद्धामात्रमेव, न तत्त्वं, तत एवापसिद्धांतः,-यदुक्तं बोधप्राभृते कुन्दकुन्देन-"एरिसगुणेहिं सहियं अइसयवत सुपरिमलामोयं । ओरालियं च कायं णायच्वं अरुहपुरिसस्स ॥१॥" न चैतच्छाअस्थिकदेहवर्णनमिति, वृत्तिकृता तत्र परमी
54585%
For Private and Personal Use Only

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234