SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥२०५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहोच्यत्वे भगवता वृषभदेवस्य जन्मनः प्रारम्भात् पदलक्षपूर्वगमने बाहुबलिनो जाततया स्तोककालान्तरत्वात् तावत्प्रमात्वं न्यायोपेतमेव, न हि पितुरुच्चत्वे सामान्यमाधिक्यं वा पुत्रस्य न स्यादिति, प्रत्यक्षविरोधात् तेनादिपुराणे 'प्राचीनार्क सह त्विषा' इति प्रागुक्तदृष्टान्ते सुन्दर्या सह बाहुबलिनो युगलजातत्वं दृढीकृतं 'मरुदेव्या समं नाभिराजो राजशतैर्वृतः । अमूतस्थौ तथा द्रष्टुं विभोर्निष्क्रमणोत्सवम् ॥ १ ॥ इति १७ पर्वा पित्रोर्जीवनं भगवद्दीक्षासमयं यावदुक्तं, अस्मिन् मते भगनन्मातुर्जीवनमपि केवलज्ञानप्रापणं यावदुक्तं, न चैतन संगच्छते, यौगलिकत्वान्मातृपुत्रयोः स्तोकान्तरत्वेन तद्गमकत्वं सम्भाव्यते, ततश्व सिद्धिरपि न चेत् 'संघयणं संठाणं उच्चतं कुलगरेहिं सम मिति आवश्यकानिर्युक्तिवचनात् मरुदेव्याः पंचधनुःशताच्चस्वे मुक्तिरपि न युक्तिमती, एतेन भाग्यवत्याः स्त्रियाः किंचिदूनत्वं, ततो नाभेः सपादपंचधनुः शतोच्चत्वेऽपि मरुदेव्याः पंचधनुःशतान्येव, तथा हस्त्यारूढत्वेन किंचिन्न्यूनत्वं नाभेस्तनूच्चत्ये सामान्येऽपि सम्भवतीत्यादिविकल्पाः कृतोत्तरा इति, आस्तां बाहुबलिन उच्चत्वं, अष्टानां नष्तॄणामपि तथाच्चत्वमिति, तत एवार्यता । शूद्राणां गृहे भिक्षा इत्यत्र किं शूद्रत्वं १, जात्या आचरणेन वा ?, नाद्यः, जात्या शूद्रत्वं ब्राह्मणैः साम्प्रतीनवणिग्मात्रस्य: व्यवहियते, तत्र भवतामपि आहारात्, अथाचरणेन शूद्रत्वं चेत् आचरणं मद्यमांसागलितजलपानाद्यं, न च तत्रास्माकं जैनपरम्परागतानामाहारः, किन्तु श्राद्धव्यवहारपारम्पर्यविशुद्धानामेव गृहेऽशन ग्रहणमिति नियमात्, "संयमः पंचाणुव्रतप्रवर्त्तनं तपः अनशनादिद्वादशविधानुष्ठानामित्यार्यषट्कर्मनिरता गृहस्था द्विविधा भवन्ति जातिक्षत्रियास्तीर्थक्षत्रियाश्च तत्राद्याः क्षत्रियत्राह्मण For Private and Personal Use Only अष्टशतसिद्धि जल्पस० ॥२०५॥
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy