Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥२०५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देहोच्यत्वे भगवता वृषभदेवस्य जन्मनः प्रारम्भात् पदलक्षपूर्वगमने बाहुबलिनो जाततया स्तोककालान्तरत्वात् तावत्प्रमात्वं न्यायोपेतमेव, न हि पितुरुच्चत्वे सामान्यमाधिक्यं वा पुत्रस्य न स्यादिति, प्रत्यक्षविरोधात् तेनादिपुराणे 'प्राचीनार्क सह त्विषा' इति प्रागुक्तदृष्टान्ते सुन्दर्या सह बाहुबलिनो युगलजातत्वं दृढीकृतं 'मरुदेव्या समं नाभिराजो राजशतैर्वृतः । अमूतस्थौ तथा द्रष्टुं विभोर्निष्क्रमणोत्सवम् ॥ १ ॥ इति १७ पर्वा पित्रोर्जीवनं भगवद्दीक्षासमयं यावदुक्तं, अस्मिन् मते भगनन्मातुर्जीवनमपि केवलज्ञानप्रापणं यावदुक्तं, न चैतन संगच्छते, यौगलिकत्वान्मातृपुत्रयोः स्तोकान्तरत्वेन तद्गमकत्वं सम्भाव्यते, ततश्व सिद्धिरपि न चेत् 'संघयणं संठाणं उच्चतं कुलगरेहिं सम मिति आवश्यकानिर्युक्तिवचनात् मरुदेव्याः पंचधनुःशताच्चस्वे मुक्तिरपि न युक्तिमती, एतेन भाग्यवत्याः स्त्रियाः किंचिदूनत्वं, ततो नाभेः सपादपंचधनुः शतोच्चत्वेऽपि मरुदेव्याः पंचधनुःशतान्येव, तथा हस्त्यारूढत्वेन किंचिन्न्यूनत्वं नाभेस्तनूच्चत्ये सामान्येऽपि सम्भवतीत्यादिविकल्पाः कृतोत्तरा इति, आस्तां बाहुबलिन उच्चत्वं, अष्टानां नष्तॄणामपि तथाच्चत्वमिति, तत एवार्यता ।
शूद्राणां गृहे भिक्षा इत्यत्र किं शूद्रत्वं १, जात्या आचरणेन वा ?, नाद्यः, जात्या शूद्रत्वं ब्राह्मणैः साम्प्रतीनवणिग्मात्रस्य: व्यवहियते, तत्र भवतामपि आहारात्, अथाचरणेन शूद्रत्वं चेत् आचरणं मद्यमांसागलितजलपानाद्यं, न च तत्रास्माकं जैनपरम्परागतानामाहारः, किन्तु श्राद्धव्यवहारपारम्पर्यविशुद्धानामेव गृहेऽशन ग्रहणमिति नियमात्, "संयमः पंचाणुव्रतप्रवर्त्तनं तपः अनशनादिद्वादशविधानुष्ठानामित्यार्यषट्कर्मनिरता गृहस्था द्विविधा भवन्ति जातिक्षत्रियास्तीर्थक्षत्रियाश्च तत्राद्याः क्षत्रियत्राह्मण
For Private and Personal Use Only
अष्टशतसिद्धि
जल्पस०
॥२०५॥

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234