Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 193
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥ १७९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तादृश्या मायाबहुलताया असम्भवो, बन्धस्तु अप्रमत्ताच्च्यवने द्वितीयप्रथमगुणस्थानागमन एव यदुक्तं ज्ञाताधर्म्मकथांगवृत्ती" इत्थीनामगोअं” ति, स्त्रीनाम स्त्रीपरिणामः स्त्रीत्वं यदुदयाद्भवति तत् स्त्रीनाम इति गोत्रम् - अभिधानं यस्य तत् श्रीनामगोत्रं, अथवा स्त्रीप्रायोग्यं नामकर्म्म गोत्रं च तत् स्त्रीनामगोत्रं निर्वर्तितवान्, तत्काले मिध्यात्वं सास्वादनं वाऽनुभूतवान्, स्वीनामककर्म्मणो मिथ्यात्वानुबन्धिप्रत्ययत्वात्, अथैवं बन्धे साधितेऽपि तदुदयस्तृतीयभवे न योग्यः, बाधाकालस्य तावतोऽभावादिति चेत्, न, उदयस्य कर्म्मनिषेकरीत्या द्वितीयभवे तद्भवेऽपि सम्भवात्, योनिरूपांगोपांगनामकर्म्मप्रकृतिस्तु देवभवे विरति गुणस्थानेऽपि बध्यत इति द्रव्यतो योनिमत्त्वं मल्लिभवे उदियाय बन्धः तृतीयभवे प्राक्कृतः सः, भावरूपमोहनीयप्रकृतिस्त्रीवेदरूपेणैव तदुदयो देवभवादौ न दुर्लभ इति, अथानुत्तरविमानेऽप्रवीचारतया कथं तदुदय इति चेत् सत्यम्, अप्रवीचारता तेषामधस्तनदेवापेक्षमा संख्यातगुणहान्यैव, न चेत्पुंवेदस्याप्यनुपपत्तिः, न चेष्टापत्तिः, विमानोल्लोचस्थितमौक्तिकास्फालनजन्यरागध्वनिजनितानन्दलक्षणरतिसंवेदनवत् पुंवेदेऽबाधकत्वात्, नमः स्वल्पार्थत्वेऽप्यबलादिवद्भावात्, अथ यदि स्त्रीतीर्थकरः स्यात्तदा स्तनावयवदर्शनेऽशोभनत्वं, द्रष्टृणां कामोल्लासहेतुत्वं स्यादित्यपि न, सुभगतातिशयेन तदुत्तरकरणाद्, अन्यथा पुरुषे तीर्थकरऽपि द्वयं स्यात्, न चास्माकमिव भवतां | मते नाग्न्यादर्शनं स्वीक्रियते, यदि च नाग्न्यादर्शनं पुंल्लिंगतीर्थकराणां तदाऽत्रापि स्तनादर्शनेनैव सन्तोष्टव्यं भवता, अत एव मल्लस्तद| न्येषां प्रतिमा लोकोत्तराकारेणैव शाश्वतप्रतिमानुसारिणी पूज्यते, तीर्थकराणामपि तथै व दर्शनात्, यदुक्तमावश्यकनिर्युक्तौ नय नाम १ सुस्वरसुभगादि न पुनर्योन्यङ्गोपाङ्गादि । २ त्वन्नये तेजोमयत्वेन भासुरपरमोदारिकस्वीकारात् । For Private and Personal Use Only जलपानां समाधानं ॥ १७९॥

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234