________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
॥१६९॥
SESAMSUNSEEK
पयडीण नियरं णासइ भावे ण दव्वेण ॥२॥ अस्यार्थः-कर्मप्रकृतीनां निकर भावे सति नाशयेत, न तु द्रव्येण इति, न पुनर्भा-अन्यलिङ्ग वेन द्रव्येण कर्मप्रकृतिनिकरं नाशयतीत्ययमर्थः,भावप्राभृते भावस्यैव प्राधान्योपदेशस्य सौष्टवात, न तु द्रव्यभावयोस्तौल्येन,'भाव'| सिद्धिः | इत्यत्र सत्सप्तमीव्याख्यानं, यद्वा तृतीयार्थे सप्तमी, प्राभृते विभक्तिव्यत्ययस्योक्तत्वात्, तत एव पूर्वापरायोः सान्वयता, अन्यथा |
जलपाश्च वैषम्यादिति सिद्धा गृहस्थलिंग सिद्धिः, अनयैव नयदिशान्यलिंगेऽपि, उक्तंच-"अनाद्यमिथ्यागपि, श्रित्वार्हद्रूपतां पुमान् । साम्यं प्रपन्नः स्वं ध्यायन , मुच्यतेऽन्तर्मुहूर्त्ततः॥१॥ आराध्य चरणमनुपममनादिमिथ्यादृशोऽपि यत् क्षणतः । दृष्टा विमुक्तिभाजस्ततोऽपि चारित्रमत्रैष्ट ॥२॥" न केवलं सादिमिथ्याष्टिरविरतिसम्यग्दृष्टिः श्रावको वा इत्यपिशब्दार्थः, द्रव्यतः पुंल्लिंग एव निग्रन्थलिंगमा श्रित्य माध्यस्थ्यं प्राप्तः आत्मानं समादधानः किंचिदूननाडिद्वयमात्रतो द्रव्यभावकमभिः स्वयमेव विश्लिष्यते इति आशाधरश्रावकाचारसूत्रवृत्ती, न चाहद्रूपकथनात् द्रव्यचारित्रमागतमिति नाग्न्यस्यैव द्रव्यलिंगत्वात, भरतादेरिव तस्य मिथ्याशामविरोधात्, यस्तु संसगेनिषेधः स तु नयानुवादजन्यो न प्रमाणपथपान्थः, प्रतिबोधादी प्रश्नोत्तरादौ संसर्गेऽपि धर्मदास्येवता नैश्चल्यात् , स्वप्नज्ञानविषयीकृतमोदकदृष्टान्ते तु स्वप्नज्ञानजन्यकर्मबन्धेनैवोचर, लोकेऽपि स्वप्नजन्यभयस्य पूत्कारादिना प्राकट्येन प्रवृत्तिदृश्यत एवेति सर्व सुस्थमिति गाथार्थः ॥ २१ ॥अथ नाटकान्ते नान्दीनिषि:आयारंगप्पमुहं सुयणाणं किमवि नो पमाणेइ । सेयंवराण सासणसद्धाइ तयंतरं बहुलं ॥२२॥
॥१६९॥ आचाराङ्गप्रमुग्वं श्रुतज्ञानं न किमपि प्रमाणयति । श्वेताम्बराणां शासनश्रद्धायास्तदंतरं बहुलम् ॥२२॥
SRRIAGRA
For Private and Personal Use Only