________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ४५ निश्चयाद् द्वयोरपि अतन्मार्गत्वेन व्यवहारात् द्वयोरपि मार्गत्वेन भणनादेतद्विकल्पानवकाशात् ब्रह्मदेवोऽप्याह समयसारवृत्तौ"निर्विकारविशुद्धात्मसंवित्तिलक्षणभावलिंगसहित निर्ग्रन्थयतिलिंगं कोपीनकारणादिबहुभेदसहितं गृहिलिंगं चेति द्वयमपि मोक्षमार्ग. ॥१६८॥ इति व्यवहारनयः,' मोक्षप्राभृतेऽप्येवम्- 'एवं जिणेहिं कहियं समणाणं सावयाण पुण मुणसु । संसारविणासयरं सिद्धयरं कारणं पय ॥ १ ॥' अत्र श्रावका दीक्षायोग्यध्यानाधिकारिणो देशव्रताः सन्त आत्मभावनापराः संसाराद्विरक्तचित्ता आरक्षकगृहीतचौ वत् गृहपरिहारमनस' इति वृत्तिः, अयमेव भावार्थो दर्शनमाभृते- 'दंसणभट्ठा' इत्यादिप्रागुक्तगाथायां, 'चरणभट्ठा' इत्यस्य द्रव्यचारित्ररहिता इति व्याख्यानात् सुलभो, भावचारित्रराहित्ये सिद्धेरभावात्, अत्र श्रेणिकं दृष्टान्तीकृत्य सिद्धेभविष्यत्तां व्याख्यान्ति तन्न युक्तं, तथा सति सम्यक्त्वभ्रष्टस्यापि आगामिभवान्तरगुर्वादिसामग्रचा पुनस्तल्लब्धौ सिद्धेरविरोधात्, भविष्यत्ताया अप्रयोगाच्च । किञ्च श्रेणिकस्तु चारित्रभ्रष्ट एव नास्ति, सूत्रे तु चारित्रभ्रष्टास्तत् कथं श्रेणिकदृष्टान्तः सूपपादः १ अथ शुद्धोपयोगस्यैव श्रावकाणामसम्भवात् न तुल्लिंगं मुक्तिरिति तदप्यसारं, दीक्षायोग्य ध्यानाधिकारिण आत्मभावनापरा इति प्रागेव शुद्धोपयोगकथनात्, न चैवं व्यवस्थापने द्रव्यचारित्राचरणलोपापत्तिः, कस्यचित् कर्मलाघवेन मोक्षावासौ न सार्वत्रिकन्यायः प्रयोक्तव्यः, द्रव्यचारित्राचारस्य प्रागेव प्राधान्यकथनात्, यदपि गृहस्थानां वस्त्राभरणावश्यंभावान्न ताद्रूप्ये मोक्षगम इत्यपि श्रद्धानं तदपि न किञ्चित्, नमस्यैव मोक्षस्थापनाऽभिप्रायेण स्त्रीमुक्तिनिषेधवत् केवलिशुक्तिनिषेधवत् श्वेताम्बरधर्म्मद्वेषाश मेन तथा व्यवस्थापनात्, न चेत्कथं शिवकुमारादेर्भावश्रमणत्ववचनं यौक्तिकं स्यात्, यदुक्तं- “भावसमणो य धीरो जुवइयणवेढिजो विसुद्धमई । णामेण सिवकुमारो परित्तसंसारिओ जाओ ॥ १ ॥ एवं-भावेण होइ जग्गो बाहिरलिंगेण किंच नरगेण १। कम्म
For Private and Personal Use Only
गृह्यन्यलिंगिसिद्धिः
॥१६८॥