________________
Shri Mahavir Jain Aradhana Kendra
बुक्तिप्रबोधे ॥१६७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बुद्धिपूर्वकममत्वाभावात् पाण्डवादिवत्, 'तृणपूलवहत्पुञ्जे, संक्षोभ्योपरि पातिते । वायुभिः शिवभूतिः स्वं ध्यात्वाऽभूदाच केवली ।। १०२ ।। न्यस्य भूषाधियांगेषु, सन्तप्ता लोहश्रृंखलाः । द्विपक्षैः कीलितपदाः सिद्धा ध्यानेन पाण्डवाः ।। १०३ ।। इत्याशा घरश्रावकाचारे, येऽपि घटिकाद्वयेन मोक्षं गताः भरतचक्रवत्यादयस्तेऽपि निर्ग्रन्थरूपेणैव परं किंतु तेषां परिग्रहत्यागं लोका न जानन्ति, स्तोककालत्वादि"तिः अत्रापि न केवलं जातरूपता एव निर्ग्रन्थरूपं, तथा सति सर्वेऽपि गृहस्था रात्रौ विजने वा नग्नाः सम्भाव्यन्त एव, न तावता निर्ग्रन्थाः, अथ तेषां ताद्रूप्येऽपि ममत्वान्न नैर्ग्रन्ध्यमिति चेद् भरतादेः कथं ?, शुद्धज्ञानोदयेनेति चेत् आयातोऽसि स्वयमेव मार्ग, भावलिंगत्वात्तस्य, अथ द्रव्यतोऽपि ममत्वाश्रयवस्तुत्यागाद् द्रव्यलिंगमपि जातमेवेति चेत्, नू, गृहादिपरिग्रहत्यागस्य भावादेवोपपन्नत्वात्, न द्रव्यतः, अन्यथा लोकज्ञातताया अवश्यंभावात्, अत एव द्रव्यलिंग न मोक्षमार्गः शरीराश्रितत्वे सति परद्रव्यत्वादित्यपि तत्रैवोक्तं युक्तिमज्जायते, इदं सर्वं नैश्वयिकं. पारमार्थिकमेतदेवेति सिद्धं द्रव्यलिंगराहित्येि मस्तादेः केवलम् एवं न बहिर्व्रतशीलनियमतपः प्रभृतिशुभ कर्म्मराहित्यमपि गृहस्थस्य मोक्षबाधकं यदुक्तं समयसारवृत्ती 'स्वयं ज्ञानभूतानां ज्ञानिनां बहिर्वतनियमशीलतपः प्रभृतिशुभकर्मासद्भावेऽपि मोक्षसद्भावात् न चैतत् केवलिव्याख्यानमिति वाच्यं, तस्यापि बहिर्वत नियमशीलसद्भावात्, न हि केवली व्रतीति न पठ्यते, यथाख्यातचारित्रपावित्र्यात्, अस्मन्मते सल्लेखनातपोऽङ्गीकारात्, स्वनयेऽप्यासनादिनियमाच्च, अथैतनिश्चयवचनं न व्यवहारवाक्यं, स्याद्वादिनां नयद्वयापेक्षत्वाद्, व्यवहारेण न गृहस्थमोक्ष इति चेत्, न, व्यवहारेणापि तस्य मोक्षात्, मोक्षसाधनं व्यवहारतो लिंग, तच्च यथा यतेस्तथा श्रावकस्यापि तुल्यतया कथित समयसारवृत्तिवचसा- 'ववहारिओ' इत्यादिगाथया, न चात्र यतिलिंगस्य साक्षान्मोक्षमार्गत्वं गृहस्थलिंगस्य परंपरयेति वाच्यं,
For Private and Personal Use Only
गृहिअन्यलिंगसिद्धिः
॥१६७॥