Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 182
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ४५ निश्चयाद् द्वयोरपि अतन्मार्गत्वेन व्यवहारात् द्वयोरपि मार्गत्वेन भणनादेतद्विकल्पानवकाशात् ब्रह्मदेवोऽप्याह समयसारवृत्तौ"निर्विकारविशुद्धात्मसंवित्तिलक्षणभावलिंगसहित निर्ग्रन्थयतिलिंगं कोपीनकारणादिबहुभेदसहितं गृहिलिंगं चेति द्वयमपि मोक्षमार्ग. ॥१६८॥ इति व्यवहारनयः,' मोक्षप्राभृतेऽप्येवम्- 'एवं जिणेहिं कहियं समणाणं सावयाण पुण मुणसु । संसारविणासयरं सिद्धयरं कारणं पय ॥ १ ॥' अत्र श्रावका दीक्षायोग्यध्यानाधिकारिणो देशव्रताः सन्त आत्मभावनापराः संसाराद्विरक्तचित्ता आरक्षकगृहीतचौ वत् गृहपरिहारमनस' इति वृत्तिः, अयमेव भावार्थो दर्शनमाभृते- 'दंसणभट्ठा' इत्यादिप्रागुक्तगाथायां, 'चरणभट्ठा' इत्यस्य द्रव्यचारित्ररहिता इति व्याख्यानात् सुलभो, भावचारित्रराहित्ये सिद्धेरभावात्, अत्र श्रेणिकं दृष्टान्तीकृत्य सिद्धेभविष्यत्तां व्याख्यान्ति तन्न युक्तं, तथा सति सम्यक्त्वभ्रष्टस्यापि आगामिभवान्तरगुर्वादिसामग्रचा पुनस्तल्लब्धौ सिद्धेरविरोधात्, भविष्यत्ताया अप्रयोगाच्च । किञ्च श्रेणिकस्तु चारित्रभ्रष्ट एव नास्ति, सूत्रे तु चारित्रभ्रष्टास्तत् कथं श्रेणिकदृष्टान्तः सूपपादः १ अथ शुद्धोपयोगस्यैव श्रावकाणामसम्भवात् न तुल्लिंगं मुक्तिरिति तदप्यसारं, दीक्षायोग्य ध्यानाधिकारिण आत्मभावनापरा इति प्रागेव शुद्धोपयोगकथनात्, न चैवं व्यवस्थापने द्रव्यचारित्राचरणलोपापत्तिः, कस्यचित् कर्मलाघवेन मोक्षावासौ न सार्वत्रिकन्यायः प्रयोक्तव्यः, द्रव्यचारित्राचारस्य प्रागेव प्राधान्यकथनात्, यदपि गृहस्थानां वस्त्राभरणावश्यंभावान्न ताद्रूप्ये मोक्षगम इत्यपि श्रद्धानं तदपि न किञ्चित्, नमस्यैव मोक्षस्थापनाऽभिप्रायेण स्त्रीमुक्तिनिषेधवत् केवलिशुक्तिनिषेधवत् श्वेताम्बरधर्म्मद्वेषाश मेन तथा व्यवस्थापनात्, न चेत्कथं शिवकुमारादेर्भावश्रमणत्ववचनं यौक्तिकं स्यात्, यदुक्तं- “भावसमणो य धीरो जुवइयणवेढिजो विसुद्धमई । णामेण सिवकुमारो परित्तसंसारिओ जाओ ॥ १ ॥ एवं-भावेण होइ जग्गो बाहिरलिंगेण किंच नरगेण १। कम्म For Private and Personal Use Only गृह्यन्यलिंगिसिद्धिः ॥१६८॥

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234