Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥२१०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनसा क्रिययेत्यादिपूज्यपादकृतस्तोत्रे भूमिरेवोक्ता, केवलिनामस्तु वा यथा कथंचित्, यौगलिकानां तथास्वीकारे गर्भानुपपत्तिर्वीर्यस्य नीहाररूपत्वात् तेषां तद्भावात्, अथ विचित्रत्वाद्भावानां सर्वमेतन्न्याय्यमेवेति चेद्गर्भापहारादौ कथं क्षोद इति समः समाधिः । | एवं तीर्थकराणामपि वीर्यजन्यत्वं न स्यात्तत् पितॄणामपि नीहाराभावात् स एव पुण्यवाँल्लोके, सैव पुण्यवती सती । ययोरयोनिजन्मासौ, वृषभो भवितात्मजः ॥ १ ॥ इत्यादिपुराणे १२ पर्वणि अयोनिजन्मकथनात्, एवं सति 'नोदरे विकृतिः कापि, स्तनौ नो | नीलकंचुकौ । नो पाण्डु वदनं तस्या, गर्मोऽप्यवृद्धदद्भुतम् ॥१॥' इत्यपि तत्रैवासंगतं तथा च येषां चक्रचादीनां नहिाराभावस्त्वयाऽभ्युपेयते तेषामपि कर्पूरवदुयनेऽतिप्रसंगो बोध्यः, यौगलिकानां शरीरं भारुण्डपक्षिणः क्षेत्रकालस्वाभाव्यात् जलधौ प्रक्षिपन्ति, तीर्थकराणां सामान्यकेवलिनां च देहं देवा नरा वाऽग्निना संस्कारं नयन्ति, न चेद्गजसुकुमालाद्यन्तकृत्केवलिनां दाहानुपपत्तिरिति ॥
केवलिनः शरीराज्जीववधे केषांचिद्विप्रतिपत्तावपि अयोगिगुणस्थाने आचारांगष्वृत्तौ शैलेश्यवस्थायां मशकादिकायसंस्पर्शप्राणत्यागेऽपि नास्ति तदुपादानकारणाभावाद्बन्ध इत्यक्षरैस्तत्प्रतिपत्तेः न त्वदभीष्टसाधनं, दंशमशकपरीषहबाधायां तत्सन्तर्पण| वत्परेषां विनाशस्याप्युपपादनात् दंशादिकृतदेहबाधाभावे परीपहाघटनात्, पाण्डवादीनां त्वन्मते तप्तायः शृंखला संयोगे बहिजीवबाधा, न चेदुपसर्गेऽपि अनावाभायामुपसर्गस्वरूपव्याघात इति ॥ अस्मन्नये जिनदेहस्य सप्तधातुमयत्वादंष्ट्राणां सद्भावस्तत्पूजनं भक्तिभाजां देवानां युक्तमेव, न चानन्ततीर्थकृतां दंष्ट्रार्चने स्वर्गेऽपि संकीर्णता, पुद्गलानां विशीर्णतावश्यकत्वात्, तिर्यग्लोकादभिषेकार्थमानीयमान तुबरद्रव्यमृत्तिकादिवत् ।। शाश्वत्या रत्नप्रभायाः प्रत्यक्षेण कम्पोपलब्धिवन्मेरुप्रकम्पोऽपि न विरुद्धस्तीर्थ
For Private and Personal Use Only
जल्पसमाधानं
॥११०॥

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234