________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रदो
॥ २०६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैश्यशूद्र भेदाच्चतुर्विधाः- तीर्थक्षत्रियाः स्वजीवनविकल्पादनेकधा - वानप्रस्था अपरिगृहीतजिनरूपा वत्रखण्डधारिणः' इति चारिसारे भावनासंग्रहापरनामके, अत एवाशाधरः श्रावकाचारे प्राह- अथ शुद्रस्याप्याचारविशुद्धिमतो ब्राह्मणादिवद्धर्म्यक्रियाधिकारित्वं यथोचितमनुमन्यमानः प्राह शूद्रोऽप्युपस्कराकारवपुः शुद्ध्याऽस्तु तादृशः । जात्या हीनोऽपि कालादिलो ह्यात्मास्तिधर्म्मभाक् ॥ १ ॥" यत्तु आचारांगसूत्रे 'से भिक्खु वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठे समाणे से जाई पुण कुलाई जाणेज्जा, तंजहा-उग्गकुलाणि वा भोगकुलाणि वा राइनकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडागकुलाणि वा कुट्टागकुलाणि वा गामरक्खकुलाणि वा बोकसालियकुलापि वा अभयरेसु वा तहप्पगारेसु अदुर्गुछिएसु वा अगरहिएसु वा असणं वा पाणं वा खाइमं वा साइमं वा फासुयं एसणिज्जं मनमाणे जाव पडिगाहेज्जा' इति द्वितीयश्रुतस्कन्धे प्रथमाध्ययने द्वितीयोदेशके इत्यागमोक्त्या अप्राप्तगुरुपारम्पर्यार्थः केचित् श्वेता|म्बरविशेषा भिक्षां सर्वकुलेषु समाददते तदपि भ्रमभूलं, यतस्तत्रैव तृतीयोदेशके केषांचित् कुलानां निषेधात्, सर्वकुलेषु उच्चनीचमध्यमेषु निरवशेषभिक्षाग्रहनियमविरोधात्, तत्सूत्रं यथा से भिक्खु वा भिक्खुणी वा से जाई पुण कुलाई जाणेज्जा, तंजहा - खत्तियाणि वा राईणियाणि वा रायपेसियाणि वा रायवंसडियाणि वा अंतो वा बहिं वा गच्छमाणाण वा सन्निविद्वाण वा निमंतमाणाण वा अनिमंतमाणाण वा असणं वा ४ लाभे संते नो पडिगाहेज्जा ।' तेन सूत्रसन्दर्भसमये साम्प्रतीनज्ञातिव्यवहारवद् व्यवहाराभावात् कर्मजैव तचद्रूपव्यवहारात् ये पारम्पर्येणाभिगतजीवाजीवादिपरमार्थश्राद्धवंशशुद्धा मिध्यादृशोऽपि तथा पारम्पर्येण मद्यमांसादिदुष्परिभोगविमुक्तवंश्यास्तेषामेव गृहे यतिना मिक्षा प्रायेति परमार्थः, अत एव यावज्जीवमस्माकमनाकुट्टिरिति वचसा साधुना राजपुत्रा
For Private and Personal Use Only
भिक्षायोग्य
कुलानि
||२०६ ॥